6-4-143 टेः असिद्धवत् अत्र आभात् भस्य अल् डिति
भस्य टेः डिति लोपः
भसंज्ञकस्य अङ्गस्य टि-संज्ञकस्य डित्-प्रत्यये परे लोपः भवति ।
The 'टि'component of a भसंज्ञक अङ्ग is removed when followed by a डित् प्रत्यय.
टिसंज्ञकस्य डिति प्रत्यये परतो लोपो भवति। कुमुद्वान्। नड्वान्। वेतस्वान्। उपसरजः। मन्दुरजः। त्रिंशता क्रीतः त्रिंशकः। डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् टिलोपो भवति॥
डिति परे भस्य टेर्लोपः स्यात् । वाऽवसाने ॥ कतरत् । कतरद् । कतरे । कतराणि । भस्येति किम् । पञ्चमः । टेर्लुप्तत्वात् प्रथमयोः <{SK164}> इति पूर्वसवर्णदीर्घः एङ्ह्रस्वात् <{SK193}> इति संबुद्धिलोपश्च न च भवति । हे कतरत् । पुनस्तद्वत् । शेषं पुंवत् ॥ कतमत् । अन्यत् । अन्यतरत् । इतरत् । अन्यतमशब्दस्य तु अन्यतममित्येव ।<!एकतरात्प्रतिषेधो वक्तव्यः !> (वार्तिकम्) ॥ एकतरम् । सोरमादेशे कृते संनिपातपरिभाषया न जरस् । अजरम् । अजरसी । अजरे । परत्वाज्जरसि कृते झलन्तत्वान्नुम् ॥
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। <<एकतरात्प्रतिषेधो वक्तव्यः>> (वार्त्तिकम्) । एकतरम्॥
यदि भसंज्ञकात् परः डित्-प्रत्ययः आगच्छति, तर्हि तस्य भसंज्ञकस्य टि-संज्ञकस्य लोपः जायते । यथा, 'अन्य' इत्यस्य सर्वनामशब्दस्य नपुंसकलिङ्गस्य प्रथमैकवचनस्य रूपसिद्धौ - अन्य + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः] → अन्य + अद् [<<स्वमोर्नपुंसकात्>> 7.1.23 इत्यनेन सुँ/अम् प्रत्यययोः लुक्-प्राप्ते, अपवादत्वेन <<अतोऽम्>> 7.1.24 इत्यनेन तयोः अम्-आदेशे प्राप्ते, अपवादत्वेन <<अद्ड् डतरादिभ्यः पञ्चभ्यः>> 7.1.25 इति अद्ड्-आदेशः । डकारस्य इत्संज्ञा, लोपः ।] → अन्य् + अद् [अकारादि-प्रत्यये परे अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा । <<टेः>> 6.4.143 इत्यनेन डित्-प्रत्यये परे भस्य अङ्गस्य अन्तिमस्य टि-संज्ञकस्य लोपः भवति ।] → अन्यद् / अन्यत् [<<वाऽवसाने>> 8.4.56 इति विकल्पेन चर्त्वम्] अस्य सूत्रस्य विषये काशिका वदति - 'डिति अ-भस्य अपि अनुबन्धकरणसामर्थ्यात् टिलोपो भवति' । इत्युक्ते, यदि कस्मिंश्चित् प्रत्यये डकारः इत्संज्ञकः अस्ति, तस्य किमपि अन्यत् प्रयोजनम् च नास्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य भसंज्ञायाम् न सत्यामपि टिलोपः भवति - डित्वस्य निर्देशसामर्थ्यात् । यथा, 'कुमुद' शब्दात् <<कुमुदनडवेतसेभ्यो ड्मतुप्>> 4.2.87 इत्यनेन ड्मतुप्-प्रत्ययः भवति । अस्मिन् प्रत्यये परे इयम् प्रक्रिया जायते - → 'कुमुद' + ड्मतुप् [<<कुमुदनडवेतसेभ्यो ड्मतुप्>> 4.2.87 इति मतुप्-प्रत्ययः] → 'कुमुद' + मत् [डकारस्य <<चुटू>> 1.3.7 इति इत्संज्ञा, उकारस्य <<उपदेशेऽजनुनासिक इत्>> 1.3.2 इति इत्संज्ञा । पकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । द्वयोः <<तस्य लोपः>> 1.3.9 इति लोपः । ] → कुमुद् मत् [<<टेः>> 6.4.143 इति टिसंज्ञकस्य अकारस्य लोपः] → कुमुद्वत् [ <<झयः>> 8.2.10 इति मकारस्य वकारादेशः] अस्याम् प्रक्रियायाम् यद्यपि 'कुमुद्' शब्दस्य भसंज्ञा न भवति, तथापि डित्करणस्य सामर्थ्यात् अत्र <<टेः>> 6.4.143 इत्यस्य प्रसक्तिः अस्ति ।
डित्यभस्यापीति । श्रवंणार्थस्तु डकारो न भवति, ड्मतुपि तावद् देशे तन्नाम्नि इति वर्तते, न च डकारवता प्रत्ययेन तन्नामा गम्यते देशः । डेऽपि प्रावृट्शरत्कालदिवां जे इति निर्द्दिष्टत्वान्न (वणार्थो डकारः । मन्दुरज इति । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः ॥