8-4-59 वा पदान्तस्य पूर्वत्र असिद्धम् संहितायाम् अनुस्वारस्य ययि परसवर्णः
पदान्तस्य अनुस्वारस्य ययि वा परसवर्णः
पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णादेशः भवति ।
An अनुस्वार occurring at end of a पद when followed by a यय् वर्ण is optionally converted to the परसवर्ण.
पदान्तस्यानुस्वारस्य ययि परतो वा परसवर्णादेशो भवति। तङ् कथञ् चित्रपक्षण् डयमानन् नभःस्थम् पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत्॥
पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥
त्वङ्करोषि, त्वं करोषि॥
1. सर्वं कृष्णम् → सर्वङ्कृष्णम्, सर्वं कृष्णम् ।
2. अहं खलु → अहङ्खलु, अहं खलु ।
3. किं गीतम् → किङ्गीतम्, किं गीतम् ।
4. संघटना → सङ्घटना, संघटना । उपसर्गस्य पदसंज्ञा भवति, अतः उपसर्गस्य अन्ते विद्यमानः अनुस्वारः पदान्त-अनुस्वारः एव स्वीक्रियते ।
5. त्वं ङकारः → त्वङ्ङकारः, त्वं ङकारः ।
1. इदं चित्रम् → इदञ्चित्रम्, इदं चित्रम् ।
2. कं छात्रम् → कञ्छात्रम्, कं छात्रम् ।
3. किं जितम् → किञ्जितम्, किं जितम् ।
4. तं झटिति → तञ्झटिति, तं झटिति ।
5. त्वं ञकारः → त्वञ्ञकारः, त्वं ञकारः ।
1. इदं टङ्कणम् → इदण्टङ्कणम् इदं टङ्कणम् ।
2. कं ठकारम् → कण्ठकारम्, कं ठकारम् ।
3. किं डयते → किण्डयते, किं डयते ।
4. तां ढक्काम् → ताण्ढक्काम्, तां ढक्काम्
5. त्वं णकारः → त्वण्णकारः, त्वं णकारः ।
1. इदं तत्र → इदन्तत्र, इदं तत्र ।
2. त्वं थकारः → त्वन्थकारः, त्वं थकारः ।
3. किं दत्तम् → किन्दत्तम्, किं दत्तम् ।
4. तं धृतम् → तन्धृतम्, तं धृतम् ।
5. अहं नमामि → अहन्नमामि, अहं नमामि ।
1. फलं पतितम् → फलम्पतितम्, फलं पतितम् ।
2. त्वं फुल्लः → त्वम्फुल्लः, त्वं फुल्लः ।
3. एतं बन्धम् → एतम्बन्धम्, एतं बन्धम् ।
4. अहं भीतः → अहम्भीतः, अहं भीतः ।
5. किं मया → किम्मया, किं मया ।
1. त्वं यासि → त्वय्ँयासि, त्वं यासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।
2. अहं वन्दे → अहव्ँवन्दे, अहं वन्दे । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।
3. किं लब्धम् → किल्ँलब्धम् , किं लब्धम् । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।
4. रेफस्य अनुनासिकः सवर्णः न विद्यते, अतः पदान्त-अनुस्वारात् रेफे परे अनुस्वारस्य परसवर्णादेशः न भवति ।
<<वा पदान्तस्य>> - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।
तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥