3-2-56 आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेषु अच्वौ कृञः करणे ख्युन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि
आढ्यादिषु कर्मसूपपदेषु च्व्यर्थेष्वच्व्यन्तेषु करोतेर्धातोः करणे कारके ख्युन् प्रत्ययो भवति। च्वेर्विकल्पेन विधानाद् द्विविधाश्च्व्यर्थाः। च्व्यन्ता। अच्व्यन्ताश्च। तत्र च्व्यन्ताः पर्युदस्यन्ते। अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम्। सुभगंकरणम्। स्थूलंकरणम्। पलितंकरणम्। नग्नंकरणम्। अन्धंकरणम्। प्रियंकरणम्। च्व्यर्थेष्विति किम्? आढ्यं तैलेन कुर्वन्ति, अभ्यञ्जयन्तीत्यर्थः। प्रकृतेरविवक्षायामभूतप्रादुर्भावेऽपि प्रत्युदाहरणं भवति। अच्वाविति किम्? आढ्यीकुर्वन्त्यनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्। न च ल्युटः ख्युनश्च विशेषोऽस्ति। तत्र किं प्रतिषेधेन? एवं तर्हि प्रतिषेधसामर्थ्यात् ख्युन्यसति ल्युडपि न भवति, तेन ल्युटोऽप्ययमर्थतः प्रतिषेधः। उत्तरार्थश्च च्विप्रतिषेधः क्रियते॥
एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । आढ्यामाढ्यं कुर्वन्त्यनेन आढ्यकरणम् । अच्वौ किम् । आढ्यीकुर्वन्त्यनेन । प्रतिषेधसामर्थ्यात् इह ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥
<<आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्>> -
आढ।ल्सुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥ आढ्यदिष्विति। अनेन आढ्यदीनामुपपदत्वं दर्शयति। करणे कारके इत्यनेनापि करणस्य प्रत्ययार्थत्वम्। अथैवं कस्मान्न विज्ञायते - करण उपपदे आढ्यदिषु कर्तृष्विति? उच्यते -'च्व्यर्थेष्वच्चौ' इति वचनाद् आढ्यदिशब्दाः स्वरूपप्रधानाः, न च शब्दानां कर्तृत्वमुपपद्यते। ननु च श्रवणेन करोति सुखमाढ्यशब्द इत्यत्र शब्दस्यापि कर्तृत्वं सम्भवति? एवं तर्हि व्याख्यानातथा नाश्रीयते। अच्वाविति तत्पुरुषो बहुव्रीहिर्वा, अच्व्यन्त इत्यर्थः। प्रत्येकं सम्बन्धात्वेकवचनम्। कथं पुनच्व्यर्थाश्च भवन्त्यचव्यन्ताश्च भवन्तीत्याह - च्वेविकल्पेन विधानादिति। आढ।ल्ङ्करणमिति। ख्युनः खकारो मुमर्थः, लिङ्गविशिष्टपरिभाषया स्त्रालिङ्गष्वाढ्यदिषूपपदेषु ह्रस्वार्थश्च। नकारः स्वरार्थः। योरनादशः। अभ्यञ्चयन्तीत्यर्थ इति। अनेकार्थत्वाद्धातूनाम्। तेनात्र प्रागनाढयः सन्नाढयः क्रियत इति अभूततद्भावाभावः। भवतु वाऽभूततद्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमित्याह - प्रकृतेरविवक्षायामिति। प्रकृतिरेव परिणामित्वेन यत्र विवक्ष्यते, यथा - -तन्तवः पटो भवतीति, तदा च्विप्रत्ययः, तथा च वार्तिकम् -'प्रकृतिविवक्षाग्रहणं च' इति, प्रकृतिः कार्यस्य पूर्वावस्था। अच्वाविति किमिति। अस्य वक्ष्यमाणोऽभिप्रायः, तमाविष्करोति - ननु चेति। ल्युटात्र भवितव्यमिति।'करणाधिकरणयोश्च' इति। न च ल्युटः ख्युनश्च विशेषोऽस्तीति, ल्युटि तावदाढ्योकरणमिति रूपम्, स्वरोऽपि लित्स्वरेणोतरपदाद्यौ9दातत्वम्; ख्युन्यपि नित्स्वरेणाद्यौदातत्वम्,'खित्यनव्ययस्य' ठरुर्द्विषदजन्तस्य मुम्ऽ इति ह्रस्वत्वम्, मुम् चानव्ययस्य विधीयते, च्व्यन्ताश्चाव्ययम्; ठूर्यादि च्विडाचश्चऽ इति निपातत्वात्। स्त्रियामप्युभयत्र'टिड्ढाणञ्' इत्यादिना ङीब् भवति, अतो रूपे स्वरे च नास्ति विशेषः। उतरार्थश्चोति। उतरसूत्रे खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः, कथं तर्हि पूर्वमुक्तम् - प्रतिषेधसामर्थ्यादिति? अस्मिन्सूत्रे प्रतिषेधसामर्थ्यादिति भावः। केवलोतरार्थत्वे हि तत्रैव ठच्वौऽ इत्यवक्ष्यत्, यथा वक्ष्यते - इह किंचित्रपो इति। भाष्ये तूतरार्थमेव स्थितम्॥