4-2-96 कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ढकञ्
कुलकुक्षिग्रीवाशब्देभ्यो यथासंख्यं श्वन् असि अलंकार इत्येतेषु जातादिष्वर्थेषु ढकञ् प्रत्ययो भवति। कौलेयको भवति श्वा चेत्। कौलोऽन्यः। कौक्षेयको भवत्यसिश्चेत्। कौक्षोऽन्यः। ग्रैवेयको भवत्यलंकारश्चेत्। गै्रवोऽन्यः॥
कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥
<<कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु>> - कुलकुक्षि । कुलाच्छुनि, कुक्षेः असौ , ग्रीवाया अलंकारे ढकञित्यर्थः । कौलेयकः । ओति । कुले जातादिरिति विग्रहः । कौक्षेयकोऽसिरिति । कुक्षौ=कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयक इति । ग्रीवासु भव इति विग्रहः ।