तदस्य पण्यम्

4-4-51 तत् अस्य पण्यम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक्

Sampurna sutra

Up

'तत् अस्य पण्यम्' इति समर्थानां प्रथमात् परः ठक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।

Kashika

Up

तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं पण्यं चेत् तद् भवति। अपूपाः पण्यमस्य आपूपिकः। शाष्कुलिकः। मौदकिकः। पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतम्, अतः पण्यशब्दो न प्रयुज्यते॥

Siddhanta Kaumudi

Up

अपूपाः पण्यमस्य आपूपिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । 'अस्य पण्यम्' अस्मिन् अर्थे यत् पण्यम् तस्मात् प्रथमासमर्थात् ठक्-प्रत्यय भवति । यथा - 1. अपूपाः पण्यमस्य सः आपूपिकः । यस्य अपूपाः क्रेतुम् योग्याः, सः आपूपिकः अस्ति इत्युच्यते । 2. मोदकाः पण्यमस्य सः मौदकिकः । यस्य मोेदकाः क्रेतुम् योग्याः, सः मौदकिकः ।

Balamanorama

Up

<<तदस्य पण्यम्>> - तदस्य पण्यम् । अस्मिन्नर्थे प्रथमान्ताट्ठगित्यर्थः । विक्रेतव्यं द्रव्यं-पण्यम् । लवणाट्ठञ् ।तदस्य पण्य॑मित्येव ।

Padamanjari

Up

पण्यमिति विशेषणामत्यादि । इह यो विशेषणमुपाधिर्वोपादीयते द्येत्ये तस्मिस्तेन भवितव्यम्, तद्यथा -'सास्य देवता' , इन्द्रो देवता अस्य ऐन्द्रः स्थालीपाक इति देवतात्वं वृतावन्तर्भवति, तद्वदत्रापि पण्यत्वमन्तर्भवतीति नात्रापूर्वं किञ्चित् ॥