नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः

3-1-134 नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आदिशब्दः प्रत्येकं संबध्यते। त्रिभ्यो गणेभ्यस्त्रयः प्रत्यया यथासंख्यं भवन्ति। नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच्। नन्दिग्रहिपचादयश्च न धातुपाठतः संनिविष्टा गृह्यन्ते। किं तर्हि? नन्दनरमणेत्येवमादिषु प्रातिपदिकगणेष्वपोद्धृत्य प्रकृतयो निर्दिश्यन्ते। नन्दिवाशिमदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम् (ग०सू० २२)। नन्दनः। वाशनः। मदनः। दूषणः। साधनः। वर्धनः। शोभनः। रोचनः। सहितपिदमेः संज्ञायाम् (ग०सू० २३)। सहनः। तपनः। दमनः। जल्पनः। रमणः। दर्पणः। संक्रन्दनः। संकर्षणः। संहर्षणः। जनार्दनः। यवनः। मधुसूदनः। विभीषणः। लवणः। निपातनाण् णत्वम्। वित्तविनाशनः। कुलदमनः। शत्रुदमनः। इति नन्द्यादिः॥ ग्रह। उत्सह। उद्दस। उद्भास। स्था। मन्त्र। संमर्द। ग्राही। उत्साही। उद्दासी। उद्भासी। स्थायी। मन्त्री। संमर्दी। रक्षश्रुवसवपशां नौ (ग०सू०२४)। निरक्षी। निश्रावी। निवासी। निवापी। निशायी। याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्। (ग०सू० २५)। अयाची। अव्याहारी। असंव्याहारी। अव्राजी। अवादी। अवासी। अचामचित्तकर्तृकाणाम् (ग०सू० २६)। प्रतिषिद्धानामित्येव — अकारी। अहारी। अविनायी। अविशायी। विशयी विषयी देशे (ग०सू० २७)। विशयी, विषयी देशः। अभिभावी भूते (ग०सू० २८)। अभिभावी। अपराधी। उपरोधी। परिभावी। परिभवी। इति ग्रह्यादिः॥ पच। वच। वप। वद। चल। शल। तप। पत। नदट्। भषट्। वस। गरट्। प्लवट्। चरट्। तरट्। चोरट्। ग्राहट्। जर। मर। क्षर। क्षम। सूदट्। देवट्। मोदट्। सेव। मेष। कोप। मेधा। नर्त। व्रण। दर्श। दंश। दम्भ। जारभर। श्वपच। पचादिराकृतिगणः।

अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः।

अण्बाधनार्थमेव स्यात् सिध्यन्ति श्वपचादयः॥

Siddhanta Kaumudi

Up

नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे <{SK3489}> कर्मणि घटोऽठच् <{SK1836}> इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध - <{SK2897}> इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च <{SK2650}> इति लुक् । न धातुलोप - <{SK2656}> इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ।<!चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् !> (वार्तिकम्) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः <{SK2179}> च न । चराचरः । चलाचलः । पतापतः । वदावदः ।<!हन्तेर्घत्वं च !> (वार्तिकम्) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च <{SK2430}> इति कुत्वम् । घनाघनः ।<!पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य !> (वार्तिकम्) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति - <{SK1008}> इति वा मुम् । रात्रिंचरः । रात्रचरः ॥

Laghu Siddhanta Kaumudi

Up

नन्द्यादेर्ल्युः, ग्रह्यादेर्णिनिः, पचादेरच् स्यात्। नन्दयतीति नन्दनः। जनमर्दयतीति जनार्दनः। लवणः। ग्राही। स्थायी। मन्त्री। पचादिराकृतिगणः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> - नन्दिग्रहि । नन्दि,ग्रहि, पच एषां द्वन्द्वः । नन्दिग्रहिपचा आदिर्येषामिति विग्रहः । आदिशब्दस्य प्रत्येकमन्वयः फलति । ल्यु , ण्नि, अच् - एषां द्वन्द्वात्प्रथमा । यथासङ्ख्यमन्वयः । तदाह — न्द्यादेरित्यादि । नन्दीति ण्यन्तग्रहणम् । तदाह — नन्दयतीत्यादि । ल्योरनादेशः,णेरनिटी॑ति णिलोपः । मधुं सूदयतीति । मधुरसुरविशेषः, तं सूदयति = केचिदण्यन्ताः । सूत्रे 'ग्रह उपादाने' इत्यस्य ग्रहीति इका निर्देशः । सौत्रत्वात् 'ग्रहिज्ये' ति संप्रसारणं न । ग्राहीति । ग्रहधातोरदुपधाण्णिनिः । नकारादिकार उच्चारणार्थः । उपधावृद्धिः । विशयीति । विपूर्वात् 'शीङ् स्वप्ने' इति धातोर्णिनिः । गुणाऽयादेशौ ।अचोऽञ्णिती॑ति वृद्धिमाशङ्क्याऽऽह — वृद्ध्यभाव इति । विषयीति । 'षिञ् बन्धने' अस्मात्कृतषत्वाण्णिनिः । गुणाऽयादेशौ । नन्विह कतं न वृद्धिः, कथं च षत्वं, पदादित्वादित्यत आह — षत्वमपीति । निपातनाद्वृद्ध्यभावः षत्वं चेत्यर्थः । परिभावी परिभवीत्यत्र णित्त्वान्नित्यवृद्धिमाशङ्क्य आह — पाक्षिक इति । ग्रह्रादयो वृत्तौ पठिताः । पचादिराकृतिगण इति । पच वप इत्यादिकतिपयधातून् पठित्वा आकृतिगण इति गणपाठे वचनादिति भावः । गणपाठे आकृतिगणत्ववचनाऽभावेऽप्याह — शिवशमिति । सूत्रे करशब्दस्य पचादिगणेऽपठितस्य कृञोऽच्प्रत्ययान्तस्य, 'कर्मणि घट' इति सूत्रे घटेरचि घटशब्दस्य च प्रयोगदर्शनादित्यर्थः । अच्प्रत्यय इति । यङन्तादच्प्रत्यये परेयङोऽचि चे॑ति यहो लुग्विधीयते । नहि पचादिगणे यङन्तं पठितमस्ति । अतोऽपि पचादेराकृतिगणत्वं विज्ञायते इत्यर्थः । पचादेराकृतिगणत्वे नदट् चोरडित्यादीनं तत्र पाठो व्यर्थ इत्यत आह - केषांचिदिति । टकारानुन्धासञ्जानार्थ इत्यर्थः । नन्वेमपि वद चल इत्यादीनामनुबन्धरहितानां तत्र किमर्थः पाठ इत्यत आह — केषांचित्प्रपञ्चार्थ इत । बाधकेति । 'जारभर'आपचे॑त्यादौ पचाद्यजपवादस्य कर्मण्यणो बाधनार्थं भरपचादीनां पाठ इति भाष्यम् । देवः सेव इत्यादौइगुपधज्ञाप्रीकिरः कः॑ इति विशिष्य विहितस्य कस्य बाधनार्थं च । तदेतदुपपादयति — नदडित्यादि । ननु पचादिगणे आपचशब्दस्य बाधकबाधनार्थत्वे आपाक इति कथमित्यत आह — न्यङ्क्वादिषु पाठाच्छ्वपाकोऽपीति । कदाचिदण्प्रत्ययः,कुत्वं चेत्यर्थः । चेक्रियः, मरीमृज इत्यादौ प्रक्रियां दर्शयति — यङोऽचि चेति । क्रीञादिधातोरचि यङो लुगित्यर्थ- । द्वित्वादौ चेक्री अ इत्यादिस्थितौ आह — न धातुलोप इति । चेक्रिय इति । गुणाऽभावे संयोगपर्वत्वान्न यण् । नेन्य इति । 'एरनेकाचः' इति यण् । लोलुव इति । उवङ् । यण्तु न,ओः सुपी॑त्युवक्तेः । मरीमृज इति । अत्र 'न धातुलोपे' इति निषेधान्न मृजेर्वृद्धिः । चरिचलीति । एषामच्प्रत्यये परे द्वित्वम्, अभ्यासस्य आगागमश्चेत्यर्थः । ननु 'चराचर' इत्यत्राऽभ्यासे रेफादाकारस्य ह्रस्वः स्यात्, हलादिशेषेण तत्र रेफस्यापि निवृत्तिः स्यादित्यत आह — आगागमस्येति । ह्रस्वत्वे सत्यागागमे दीर्घोच्चारणं व्यर्थम्, आगागमस्यैव विधातुं शक्यत्वात् । तथा हलादिशेषेण रेफस्य निवृत्तौ ह्रस्वत्वेऽपि सवर्णदीर्घेण 'चाचर' इति सिद्धेर्धीर्घोच्चारणं हलादिशेषाऽभावं गमयतीत्यर्थः । हन्तेरितति । वार्तिकमिदम् । हनधातोरचि घत्वं द्वित्वमापक् चेत्यर्थः । ननूत्तरखण्डेअभ्यासाच्चे॑ति कुत्वसिद्धिः किमर्थमिह घत्वविधानमित्यत आह — घत्वमभ्यासस्येति ।इह विधीयतेट इति शेषः । पाटेरिति । वार्तिकमिदम् । पाटेर्णौ पाटि इत्यस्मादचि णेर्लुक्, द्वित्वम्, अभ्यासस्य ऊगागमः । अभ्यासस्य आकारस्य ह्रस्वे तसय् दीर्घश्चेत्यर्थः । वृद्धिनिवृत्तये णेर्लुग्विधिः । आगमे दीर्घोच्चारणाद्धलादिशेषेण टकारस्य न निवृत्तिः, हलादिशेषे तु आद्गुणे पोपट इति रूपस्य उगागमेऽपि सिद्धेः ।

Padamanjari

Up

नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ।ल्न्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते - असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत। नन्दिवाशीत्यादि।'टुअनदि समृद्धौ' ,'वाशृ शब्दे' 'मदी हर्षे' ,'दुष वैकृत्ये' ,राध साध संसिद्धौऽ'वृधु वृद्धौ' 'शुभ शुम्भ शोभार्थे' ,रुच दीप्तौऽ। दूषण इति।'दोषो णौ' इत्यूत्वम्। सहितपीत्यादि।'षह मर्षणे' , तप सन्तापेऽ'शमु दमु उपशमे' । जल्पन इत्यादि।'जल्प जप वक्तायां वचि' । रमु क्रीडायाम्ऽ'द्दप हर्षविमोचनयोः' 'क्रदि आह्वाने रोदने च' ।'कृष विलेखने' 'हृषु अलीके' । ठर्द्द हिंसायाम्ऽ,जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुतरत्रापि कर्मण्युपपदे द्रष्टव्यम्।'यु मिश्रणे' 'षूद क्षरणे' । मधुनाऽसुरः, तं सूदयतीति मधुसूदनः।'ञिभी भये' , णिचि'भियो हेतुभये षुक्' ।'लूञ् छेदने' 'णश अदर्शने' 'दमु उपशमे, - ण्यन्तौ, चितं नाशयतीति चितनाशनः, कुलं दमयतीति कुलदमनः। ग्राहीत्यादि।'ग्रह उपदाने' ,ठ्षह मर्षणे' 'तसु उपक्षये' 'दसु च' 'भस भर्त्सनदीप्त्योः' । तिष्ठतेरातो युक्।'मत्रि गुप्तभाषणे' चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। रक्ष पालनेऽ'श्रु श्रवणे' 'डुवप् बीजसन्ताने' 'शो तनूकरणे' - एषा निशब्द उपपदे णिनिः। याचीत्यादि।'टुअयाचृ याच्ञायाम्' 'हृञ् हरणे' 'व्रज गतो' ठ्वदव्यक्तायां वाचिऽ'वस निवासे' - एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचितकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चितमस्येत्यचितः स कर्ता येषां ते तथोक्ताः। विशयी विषयीति।'शीङ् स्वप्ने' 'षिञ् बन्धने' , वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। राध साध संसिद्धौऽ,रुधिर् आवरणेऽ। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः। पचेत्यादि।'डुपचष्पाके' ।'वच परिभाषणे' ,डुवपिरुक्तार्थः, एवं वदिरपि।'चल कम्पने' 'पत्लृ गतौ' । नदडिति।'नद अव्यक्ते शब्दे' । ठकारो ङीबर्थः, एवमुतरत्रापि।'भष भर्त्सने' ,प्लुङ् गतौऽ'चर गत्यर्थः' 'गृ निगरणे' 'तृ प्लवनतरणयोः' 'चुर स्तेये' 'दिवु क्रीडादौ' 'सूदिरुक्तार्थः,ठ्जृष् वयोहानौ' ,मृङ् प्राणत्यागेऽ'क्षमूष् सहने' 'षिवु तन्तुसन्ताने' 'मिष स्पर्द्धायाम्' 'कुप क्रोधे' 'मिधृ मेधाहिसनयोः' 'व्रण गात्रचूर्णने' चुरादिः,'नृती गात्रविक्षेपे' 'द्दशिर्प्रेक्षणे' 'सृप्लृगतौ' ।'डुभृझ् धारणपोषणयाः' ,जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च'शिवशमरिष्टस्य करे' इति कृञोऽच् प्रत्ययः कृतः। घटेश्च'कर्मणि घटो' ठच्ऽ इति। तथा यङ्न्तानां'यङे' चि चऽ इति यङेऽस्मिन्नचि लुगुक्तः। भाष्ये च ठजपि सर्वधातुभ्यो वक्तव्यःऽ इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्॥