7-3-84 सार्वधातुकार्धधातुकयोः गुणः
अङ्गस्य गुणः सार्वधातुक-आर्धधातुकयोः
सार्वधातुके आर्धधातुके च प्रत्यये परे इगन्तस्य अङ्गस्य गुणादेशः भवति ।
When followed by an सार्वधातुक or an आर्धधातुक प्रत्यय, an इगन्त अङ्ग gets a गुणादेश.
सार्वधातुक आर्धधातुके च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति। तरति। नयति। भवति। आर्धधातुके — कर्ता। चेता। स्तोता। सार्वधातुकार्धधातुकयोरिति किम्? अग्नित्वम्। अग्निकाम्यति। यदि हि प्रत्यये सङीति वोच्येत, इहापि स्यात्॥
अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥
धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' अनेन प्रकारेण विभाजिताः सन्ति । एतेषां सर्वेषाम् विषये अनेन सूत्रेण इगन्तस्य अङ्गस्य गुणादेशः भवति । गुणादेशः इत्युक्ते 'गुण'संज्ञकस्य वर्णस्य आदेशः । <<अदेङ् गुणः>> 1.1.2 इत्यनेन अकार-एकार-ओकाराणाम् 'गुण'संज्ञा भवति । अतः एतेषु स्थानिनः यः अन्तरतमः स एव आदेशरूपेण आगच्छति । <<इको गुणवृद्धी>> 1.1.3 इत्यनेन अङ्गस्य अन्तिम-इक्-वर्णस्यैव अयम् गुणादेशः भवति । अतः अकारान्तानाम् एजन्तानाम् च अङ्गानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । उदाहरणे एते - 1. नी + तृच् [<<ण्वुलतृचौ>> 3.1.133 इत्यनेन तृच्-प्रत्ययः । <<आर्धधातुकं शेषः>> 3.4.114 इति अयमार्धधातुकसंज्ञां प्राप्नोति ] → ने + तृ [आर्धधातुके प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशः भवति । स्थानसाधर्म्यात् इकारस्य गुणादेशरूपेण एकारः विधीयते ] 2. भू-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - भू + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → भू + तिप् [<<तिप्तस्..>> 3.4.78 इति तिप्] → भू + शप् + ति [<<कर्तरि शप्>> इति सार्वधातुके प्रत्यये परे औत्सर्गिकः विकरणप्रत्ययः शप्] → भो + अ + ति [शप् इत्यस्मिन् सार्वधातुके प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति अङ्गस्य गुणादेशः । ऊकारस्य गुणः तादृशः एव ओष्ठ्यः ओकारः] → भवति [<<एचोऽयवायावः>> 6.1.78 इति ओकारस्य अव्-आदेशः] ज्ञातव्यम् - यदि कश्चन प्रत्ययः ङित् / गित् / कित् अस्ति, तर्हि अस्मिन प्रत्यये परे <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन निर्दिष्टः गुणादेशः <<क्ङिति च>> 1.1.5 इत्यनेन निषिध्यते । यथा, भू + क्त = भूत । अत्र यद्यपि क्त-प्रत्ययः आर्धधातुकः अस्ति, तथापि अयम् कित्-प्रत्ययः अस्ति, अतः अत्र उकारस्य गुणः न विधीयते ।
<<सार्वधातुकार्धधातुकयोः>> - भू-अ-ति-इति स्थिते — सार्वधातुकाद्र्ध । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते । तदन्तविधिः । 'मिदेर्गुण' इत्यस्माद्गुण इत्यनुवर्तते । तदाह — अनयोरित्यादिना । तथा च ऊकारस्य गुण ओकारः । अवादेश इति ।ओकारस्येटति शेषः । तथा च परिनिष्ठितं रूपमाह — भवतीति । भवत इति । कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते — झोऽन्तः ।
सार्वधातुकार्धधातुकयोरिति किमिति । एवं मन्यतेप्रत्यय इति वक्तव्यम्, एवमपि हीष्टे विषये सिद्ध्यतीति । सङिति प्रत्याहारः; सनः सशब्दादाहरभ्या महिङे ङ्कारात् । अग्नित्वमिति । प्रत्यय इत्युच्यमाने, अत्रापि प्राप्नोति । अग्निकाम्यतीति । सङीत्युच्यमाने अत्रापि प्राप्नोति ॥