तत्र भवः

4-3-53 तत्र भवः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कालादिति निवृत्तम्। तत्रेति सप्तमीसमर्थाद् ङ्याप्प्रातिपदिकाद् भव इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सत्ता भवत्यर्थो गृह्यते न जन्म, <<तत्र जातः>> ४.३.२५ इति गतार्थत्वात्। स्रुघ्ने भवः स्रौघ्नः। माथुरः। राष्ट्रियः। पुनस्तत्रग्रहणं तदस्येति निवृत्त्यर्थम्॥

Siddhanta Kaumudi

Up

स्रुघ्ने भवः स्रौघ्नः ॥ राष्ट्रियः ॥

Laghu Siddhanta Kaumudi

Up

स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तत्र भवः>> - तत्र भवः । कालादिति निवृत्तम् । अस्मिन्नर्थे सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । भवनं सत्ता, जननमुत्पत्तिरिति भेदः । रुआऔग्घ्न इति । #औत्सर्गिकोऽण् । राष्ट्रिय इति ।राष्ट्रावारे॑ति घः ।

Padamanjari

Up

कालादिति निवृतमिति ।'तत्र जातः' इति प्रकृतं तत्रग्रहणं कालाधिकारेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह तत्रग्रहणं कृतम्'सप्तम्यर्थमात्रं यथा गृह्यएत कालसम्बन्धविशिष्टः सप्तम्यर्थो मा ग्राहि' इत्यवमर्थमिति भावः । ननु च प्रकृतं तत्रग्रहणं पूर्वसूत्रे तदिति प्रथमया समर्थविभक्त्या व्यवहितम् ? नेत्याह, शक्यं हि तदन्यत्रापि पठितुम् ॥