आ सर्वनाम्नः

6-3-91 आ सर्वनाम्नः उत्तरपदे दृग्ददृशवतुषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्वनाम्न आकारादेशो भवति दृग्दृशवतुषु। तादृक्। तादृशः। तावान्। यादृक्। यादृशः। यावान्॥ दृक्षे चेति वक्तव्यम्॥ तादृक्षः। यादृक्षः॥

Siddhanta Kaumudi

Up

सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च <{SK294}> इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् <{SK1429}> इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥

Laghu Siddhanta Kaumudi

Up

सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आ सर्वनाम्नः>> - आ सर्वनाम्नः । 'आ' इत्यविभक्तिकनिर्देशः । 'दृग्दृशवतुषु' इति सूत्रमनुवर्तत । तदाह — सर्वनाम्न इति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्घः । तादृश् इति रूपम् । ततः सुबुत्पत्तिः । कुत्वस्येति । तादृश् स् इति स्थिते हल्ङ्यादिलोपे,क्विन्प्रत्ययस्य कु॑किति कुत्वस्याऽसिद्धत्वात् ।व्रश्चे॑ति ष इत्यर्थः । तस्येति ।व्रश्चे॑ति संपन्नस्य षकारस्येत्यर्थः । तस्य कुत्वेनेति । डकारस्यक्विन्प्रत्ययस्य कु॑रिति कुत्वेन गकार इत्यर्थः । तस्य चर्त्वेनेति । गकारस्य 'वावसाने' इति चर्त्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः,कर्तरि कृत्इति कर्तर्येव क्विन्विधानात् । किंतु कर्मकर्तरि क्विन् । स इवायं पश्यति । ज्ञानविषयो भतीत्यर्थः ।दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता॑ इति 'त्यदादिषु दृशेः' इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द एवायमित्यन्ये । अथात्र कैयटादिमतं दूषयति — षत्वापवादत्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्ते ।ञपि व्रश्चादिषत्वेक्वन्प्रत्ययस्य कुः॑ इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धेस्पृशोऽनुदके क्विन्,त्यदादिषु दृशोऽनालोचने कञ् चे॑ति क्विन्विधानंक्विन्प्रत्ययस्य कु॑रिति कुत्वार्थं क्रियमाणं घृतस्पृक्, तादृगित्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः । क्विन्विधानंक्विन्प्रत्ययस्य कुः॑ इति कुत्वार्थमेवेति 'स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च षकारविषये कुत्वस्य नाऽसिद्धत्वमपि । अन्यथास्पृशोऽनुदके क्वि॑नित्यादिना स्पृशादेः क्विन्विधिवैयथ्र्यात् । उक्तं चपूर्वत्रासिद्ध॑मित्यत्र भाष्ये — ॒अपवादो वचनप्रमाण्या॑दिति । खकार इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति । #आतदृक्, तादृगिति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य 'वावसाने' इति चर्त्वपक्षे तादृगिति रूपसिद्धावपि चर्त्वाऽभावपक्षे तादृखित्येव स्यात्, ताद-गिता गकारो न श्रूयेतेत्यर्थः । नन्वस्तु शकारस्य खकारस्तथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यात आह — जश्त्वं प्रतीति । जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्याऽसिद्धतया झलोऽभावेन जश्त्वाऽसंभवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । 'विश प्रवेशने' क्विप्, विशिति रूपम् । तस्य विशेषमाह — व्रश्चेति षत्वमिति । विश् सिति स्थिते हङ्यादिलोपेव्रश्चे॑ति शकारस्य षकार इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः । 'वाऽवसाने' इति तस्य चर्त्वेन पक्षे ट इत्यर्थः । विड्भ्याम् । विट्त्सु विट्सु । 'णश अदर्शने' क्विप् । नश् इति रूपम् । ततः सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपे व्रश्चादिना नित्यं षत्वे प्राप्ते- ।

Padamanjari

Up

अकारोच्चारणमतो गुणो पररुपत्वं मा भूत् । अकारविधानं त्वन्तस्य निवृत्यर्थं स्यात्, लोपविधौ तु गौरवं भवति ॥