4-4-62 छत्रादिभ्यः णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य शीलम्
index: 4.4.62 sutra: छत्रादिभ्यो णः
'तदस्य शीलम्' (इति) छत्रादिभ्यः णः
index: 4.4.62 sutra: छत्रादिभ्यो णः
'अस्य शीलम्' अस्मिन् अर्थे छत्रादिगणस्य प्रथमासमर्थेभ्यः शब्देभ्यः ण-प्रत्ययः भवति ।
index: 4.4.62 sutra: छत्रादिभ्यो णः
छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलम् इत्येतस्मिन् विषये। ठकोऽपवादः। छत्रं शीलमस्य छात्रः। छादनादावरणाच् छत्रम्। गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः। स्थाशब्दोऽत्र पठ्यते, स उपसर्गपूर्वोऽत्र गृह्यते आस्था संस्था अवस्था इति। छत्र। बुभुक्षा। शिक्षा। पुरोह। स्था। चुरा। उपस्थान। ऋषि। कर्मन्। विश्वधा। तपस्। सत्य। अनृत। शिबिका। छत्रादिः।
index: 4.4.62 sutra: छत्रादिभ्यो णः
गुरोर्दोषाणामावरणं छत्रं तच्छीलमस्य छात्रः ॥
index: 4.4.62 sutra: छत्रादिभ्यो णः
शीलम् इत्युक्ते स्वभावः । शीलम् 4.4.61 अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः प्राग्वहतेः ठक् 4.4.1 अनेन सूत्रेण ठक्-प्रत्यये प्राप्ते छत्रादिगणस्य शब्देभ्यः तं बाधित्वा 'ण'प्रत्ययः भवति ।
छत्रादिगणः अयम् - छत्र, बुभुक्षा, शिक्षा, पुरोह, स्था, चुरा, उपस्थान, ऋषि, कर्मन्, विश्वधा, तपस्, सत्य, अनृत, शिबिका ।
उदाहरणानि -
छत्रम् शीलमस्य सः छात्रः । छत्र + ण → छात्र । 'छत्र' इत्युक्ते आवरणम् । अत्र एतत् आवरणम् 'गुरोः दोषेषु स्थापितमावरणम्' अस्ति । इत्युक्ते, गुरोः दोषान् यः स्वभावतः एव गोपयते / गूहते / आवृणोति, सः छात्रः ।
बुभुक्षा शीलमस्य सः बौभुक्षः ।
शिक्षा शीलमस्य सः शैक्षः ।
अस्मिन् गणे विद्यमानः 'स्था'शब्दः नित्यमुपसर्गेण सह एव स्वीक्रियते । यथा - 'आस्था' शीलमस्य सः = आस्था + ण → आस्थ । 'संस्था' शीलमस्य सः = संस्था + ण → सांस्थ ।
चुरा शीलमस्य सः चौरः ।
ज्ञातव्यम् - अत्र आचार्यः 'अण्' प्रत्ययविधानं न करोति, अपितु ण-प्रत्ययविधानं करोति । वस्तुतः तु अण्-प्रत्यये परे अपि रूपम् समानमेव जायते । परन्तु स्त्रीत्वे विवक्षिते अण्-प्रत्ययान्तशब्दात् टिड्ढाणञ्.. 4.1.15 इत्यनेन ङीप्-प्रत्ययः विधीयते सः अत्र नेष्यते ।अत्र अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययः एव कर्तव्यः, अतः अत्र 'ण'प्रत्ययविधानम् कृतमस्ति । यथा - छत्रम् शीलमस्याः सा छात्रा ।
index: 4.4.62 sutra: छत्रादिभ्यो णः
छत्रादिभ्यो णः - छत्रादिभ्यो णः । एभ्यः प्रथमान्तेभ्योऽस्य शीलमित्यर्थे णप्रत्ययः स्यादित्यर्थः । छत्रं शीलमस्य छात्र इत्युदाहरणं वक्ष्यति, तत्र छत्रस्य शीलत्वानुपपत्तेः छत्रपदं गुरुदोषावरणे गौणमित्याह — गुरोरिति । शीलमित्यर्थे छत्रादित्वाण्णप्रत्यये कृते- ।
index: 4.4.62 sutra: छत्रादिभ्यो णः
च्छत्रशीलता शिष्यस्य दर्शयितुमाह - छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि'हस्मन्त्रन्क्विषु च' इति ह्रस्वः । च्छत्रशील इति । च्छत्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् च्छत्रावरणं शीलमस्य छात्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यातु तथा नाश्रीयते । उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य ठातश्चोपसर्गेऽ इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ।ल्ते, तत्र चोरयतेः'ण्यासश्रन्थो युच्' इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ॥