3-2-29 नासिकास्तनयोः ध्माधेटोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्
नासिकास्तनयोः कर्मणोरुपपदयोर्ध्माधेटोर्धात्वोःखश् प्रत्ययो भवति। यथासंख्यमत्र नेष्यते॥ स्तने धेटः॥ स्तनन्धयः॥ नासिकायां तु ध्मश्च धेटश्च॥ नासिकन्धमः। नासिकन्धयः। तच्चैतन्नासिकास्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्या — पूर्वनिपातनाल्लभ्यते। धेटष्टित्तवात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी॥
अत्र वार्तिकम् ।<!स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् !> (वार्तिकम्) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥
<<नासिकास्तनयोर्ध्माधेटोः>> - नासिका । नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी । ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।ख॑शिति शेषः । यथासङ्ख्यमन्वये प्राप्ते आह — अत्र वार्तिकमिति । धेटष्टित्त्वादिति । यद्यपिटिड्ढे॑त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः । अत्र यद्वक्तव्यं तत्प्राघ्राध्माधेट्दृशः शः॑ इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकाया ध्मश्चेति । चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति — नासिकन्धय इति ।
नासिकास्तनयोर्ध्माधेटोः॥ नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातृणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम् - -उतरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः॥