स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्

4-1-87 स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

स्त्रीपुंसाभ्याम् नञ्-स्नञौ तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा, भवनात् ।

Neelesh Sanskrit Brief

Up

पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं यावत् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते ।

Neelesh English Brief

Up

For the meanings given till the end of the first पाद of the पञ्चमाध्याय, the word स्त्री gets the प्रत्यय नञ्, and the word पुम्स् gets the प्रत्यय स्नञ्.

Kashika

Up

<<धान्यानां भवने०>> ५.२.१ इति वक्ष्यति। तस्य प्रागित्यनेनैव संबन्धः। प्राग् भवनसंशब्दनाद् येऽर्थास्तेषु स्त्रीशब्दात् पुंस्शब्दात् च यथाक्रमं नञ्स्नञौ प्रत्ययौ भवतः। स्त्रीषु भवं स्त्रैणम्। पौंस्नम्। स्त्रीणां समूहः स्त्रैणम्। पौंस्नम्। स्त्रीभ्य आगतं स्त्रैणम्। पौंस्नम्। स्त्रीभ्यो हितं स्त्रैणम्। पौंस्नम्। <<स्त्रियाः पुंवद्०>> ६.३.३४ इति ज्ञापकाद् वत्यर्थे न भवति। योगापेक्षं च ज्ञापकमिति स्त्रीवदित्यपि सिद्धम्॥

Siddhanta Kaumudi

Up

धान्यानां भवने <{SK1802}> इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौंस्नः । वत्यर्थे न, स्त्री पुंवच्च <{SK932}> इति ज्ञापकात् । स्त्रीवत् । पुंवत् ॥

Laghu Siddhanta Kaumudi

Up

धान्यानां भवन इत्यतः प्रागार्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः । स्त्रैणः । पौस्रः ॥

Neelesh Sanskrit Detailed

Up

पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिपर्यन्तम् ये केऽपि अर्थाः उक्ताः सन्ति, तेषां सर्वेषां विषये वर्तमानसूत्रेण 'स्त्री'-शब्दात् 'नञ्' प्रत्ययः , तथा 'पुम्स्'-शब्दात् स्नञ्-प्रत्ययः विधीयते । एतौ प्रत्ययौ सर्वेषाम् प्रत्ययानामपवादरूपेण आगच्छतः । यथा - 1. 'स्त्रीणां समूहः' अस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> 4.1.83 अनेन अण्-प्रत्यये प्राप्ते तस्य अपवादत्वेन स्त्री-शब्दात् नञ्-प्रत्ययः भवति । स्त्री + नञ् → स्त्रै + न [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → स्त्रैण [<<अट्कुप्वाङ्नुम्व्यवायेऽपि>> 8.4.2 इति णत्वम्] 2. 'पुम्भ्यः हितम्' अस्मिन् अर्थे <<तस्मै हितम्>> 5.1.5 इत्यनेन छ-प्रत्यये प्राप्ते तस्य अपवादत्वेन पुंस्-शब्दात् स्नञ्-प्रत्ययः भवति । पुम्स् + स्नञ् → पुम्स् + स्न [<<स्वादिष्वसर्वनामस्थाने>> 1.4.17 इति अङ्गस्य पदसंज्ञा ] → पौम्स् + स्न [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → पौम् स्न [<<संयोगान्तस्य लोपः>> 8.2.23 इति सकारस्य लोपः] → पौंस्न [<<मोऽनुस्वारः>> 8.3.23 इति पदान्तमकारस्य अनुस्वारः] ज्ञातव्यम् - 1. पञ्चमाध्यायस्य द्वितीयपादस्य प्रथमम् सूत्रमस्ति <<धान्यानां भवने क्षेत्रे खञ्>> 5.2.1 । तदपर्यन्तम् एतयोः प्रत्यययोः प्रसक्तिः स्यात्, एतत् दर्शयितुमस्मिन् सूत्रे 'भवनात्' इति उक्तमस्ति । 2. पञ्चमाध्यायस्य प्रथमपादे <<तेन तुल्यं क्रिया चेद् वतिः>> 5.1.115 इति किञ्चन सूत्रमस्ति । अनेन सूत्रेण तुल्यविधानार्थं 'वति' प्रत्ययः विधीयते । इदं सूत्रम् पञ्चमाध्यायस्य प्रथमपादे अस्ति, अतः वस्तुतः अस्य सूत्रस्य विषये अपि वर्तमानसूत्रस्य प्रसक्तिः अस्ति । इत्युक्ते, वति-प्रत्ययस्य अपवादरूपेण स्त्री-शब्दात् 'नञ्', पुम्स्-शब्दात् च 'स्नञ्'-प्रत्ययः भवेत् । परन्तु आचार्यः सूत्रपाठे स्वयम् <<स्त्री पुंवत् च>> 1.2.66 एतादृशम् प्रयोगं करोति, यत्र पुम्स्-शब्दात् 'वति' प्रत्ययविधानं कृतं दृश्यते । अस्मात् निर्देशात् एतत् स्पष्टं भवति यत् पुम्स्-शब्दात् विहितः स्नञ्-प्रत्ययः वति-प्रत्ययस्य अपवादरूपेण न विधीयते । इत्युक्ते, येषु अर्थेषु 'वति' प्रत्ययस्य विधानं कृतमस्ति, तेषु अर्थेषु पुम्स्-शब्दात् अपि 'वति' प्रत्ययः एव करणीयः । यथा - पुंसा तुल्यम् = पुम्वत् । 3. यद्यपि स्त्री-शब्दस्य विषये अष्टाध्याय्याम् 'स्त्रीवत्' इति प्रयोगः न दृश्यते, तथापि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दवत् स्त्री-शब्दस्य विषये अपि वतिँ-प्रत्ययः एव विधीयते, नञ्-प्रत्ययः न । अस्मिन् विषये काशिकाकारः वदति - 'योगापेक्षं च ज्ञापकम्' । इत्युक्ते - स्त्री-शब्दात् नञ्-प्रत्ययः यस्मिन् सूत्रे दीयते, तस्मिन्नेव सूत्रे पुम्स्-शब्दात् स्नञ्-प्रत्ययः अपि दीयते, अतः यदि वतिँ-प्रत्ययस्य अवकाशे प्राप्ते पुम्स्-शब्दस्य विषये वर्तमानसूत्रस्य प्रसक्तिः न स्यात् , तर्हि स्त्री-शब्दस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न स्यात् । अतः स्त्री + वत् → स्त्रीवत् इत्येव प्रातिपदिकं सिद्ध्यति । अतः सारांशरूपेण - वति-प्रत्ययार्थान् विहाय पञ्चमाध्यायस्य प्रथमपादं यावत् विहितेषु अन्येषु सर्वेषु अर्थेषु स्त्री-शब्दात् नञ्-प्रत्ययः तथा पुम्स्-शब्दात् स्नञ्-प्रत्ययः भवति ।

Balamanorama

Up

<<स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्>> - अथाऽपत्याधिकारो निरूप्यते । स्त्रीपुंसाभ्याम् । भवनशब्देनधान्यायां भवने क्षेत्रे ख॑ञिति सूत्रं विवक्षितम् । 'प्राग्दीव्यत' इत्यतः प्रागित्यननुवृत्तम् । तदाह — धान्यानामिति । स्त्रीपुंसाभ्यामिति ।अचतुरे॑त्यच् । स्त्रीशब्दात्, पुंस्शब्दाच्चेत्यर्थः । स्त्रैण इति । स्त्रिया अपत्यं, स्त्रीषु भवः स्त्रीणां समूह इत्यादिविग्रहः । नञ्, वृद्धिः, णत्वम् । पौंस्न इति । पुंसोऽपत्यं, पुंसि भवः, पुंसां समूह इत्यादिविग्रहः । पुंस्शब्दात् स्नञिस्वादिषुइति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः । प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलोपे 'पुन्न' इति स्यादिति भावः । वत्यर्थे नेति ।तेन तुल्यं क्रिया चेद्वति॑रिति वतिप्रत्ययो वक्ष्यते । तस्यार्थे स्त्रीपुंसाभ्यां नञ्स्नञौ न भवत इत्यर्थः । कुत इत्यत आह स्त्री पुंवच्चेति ज्ञापकादिति । अन्यथापुंव॑दिति निर्देशोऽनुपपन्नः स्यादिति भावः । न चपुंव॑दिति निर्देशः पुंस्शब्दाद्वतद्यर्थे स्नञभावं ज्ञापयेन्नतु स्त्रीशब्दान्नञभावमपीति वाच्यं, नञ्स्नञोरेकसूत्रोपात्ततया वत्यर्थे स्नञभावे ज्ञापिते सति स्त्रीशब्दान्नञभावस्यापि लाभात्, ज्ञापकस्य सामान्यापेक्षत्वात् । तदुक्तं भाष्येयोगापेक्षं ज्ञापक॑मिति ।

Padamanjari

Up

स्त्रीशब्दात्पूंशब्दात्पुंस्शब्दाच्चेति । स्त्र्यधिकारविहितानां टाबादीनां'पुंसि संज्ञायां घः' इत्येतदधिकारविहितानां च प्रत्ययानां ग्रहणं न भवति, स्त्रीपुंस्शब्दयोरस्वरितत्वात् । नापि स्त्रीपुंसार्थग्रहणम्,'स्वं रूपं शब्दस्य' इति वचनात् । पाéस्नमिति । संयोगान्तस्य लोपःऽ इति पुंस्शब्दसकारस्य लोपः, तत्र कर्तव्येऽनुस्वारस्यासिद्धत्वात्सकारस्य संयोगान्तत्वात् । अत एव संयोगान्तलोपप्रसङ्गान्नञेवोभाभ्यां न विधीयते । एवं हि मा भून्नञ्, मा च भूत्स्नञ् , अञ् प्रकृतस्तत्रैतावदस्तु स्त्रीपुंसयोर्नुक्येति; तत्रायमप्यर्थः, स्त्रैणी पौस्नी अञ इतीकारः सिद्धो भवति ? नैव शङ्क्यम्; स्त्रैणाः, पाéस्नाः -'यञञोश्च' इति बहुषु लुक् प्राप्नोति । इह च स्त्रैणानां सङ्घः'सङ्घाङ्कलक्षणेष्वञ्यञिञाम्' इत्यण् प्राप्नोति ? नैष दोषः; उभयत्रापि गोत्र इति वर्तते, लौकिकस्य च गोत्रस्य ग्रहणं ऋषिप्रजनं च लोके गोत्रमुपचरन्ति, न च स्त्र्यर्षिणापि पुंशब्दवाच्यं सामान्यम् ।'नस्तद्धिते' इति टिलोपस्तर्हि प्राप्नोति ?'प्रकृत्यैकाच्' इति प्रकृतिभावो भविष्यति, ठिष्ठेमेयस्सुऽ इति तत्रानुवर्तते । एवं तर्हि नुग्विधानसअमर्थ्याट्टिलोपो न भविष्यति ? यं विधि प्रत्युपदेशोऽनर्थकः स विधिबाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, तत्र टिलोपार्थमेव नुग्विधानं स्यात् । स्त्रीशूब्दस्यापि नुगेव लोपस्य निमितम्, अन्यथा यस्येति लोपात्परत्वाद् वृद्धिः स्यात्, यथा - श्रीर्देअवता अस्य श्रायं हविरिति । तस्माद्यथान्यासमेवास्तु । योगापेक्षं चेति । स्त्रीपुंसाभ्यामित्ययं योगो वत्यर्थे न प्रवर्तत इत्येवं ज्ञापनशरीरम्, न तु स्नञ् वत्यर्थे न प्रवर्तत इतियर्थः । कथं स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्ता चेति ? ठा च त्वात्ऽ इत्यत्र परिहारो भविष्यति ॥