अङ्गुल्यादिभ्यष्ठक्

5-3-108 अङ्गुल्यादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे

Sampurna sutra

Up

अङ्गुल्यादिभ्यः इवे ठक्

Neelesh Sanskrit Brief

Up

अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे 'ठक्' इति प्रत्ययः भवति ।

Kashika

Up

अङ्गुल्यादिभ्य इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीवाङ्गुलिकः। भारुजिकः॥ अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः॥

Siddhanta Kaumudi

Up

अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'ठक्' इति प्रत्ययः भवति । अङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश । उदाहरणानि - 1. अङ्गुलिः इव = अङ्गुलि + ठक् → अङ्गुलि + इक [<<ठस्येकः>> 7.3.50 इति इक्] → आङ्गुलि + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आङ्गुल् + इक [<<यस्येति च>> 6.4.148 इति इकारलोपः] → आङ्गुलिक 2. बभ्रुः इव = बभ्रु + ठक् → बभ्रु + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ककारादेशः] → बाभ्रु + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → बाभ्रुक । 3. उदश्वित् इव = उदश्वित् + ठक् → उदश्वित् + क [<<इसुसुक्तान्तात् कः>> 7.3.51 इति ककारादेशः] → औदश्वित् + क [<<किति च>> 7.2.118 इति आदिवृद्धिः] → औदश्वित्क विशेषः - 1. स्त्रीत्वे विवक्षिते सर्वत्र <<टिड्ढाणञ्..>> 4.1.15 इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः स्मर्तव्यम् - <<इवे प्रतिकृतौ>> 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे ठक्-प्रत्ययः एव भवति ।

Balamanorama

Up

<<अङ्गुल्यादिभ्यष्ठक्>> - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।

Padamanjari

Up