ह्रस्वस्य पिति कृति तुक्

6-1-71 ह्रस्वस्य पिति कृति तुक्

Sampurna sutra

Up

ह्रस्वस्य पिति कृति तुक्

Neelesh Sanskrit Brief

Up

ह्रस्वस्वरस्य कृत्-संज्ञके पित्-प्रत्यये परे तुगागमः भवति ।

Neelesh English Brief

Up

A ह्रस्व letter that is followed by a कृत्-प्रत्यय that is पित् gets a तुगागम.

Kashika

Up

पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्येति किम् ? आलूय। ग्रामणीः। पितीति किम् ? कृतम्। हृतम्। कृतीति किम् ? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलमित्यत्र ह्रस्वस्य बहिरङ्गस्यासिद्धत्वात् तुग् न भवति॥

Siddhanta Kaumudi

Up

इत्यः । स्तुत्यः । शास इदङ्हलोः <{SK2486}> । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ।<!शंसिदुहिगुहिभ्यो वेति काशिका !> (वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः <{SK2009}> ईडवन्दवृशंसदुहां ण्यतः <{SK3702}>इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम् - <{SK415}> इति नलोपः । आज्यम् ॥

Laghu Siddhanta Kaumudi

Up

इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥

Neelesh Sanskrit Detailed

Up

यस्मिन् कृत्-प्रत्यये पकारः इत्संज्ञकः अस्ति, सः कृत्-प्रत्ययः ह्रस्वस्वरात् अनन्तरम् विद्यते चेत् प्रकृतसूत्रेण ह्रस्वस्वरस्य तुक् इति आगमः भवति — इति अस्य सूत्रस्य अर्थः । अस्मिन् आगमे ककारः इत्संज्ञकः अस्ति, अतः <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयं कित्-आगमः ह्रस्वस्वरात् अनन्तरम् विधीयते । आहत्य षण्णाम् कृत्-प्रत्ययानाम् विषये प्रकृतसूत्रस्य प्रयोगः सम्भवति । उदाहरणानि क्रमेण एतादृशानि — 1. क्विप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — शत्रुं जयति इत्यस्मिन् अर्थे जि-धातोः क्विप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमे कृते शत्रुजित् इति रूपं सिद्ध्यति । प्रक्रिया इयम् — शत्रुं जयति → जि (अभिभवे, <{1.1096}>) शत्रुम् + जि + क्विप् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> 3.2.61 इति क्विप्] → शत्रुम् + जि + ० [पकारककारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य <<वेरपृक्तस्य>> 6.1.67 इति लोपः भवति ।] → शत्रुजि [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक् ।] → शत्रुजि तुक् [प्रत्ययलोपे कृते अपि <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन प्रत्ययनिमित्तकं कार्यम् अवश्यं भवति, अतः <<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः विधीयते । अत्र << वर्णाश्रये नास्ति प्रत्ययलक्षणम् >> इति परिभाषा नैव प्रवर्तते, यतः अत्र क्विप्-प्रत्ययस्य वर्णम् आश्रित्य किमपि कार्यं न क्रियते, केवलम् तस्य पित्त्वम् कृत्त्वं च आश्रित्य तुगागमः कृतः अस्ति ।] → शत्रुजित् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] 2. ल्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — उपपदसमासे गतिसमासे वा क्त्वा-प्रत्ययस्य ल्यप्-आदेशे कृते ह्रस्वस्वरस्य प्रकृतसूत्रेण तुगागम भवति । यथा - डुकृञ् (करणे, तनादिः, <{8.10}>) → उप + कृ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः] → उप + कृ + ल्यप् [<<कुगतिप्रादयः>> 2.2.18 इति गतिसमासः । <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः] → उप + कृ + य [इत्संज्ञालोपः] → उप + कृ तुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः] → उप + कृ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → उपकृत्य यद्यपि धातोः अन्ते आदौ ह्रस्वस्वरः नास्ति, तथापि प्रक्रियायाम् धातोः अन्ते विद्यमानस्य वर्णस्य लोपः भवति चेत् ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः भवितुम् अर्हति । अस्यां स्थितौ अपि प्रकृतसूत्रेण अस्य ह्रस्वस्वरस्य तुगागमः भवति । यथा — गमॢँ (गतौ, भ्वादिः, <{1.1137}>) → आ + गम् + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वाप्रत्ययः] → आ + गम् + ल्यप् [<<कुगतिप्रादयः>> 2.2.18 इति गतिसमासः । <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः] → आ + गम् + य [इत्संज्ञालोपः] → आ + ग + य [मकारस्य <<वा ल्यपि>> 6.4.38 इति विकल्पेन लोपः] → आ + ग तुक् + य [गकारोत्तस्य अकारस्य पित्-कृत्-प्रत्यये परे <<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः] → आ + ग त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → आगत्य
पक्षे मकारलोपं विना आगम्य इत्यपि रूपं सिद्ध्यति । तस्यां प्रक्रियायां तुगागमः नैव सम्भवति, यतः तत्र ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः न विद्यते ।]
3. क्यप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — <<एतिस्तुशास्वृदृजुषः क्यप्>> 3.1.109 इति सूत्रेण इण्, स्तु, स्वृ, दृ इत्येतेभ्यः अजन्तेभ्यः धातुभ्यः क्यप्-प्रत्यये कृते प्रक्रियायाम् प्रकृतसूत्रेण तुगागमः भवति — इण् (गतौ, अदादिः, <{2.40}>) → इ + क्यप् [<<एतिस्तुशास्वृदृजुषः क्यप्>> 3.1.109 → इ + य [ककारपकारयोः इत्संज्ञा, लोपः] → इ तुुक् + य [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः] → इ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → इत्य 4. क्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — राजानं कृतवान् अस्मिन् अर्थे कृ-धातोः क्वनिप्-प्रत्यये कृते प्रक्रियायाम् तुगागमं कृत्वा रूपं सिद्ध्यति — राजानं कृतवान् → डुकृञ् (करणे, तनादिः, <{8.10}>) → राजानम् + कृ + क्वनिप् [<<राजनि युधिकृञः>> 3.2.95 इति क्वनिप्-प्रत्ययः] → राजानम् + कृ + वन् [ककारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → राजन् + कृ + वन् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक्] → राजन् + कृ तुक् + वन् [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः] → राजन् + कृ त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → राज + कृ + त् + वन् [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → राजकृत्वन् 5. ङ्वनिप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — सु-धातोः ङ्वनिप्-प्रत्यये कृते प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति — षुञ् (अभिषवे, स्वादिः, <{5.1}>) → सु + ङ्वनिप् [<<सुयजोर्ङ्वनिप्>> 3.2.103 इति ङ्वनिप्-प्रत्ययः] → सु + वन् [ङकारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → सु तुक् + वन् [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः] → सु त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → सुत्वन् 6. क्वरप्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः — <<इण्नश्जिसर्त्तिभ्यः क्वरप्>> 3.2.163 इति सूत्रेण इण्, जि तथा च सृ एतेभ्यः त्रिभ्यः धातुभ्यः क्वरप्-प्रत्ययः विधीयते । अत्र प्रक्रियायाम् प्रकृतसूत्रेण तुगागमं कृत्वा रूपं सिद्ध्यति — इण् (गतौ, अदादिः, <{2.40}>) → इ + क्वरप् [<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> 3.2.163 ] → इ + वर [ककारपकारयोः इत्संज्ञा, लोपः ] → इ तुक् + वर [<<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति ह्रस्वस्वरस्य तुगागमः] → इ त् + वर [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।] → इत्वर
अननैव प्रकारेण जि + क्वरप् → जित्वर, सृ + क्वरप्‌ → सृत्वर एतौ शब्दौ अपि सिद्ध्यतः ।
प्रकृतसूत्रस्य अप्राप्तिः अष्टाध्याय्याम् आहत्य नव कृत्संज्ञकाः पित्-प्रत्ययाः सन्ति । एतेषु षण्णाम् प्रत्ययानां तु उदाहरणानि उपरि निर्दिष्टानि एव सन्ति । अन्येषाम् त्रयाणाम् प्रत्ययानाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते —‌ 1. अप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन गुणः सम्भवति । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । यथा, लु + अप् → लो + अप् → लव् + अ → लव । अतएव <<ॠदोरप्>> 3.3.57 अस्य सूत्रस्य काशिकाव्याख्याने — इत्संज्ञकः पकारः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तस्वरविधानार्थम् कृतः अस्ति — इति स्पष्टकृतम् अस्ति । 2. कप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति तथापि तस्य विषये इदं सूत्रम् नैव प्रवर्तते । <<दुहः कब् घश्च>> 3.2.70 इत्यनेनैव उक्तः कप्-प्रत्ययः केवलम् दुह् धातोः एव विधीयते । अस्मिन् धातौ अन्ते हल्-वर्णः अस्ति, अतः अस्य प्रक्रियायाम् ह्रस्वस्वरात् कप्-प्रत्ययः नैव सम्भवति । अतः अस्य प्रत्ययस्य विषये प्रकृतसूत्रं नैव प्रवर्तते । 3. वनिप्-प्रत्ययः यद्यपि कृत्-संज्ञकः पित्-प्रत्ययः अस्ति, तस्य विषये इदं सूत्रम् नैव प्रवर्तते, यथा अस्मिन् प्रत्यये परे अङ्गान्ते विद्यमानस्य ह्रस्वस्वरस्य <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन गुणः सम्भवति । गुणे कृते तत्र ह्रस्वः स्वरः एव न अवशिष्यते, अतः तुगागमस्य अपि प्रसक्तिः न वर्तते । दलकृत्यम् 1. ह्रस्वस्य इति किमर्थम् ? — दीर्घस्वरस्य तुगागमः न भवति । यथा — सम् + भू + ल्यप् → सम्भूय अत्र ऊकारस्य तुगागमः न भवति । 2. पिति इति किमर्थम् ? — अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति । यथा, कृ + क्त → कृत अत्र ऋकारस्य तुगागमः न भवति । 3. कृति इति किमर्थम् ? — कृद्भिन्नानां सूत्राणां विषये प्रकृतसूत्रं न प्रवर्तते । यथा, तिप् इति तिङन्तप्रत्यये परे तुगागमः न भवति — पठ् + शप् + तिप् → पठ् + अ + ति →‌ पठति । एवमेव क्विप् इति कश्चन अन्यः सनादिप्रत्ययः अपि विद्यते, तस्य विषये अयं तुगागमः न प्रवर्तते — क्लीबः इव आचरति = क्लीब + क्विप् → क्लीब । अत्र बकारोत्तरस्य अकारस्य तुगागमः न भवति । एकादेशस्य तुगागमं प्रति असिद्धत्वम् <<एकः पूर्वपरयोः>> 6.1.84 अस्मिन् अधिकारे निर्दिष्टानि कार्याणि <<षत्वतुकोरसिद्धः>> 6.1.86 अनेन सूत्रेण तुगागमार्थम् असिद्धानि भवन्ति । इत्युक्ते, तुगागमे कर्तव्ये <<एकः पूर्वपरयोः>> 6.1.84 इत्यत्र विद्यमानैः सूत्रैः कृतः एकादेशः नैव दृश्यते । अतएव, अधीत्य, अतीत्य एतादृशेषु शब्देषु आदौ सवर्णदीर्घ-एकादेशं कृत्वा, तस्य असिद्धत्वात् तत्र ह्रस्वस्वरम् एव दृष्ट्वा प्रकृतसूत्रेण तुगागमः सम्भवति — इणँ (गतौ, अदादिः, <{2.40}>) → अधि + इ + क्त्वा [<<समानकर्तृकयोः पूर्वकाले>> 3.4.21 इति क्त्वा-प्रत्ययः] → अधी + क्त्वा [अत्र समासे कृते एव क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवितुम् अर्हति । समासार्थम् तु आदौ सन्धिकार्यम् करणीयम्, अतः ल्यबादेशात् पूर्वम् <<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः विधीयते] → अधी + ल्यप् [<<कुगतिप्रादयः>> 2.2.18 इति उपपदसमासः । समासे कृते <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इति ल्यबादेशः] → अधी तुक् + य [यद्यपि अत्र दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विद्यते, तथापि अयं दीर्घस्वरः <<एकः पूर्वपरयोः>> 6.1.84 इत्यस्मिन् अधिकारे विद्यमानेन <<अकः सवर्णे दीर्घः>> 6.1.101 इति सूत्रेण सिद्ध्यति । <<षत्वतुकोरसिद्धः>> 6.1.86 इति सूत्रसामर्थ्यात् अयम् एकादेशः (दीर्घस्वरः) तुगागमार्थम् असिद्धः अस्ति । अतएव अत्र <<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति सूत्रेण अधि + इ इत्येव स्थितिः दृश्यते । अस्यां स्थितौ ह्रस्वस्वरस्य अवश्यम् तुगागमः सम्भवति ।] → अधी त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।] → अधीत्य बहिरङ्गः ह्रस्वादेशः अन्तरङ्गस्य तुगागमस्य कृते असिद्धः अस्ति <<असिद्धं बहिरङ्गमन्तरङ्गे>> अनया परिभाषया बहिरङ्गकारस्य अन्तरङ्गकार्यं प्रति असिद्धत्वम् उच्यते । एतादृशम् असिद्धत्वम् प्रकृतसूत्रस्य विषये अपि प्रवर्तते । इत्युक्ते, यदि कुत्रचित् मूलरूपेण दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विहितः अस्ति, तर्हि तस्य दीर्घस्वरस्य बहिरङ्गकार्येण ह्रस्वादेशे कृते तस्य असिद्धत्वात् प्रकृतसूत्रेण तुगागमः नैव प्रवर्तते । यथा, ग्रामं नयति इत्यस्मिन् अर्थे नी-धातोः क्विप्-प्रत्यये कृते ग्रामणी इति प्रातिपदिकं सिद्ध्यति । अत्र नी-धातोः दीर्घस्वरात् अनन्तरम् क्विप्-प्रत्ययः विद्यते, अतः तस्य प्रकृतसूत्रेण तुगागमः न भवति । परन्तु यत्र ग्रामणी इति प्रातिपदिकम् नपुंसकलिङ्गे प्रयुज्यते, तत्र <<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति सूत्रेण कट>ग्रामणी शब्दस्य ह्रस्वादेशे कृते ग्रामणि इति ह्रस्वघटितं रूपं सिद्ध्यति । अयं ह्रस्वादेशः तुगागमस्य अपेक्षया बहिरङ्गः अस्ति (यतः अयम् अग्रे विद्यमानम् नपुंसकलिङ्गवाचिनं विशेष्यं दृष्ट्वा एव प्रवर्तते), अतः अयम् अन्तरङ्गस्य तुगागमस्य कृते असिद्धः भवति । अतएव अस्मिन् ह्रस्वादेशे कृते अपि प्रकृतसूत्रेण तुगागमः न प्रवर्तते । प्रक्रिया इयम् — ग्रामं नयति तत् कुलम् → ग्रामम् + नी + क्विप् + कुलम् [<<सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्>> 3.2.61 इति क्विप्-प्रत्ययः । अग्रे विशेष्यरूपेण कुलम् इति शब्दः स्थापितः अस्ति । → ग्रामम् + नी + ० + कुलम् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । <<वेरपृक्तस्य>> 6.1.67 इति अपृक्तवकारस्य लोपः] → ग्राम + नी + कुलम् [<<उपपदमतिङ्>> 2.2.19 इति उपपदसमासः । <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति सुप्-प्रत्ययस्य लुक् ] → ग्रामणी कुलम् [<!अग्रग्रामाभ्यां नयतेर्णो वाच्यः!> इति वार्त्तिकेन णत्वम्] → ग्रामणि कुलम् [<<ह्रस्वो नपुंसके प्रातिपदिकस्य>> 1.2.47 इति ह्रस्वादेशः । अयम् तुगागमस्य अपेक्षया बहिरङ्गः अस्ति यतः अयम् अग्रे विद्यमानम् कुलम् शब्दं दृष्ट्वा प्रवर्तते । <<असिद्धं बहिरङ्गमन्तरङ्गे>> अनया परिभाषया अयं बहिरङ्गः ह्रस्वादेशः अन्तरङ्ग-तुगागमार्थम् असिद्धः अस्ति । अतः अत्र <<ह्रस्वस्य पिति कृति तुक्>> 6.1.71 इति तुगागमः न हि प्रवर्तते ।]

Balamanorama

Up

<<ह्रस्वस्य पिति कृति तुक्>> - ह्रस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । 'वृङ् संभक्तौ' इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । 'क्यप' इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।

Padamanjari

Up

कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह -ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। ठग्नौ चेःऽ,'सोमे सुञः' इतिक क्विप्। ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु ठिको ह्रस्वोऽङ्यो गालवस्यऽ,'सोमे सुञः' इति क्विप्। यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्,'वेरपृक्तस्य' इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्,'क्वौ च गमादीनाम्' इत्यनुनासिकलोपः,'नहिवृत्ति' इत्यादिना दीर्घः -परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छयाद्'वा' न्यस्य संयोगादेःऽ इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति'तिङ्ङतिङः' इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम् -आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम् -निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः -पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक् -च्छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ॥