7-3-50 ठस्य इकः
अङ्गात् ठस्य इकः
अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्' आदेशः भवति ।
A ठकार present at the beginning of a प्रत्यय is converted to 'इक्'.
अङ्गस्य निमित्तं यष्ठः, कश्चाङ्गस्य निमित्तं भवति? प्रत्ययः, तस्य प्रत्ययठस्य इक इत्ययमादेशो भवति। <<प्राग् वहतेष्ठक्>> ४.४.१ — आक्षिकः। शालाकिकः। <<लवणाट् ठञ्>> ४.४.५२ — लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदेहाप्यकार उच्चारणार्थः, वर्णमात्रं तु स्थानित्वेनोपादीयते। संघातग्रहणे तु प्रत्ययेऽत्रापि संघातग्रहणमेव। तत्र <<कणेष्ठः>> (प०उ० १.१०३) — कण्ठ इत्येवमादीनामुणादीनाम् <<उणादयो बहुलम्>> ३.३.१ इति न भवति। मथितं पण्यमस्य माथितिक इत्यत्र तु यस्येति — ६.४.१४८ — लोपे कृत <<इसुसुक्तान्तात् कः>> ७.३.५१ इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, <<सन्निपातलक्षण्यो विधिरनिमित्तं तद्विघातस्य>> इति न भवति, <<यस्येति च>> ६.४.१४८ इति लोपस्य स्थानिवद्भावाद् वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः॥
अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥
प्रत्ययस्य आदौ विद्यमानः यः ठकारः, तस्य अनेन सूत्रेण 'इक्' इति आदेशः भवति । ज्ञातव्यम् - 1. यद्यपि इदं सूत्रमङ्गाधिकारे अस्ति, तथाप्यत्र 'अङ्गस्य' अयम् शब्दः 'अङ्गात्' इति विपरिणम्यते । अतः अङ्गात् परस्य (प्रत्ययस्य) यः प्रत्ययः तस्मिन् विद्यमानस्य ठकारस्य अनेन सूत्रेण 'इक्' आदेशः भवति । 2. <<आदेः परस्य>> 1.1.54 अनेन सूत्रेण प्रत्ययस्य आदौ स्थितस्यैव ठकारस्य अनेन सूत्रेण आदेशः भवति । अतः 'अठच्', 'इष्ठन्' - एतादृशेषु प्रत्ययेषु विद्यमानस्य ठकारस्य अनेन सूत्रेण इक्-आदेशः न विधीयते । उदाहरणद्वयम् एतत् - 1. <<रेवत्यादिभ्यः ठक्>> 4.1.146 अनेन सूत्रेण रेवत्यादिगणस्य शब्देभ्यः <<तस्य अपत्यम्>> 4.1.92 अस्मिन् अर्थे 'ठक्' प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति । रेवती + ठक् → रेवती + ठ [ककारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → रेवती + इक [<<ठस्येकः>> 7.3.50 इति ठ्-इत्यस्य इक्-आदेशः] → रैवती + इक [<<किति च>> 7.2.118 इति आदिवृद्धिः] → रैवत् + इक [<<यस्येति च>> 6.4.148 इति ईकारलोपः] → रैवतिक 2. <<लवणात् ठञ्>> 4.4.52 अनेन सूत्रेण 'लवण'शब्दात् <<तदस्य पण्यम्>> 4.4.51 अस्मिन् अर्थे 'ठञ्' प्रत्ययः भवति । अस्य ठकारस्य वर्तमानसूत्रेण इक्-आदेशः भवति । लवण + ठञ् → लवण + ठ [ञकारस्य <<हलन्त्यम्>> 1.3.3 इत्यनेन इत्संज्ञा, <<तस्य लोपः>> 1.3.9 इति लोपः] → लवण + इक [<<ठस्येकः>> 7.3.50 इति ठ्-इत्यस्य इक्-आदेशः] → लावण + इक [<<तद्धितेष्वचामादेः>> 6.4.147 इति आदिवृद्धिः] → लावण् + इक [<<यस्येति च>> 6.4.148 इति ईकारलोपः] → लावणिक ज्ञातव्यम् - 1. प्रत्ययस्य आदौ स्थितस्य ठकारस्य <<चुटू>> 1.3.7 इत्यनेन इत्संज्ञा न भवति - प्रयोजनस्य अभावात् । 2. <<इसुसुक्तान्तात् कः>> 7.3.51 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण आगच्छति ।
<<ठस्येकः>> - ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । तदाह — अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकोऽदन्त आदेशः । अङ्गात्किम् । कर्मण इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते ।ठस्येति सङ्घातग्रहण॑मित्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् ।
अत्र द्वौ पक्षौ - ठेति व्यञ्जनमात्रं स्थानित्वेन निर्द्दिश्यते, अकारस्तूच्चारणार्थः, एवं ढगादिष्वपीत्येकः पक्षः; सङ्घातः प्रत्ययः, स्थान्यप्यत्र स एवेति द्वितीयः । तत्राद्ये पक्षे पठिता, पठितुमित्यादौ धात्वन्तस्यापि प्रसङ्गः; द्वितीये तु अठचि कर्मठ इत्यत्रापि प्राप्नोति । तत्र द्वयोरपि पक्षयोर्यथा दोषो न भवति तथा दर्शयन्नाह - अङ्गस्य निमितं यष्ठ इति । सम्बन्धस्तत्र नावयवावयविभावलक्षणः, पठितेत्यादावपि प्रसङ्गात्; किं तर्हि ? निमितनिमितिभावलक्षणः । अङ्गस्य सम्बन्धीत्युक्ते तद्रूपसम्बन्ध्येव प्रतीयते; प्रत्ययश्च तद्रूपसम्बन्धी, तदायतत्वादङ्गव्यपदेशस्य । तदेवमङ्गव्यपदेशनिमितस्य प्रत्ययस्य ग्रहणादुभयोरपि पक्षयोर्दोषाभावः । किञ्च - सङ्घातपक्षे अर्थवतष्ठशब्दस्य ग्रहणान्न भवति कर्मठः - इत्यत्र प्रसङ्गः । वर्णग्रहणे त्वर्थवत्परिभाषा न प्रवर्तते । तत्र सङ्गातपक्षे दोषान्तरमाशङ्क्य परिहरति - तत्रेति । पुनरपि तस्मिन्नेव पक्षे चोदयति - मथितं पण्यमस्येति । वर्णग्रहणमे तु ठनल्विधौऽ इति स्थानिवत्वनिषेधादिकस्य कादेशाप्रसङ्गः । कादेशः । प्राप्नोतीति । ननु तान्तादङ्गादित्युच्यते, न चात्र तान्तमङ्गम्, ततः प्रत्ययस्याविधानात् ? नैतदस्ति; एकदेशविकृतस्यानन्यत्वादङ्गं भवति, तान्तं च; ततश्च यथा - अनुकम्पितो भानुदत इति ठचि द्वितीयादच ऊर्ध्वस्य लोपे कादेशो भवति - भानुक इति, तथात्रापि प्रसङ्गः ? परिहरति - सन्निपातेति । अजादिसन्निपातेन तान्तत्वमुपजायते, ततश्च तद्विघातस्य निमितं नोपपद्यते । परिहारान्तरमाह - यस्येतिलोपस्येति । स्थानिवद्भावस्तु ठचः परिस्मिन्पूर्वविधौऽ इत्यनेन । ननु पूर्वस्य विधावित्युच्यते, परस्यायम् ? तत्राह - पूर्वस्मादपिहीति । पञ्चमीसमासोऽपि तत्राश्रीयत इत्यर्थः । अन्ये त्वाहुः - वर्णग्रहणादेव तदन्तविधौ सिद्धे, अन्तग्रहणं प्रत्ययोपदेशकाले तान्तप्रतिपत्यर्थमिति ॥