तस्य पूरणे डट्

5-2-48 तस्य पूरणे डट् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः

Sampurna sutra

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


'तस्य पूरणे' (इति) सङ्ख्यायाः डट्

Neelesh Sanskrit Brief

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः उच्यते ।

Kashika

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


तस्य इति षष्ठीसमर्थात् सङ्ख्यावाचिनः प्रातिपदिकात् पूरणे इत्यस्मिन्नर्थे डट् प्रत्ययो भवति। पूर्यतेऽनेन इति पूरणम्। येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः। एकादशानां पूरणः एकदशः। त्रयोदशः। यस्मिन्नुपसञ्जातेऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः। इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति।

Siddhanta Kaumudi

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


एकादशानां पूरण एकादशः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


एकादशानां पूरणः एकादशः॥

Neelesh Sanskrit Detailed

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


अस्य सूत्रस्य अर्थम् ज्ञातुमादौ 'पूरणः' इति किम् तत् ज्ञेयम् । 'पूर्यते अनेन' अस्मिन् अर्थे 'पॄ (पूरणे)' धातोः ल्युट्-प्रत्ययं कृत्वा 'पूरण' इति शब्दः सिद्ध्यति । 'गणनायाः पूर्णता भवति' इति अर्थः अत्र विवक्षितः अस्ति । Ordinal number - इति आशयः ।

यथा - पञ्च जनाः सन्तीति चिन्तयामः । 'एतेषाम् गणना कर्तव्या चेत् कीदृशी कुर्यात्' इति प्रश्ने प्राप्ते -'अयम् प्रथमः, अयम् द्वितीयः, अयं तृतीयः' - एतादृशम् पृथक्करणम् कर्तुम् शक्यते । अत्र 'द्वितीय', 'तृतीय', 'चतुर्थ' एतादृशाः शब्दाः गणनायाः पूर्णतायै प्रयुज्यन्ते, अतः एते सर्वे 'पूरणवाचकाः शब्दाः' सन्ति इत्युच्यते । एतेषाम् निर्माणार्थम् यस्य प्रत्ययस्य साहाय्यम् स्वीक्रियते, सः प्रत्ययः 'पूरणप्रत्ययः' नाम्ना ज्ञायते । वर्तमानसूत्रेण 'डट्' इति पूरणप्रत्ययः पाठितः अस्ति ।

यथा -

  1. एकादशानाम् पूरणः

= एकादशन् + डट्

→ एकादश् + अ [डित्त्वात् टेः 6.4.143 इति टिलोपः[

→ एकादश (eleventh इत्यर्थः)

  1. द्वादशानाम् पूरणः द्वादशः । (twelfth इत्यर्थः)

  2. विंशतीनाम् पूरणम् विंशः (twentieth इत्यर्थः) । प्रक्रिया इयम् -

विंशति + डट्

→ विंश + अ [ति विंशतेर्डिति 6.4.142 इति डित्-प्रत्यये परे 'विंशति' शब्दस्य 'ति' इत्यस्य लोपः]

→ विंश [अतो गुणे 6.1.97 इति पररूप-एकादेशः]

स्मर्तव्यम् -

  1. डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - एकादशी तिथी (eleventh day), षोडशी नदी (sixteenth river) - आदयः ।

  2. यद्यपि डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, तथापि अयम् 'आगमः' नास्ति, प्रत्ययः एव अस्तीति स्मर्तव्यम् । अस्य ज्ञानं तु व्याख्यानादेव भवति ।

विशेषः - पूरणप्रत्ययानाम् प्रकरणे इदम् सूत्रम् औत्सर्गिकरूपेण डट्-प्रत्ययस्य विधानं करोति । अस्मात् अग्रे षष्ट्यादेश्चासंख्यादेः 5.2.58 इति यावत्सु सूत्रेषु अस्य डट्-प्रत्ययस्य केचन आगमाः / अपवादाः अपि विधीयन्ते । एतेषां सर्वेषाम् सङ्कलनम् अस्मिन् लेखे कृतमस्ति ।

Balamanorama

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


तस्य पूरणे डट् - तस्य पूरणे । सङ्ख्याया इत्यनुवर्तते । सङ्ख्येयार्थकसङ्ख्यावाचिनः षष्ठन्तात्प्रवृत्तिनिमित्तसङ्ख्यायाः पूरणे वाच्ये डट्प्रत्ययः स्यादित्यर्थः । पूर्यते अनेनेति पूरणः=अवयवः, स प्रत्ययार्थः । एकादश इति । एकादशत्वसङ्ख्यायाः पूरकोऽवयव इत्यर्थः । यस्मिन्ननुपात्ते एकादशत्वसङ्ख्या न सम्पद्यते, यस्मिन्नुपात्ते तु सा पूर्यते, सोऽवयवः । एकदेश इति यावत् । प्रवृत्तिनिमित्तेति किम् । पञ्चाना घटानां पूरणं जलादि ।

Padamanjari

Up

index: 5.2.48 sutra: तस्य पूरणे डट्


तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह - येनेति। संख्येत्यस्य विवरणम् - संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु'समर्थः पदविधिः' इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥