युवोरनाकौ
7-1-1 युवोः अनाकौ
Sampurna sutra
Up
अङ्गात् यु-वः अन-अकौ
Neelesh Sanskrit Brief
Up
अनुनासिक-यु इत्यस्य अन-आदेशः, अनुनासिक-वु-इत्यस्य च अक-आदेशः भवति । यथा, ल्युट् → अन । ण्वुल् → अक ।
Neelesh English Brief
Up
The यु and वु belonging to a प्रत्यय are converted respectively to अन and अक.
Kashika
Up
यु वु इत्येतयोरुत्सृष्टविशेषणयोरनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासंख्यमन अक इत्येतावादेशौ भवतः। योरनः, वोरकः। नन्द्यादिभ्यो ३.१.१३४ ल्युः — नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च ४.३.२३ — सायंतनः। चिरंतनः। <<ण्वुल्तृचौ>> ३.१.१३३ — कारकः। हारकः। <<वासुदेवार्जुनाभ्यां वुन्>> ४.३.९८ — वासुदेवकः। अर्जुनकः। अनुनासिकयणोरिति किम्? <<ऊर्णाया युस्>> ५.२.१२३ — ऊर्णायुः। <<भुजिमृङ्भ्यां युक्त्युकौ>> (प०उ० ३.२१) — भुज्युर्मृत्युरिति। एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते,<<प्रतिज्ञानुनासिक्याः पाणिनीयाः>>। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षेऽनित्यमागमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा <<लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य>>(महाभाष्य १.३९०) इति न भवति। इतरेतरयोगपक्षे तु छान्दसत्वाद् वर्णलोपो द्रष्टव्यः।
युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते।
अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्॥
द्वित्वे नैगमिको लोप एकत्वे नुमनित्यता।
अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्॥
Siddhanta Kaumudi
Up
यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च - <{SK1082}> इति यलोपे प्राप्ते ।<!प्रकृत्याऽकेराजन्यमनुष्ययुवानः !> (वार्तिकम्) ॥ राजन्यकम् । मानुष्यकम् ॥<!वृद्धाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ वार्धकम् ॥
Laghu Siddhanta Kaumudi
Up
यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥
Neelesh Sanskrit Detailed
Up
अनेन सूत्रेण अनुनासिक-यु तथा अनुनासिक-वु इत्येतयोः यथासंख्यम् अन तथा अक इति आदेशौ विधीयेते । क्रमेण उदाहरणानि एतादृशानि -
(I) "अनुनासिक-यु" इत्यस्य "अन" आदेशः ।
ल्यु, ल्युट्, ट्यु, ट्युल्, ख्युन् इत्यादिषु प्रत्ययेषु विद्यमानस्य अनुनासिक-यु-इत्यस्य प्रकृतसूत्रेण अन-आदेशः भवति । यथा -
1. नन्द् + ल्यु [<<नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः>> 3.1.134 इति ल्यु-प्रत्ययः ]
→ नन्द् + यु [लकारस्य इत्संज्ञा, लोपः]
→ नन्द् + अन [<<युवोरनाकौ>> 7.1.1 इति यु-इत्यस्य अन-आदेशः]
→ नन्दन
2. सायम् + ट्यु [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.3.23 इति ट्यु-प्रत्ययः]
--> सायम् + यु [टकारस्य इत्संज्ञा, लोपः]
--> सायम् + तुट् + यु [<<सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च>> 4.3.23 इति प्रत्यययोः तुट्-आगमः]
--> सायम् + त् + अन [<<युवोरनाकौ>> 7.1.1 इति यु-इत्यस्य अन-आदेशः]
--> सायन्तन [अनुस्वारपरसवर्णौ]
(II) "अनुनासिक-वु" इत्यस्य "अक" आदेशः ।
ण्वुल्, ष्वुन्, वुञ् इत्यादिषु प्रत्ययेषु विद्यमानस्य अनुनासिक-वु-इत्यस्य प्रकृतसूत्रेण अक-आदेशः भवति । यथा -
1. कृ + ण्वुँल् [<<ण्वुँल्तृचौ>> 3.1.133 इति ण्वुल्]
→ कृ + वु [लकारणकारयोः इत्संज्ञा, लोपः]
→ कार् + वु [<<अचो ञ्णिति>> 7.2.115 इति ऋकारस्य वृद्धिः आकारः , <<उरण् रपरः>> 1.1.51 इत्यनेन सः रपरः]
→ कार् + अक [<<युवोरनाकौ>> 7.1.1 इति वु-इत्यस्य अक-आदेशः]
→ कारक
2. वासुदेव + वुन् ["वासुदेवः अस्य भक्तिः" अस्मिन् अर्थे वासुदेवशब्दात् <<वासुदेवार्जुनाभ्यां वुन्>> 4.3.98 इति वुन्-प्रत्ययः]
--> वासुदेव + वु [नकारस्य इत्संज्ञा, लोपः]
--> वासुदेव + अक [<<युवोरनाकौ>> 7.1.1 इति वु-इत्यस्य अक-आदेशः]
--> वासुदेव् + अक [<<यस्येति च>> 6.4.148 इति अकारलोपः]
--> वासुदेवक
3. ग्लुचुकायनी + वुञ् ["ग्लुचुकायनीनां समूहः" अस्मिन् अर्थे "ग्लुचुकायनी" इति गोत्रवाचिनः शब्दात् <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> 4.2.39 इत्यनेन सूत्रेण वुञ्-प्रत्ययः]
--> ग्लुचुकायनी + वु [ञकारस्य इत्संज्ञा, लोपः]
--> ग्लौचुकायनी + वु [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः]
--> ग्लौचुकायनी + अक [<<युवोरनाकौ>> 7.2.1 इति वु-इत्यस्य अक-आदेशः]
--> ग्लौचुुकायन् + अक [<<यस्येति च>> 6.4.148 इति ईकारलोपः]
--> ग्लौचुकायनक
ज्ञातव्यविषयाः
1. यद्यपि इदम् सूत्रं अङ्गाधिकारे वर्तते, तथापि अत्र
अङ्गस्य इति शब्दः पञ्चम्या विपरिणम्यते; इत्युक्ते अस्य शब्दस्य
अङ्गात् इति परिवर्तनं भवति । अङ्गात् परः तु प्रत्ययः एव वर्तते, अतः अत्र
अङ्गात् परस्य प्रत्ययस्य इति अन्वयः जायते । किञ्च, <<आदेः परस्य>>
1.1.54 इत्यनेन प्रत्ययस्य आदौ विद्यमानस्य यु/वु-इत्येतयोः एव अत्र ग्रहणं भवति । अपि च,
अन तथा
अक एतौ अनेकालौ आदेशौ स्तः, अतः <<अनेकाल्शित्सर्वस्य>>
1.1.55 इत्यनेन एतौ सर्वादेशरूपेण विधीयेते । अतश्च,
यु इति सम्पूर्णस्य स्थाने
अन तथा च
वु इति सम्पूर्णस्य स्थाने
अक इति आदेशः विधीयते ।
2.अस्मिन् सूत्रे निर्दिष्टयोः यु/वु इत्येतयोः
यकारः/वकारः अनुनासिकः अस्ति । अतः यत्र प्रत्ययस्य आदौ अनुनासिकः यकारः / वकारः वर्तते, तत्रैव अस्य सूत्रस्य प्रयोगः भवति । एतादृशाः यकारवकाराः कुत्र कुत्र वर्तन्ते इदं तु व्याख्यानात् एव स्पष्टी भवति यतः अनुनासिकस्वराः प्रतिज्ञया एव स्पष्टीभवन्ति इति <!प्रतिज्ञानुनासिक्या पाणिनीयाः!> इति वचनात् ज्ञायते । यत्र एतादृशः अनुनासिकः यकारः वकारः वा न वर्तते, तत्र प्रकृतसूत्रस्य प्रयोगः अपि न भवति । यथा, <<ऊर्णाया युस्>>
5.2.123 इत्यनेन सूत्रेण विहितस्य युस्-प्रत्ययस्य यकारः अनुनासिकः यकारः नास्ति, अतः तस्य विषये प्रकृतसूत्रस्य प्रयोगः नैव सम्भवति । इत्युक्ते, अत्र युस्-प्रत्ययस्य यु-इत्यस्य अन-आदेशः अपि न सम्भवति ।
3. प्रकृतसूत्रेण "यु" तथा "वु" इत्येतयोः शब्दसमूहयोः एव आदेशः विधीयते । केवल-यकारस्य अथवा केवल-वकारस्य अनेन सूत्रेण आदेशः न भवति । एवमेव, प्रकृतसूत्रेण "अन" तथा "अक" इति
अदन्तौ आदेशौ विधीयेते, अन् / अक् इति हलन्तौ आदेशौ न ।
4. अस्मिन् सूत्रे द्वौ स्थानिनौ, द्वौ आदेशौ च पाठ्येते । अतः, <<यथासङ्ख्यमनुदेशः समानाम्>>
1.1.10 इत्यनेन अत्र यथासङख्यत्वात् यु-इत्यस्य अन-आदेशः तथा च वु-इत्यस्य अक-आदेशः विधीयते ।
सूत्रे विद्यमानस्य "युवोः" इति शब्दस्य साधुत्वम्
सूत्रे विद्यमानस्य "युवोः" इति शब्दस्य विषये काशिकायां, भाष्ये च विस्तरेण चर्चा कृता दृश्यते । तत्र मुख्यरूपेण - (1) युवोः इत्यत्र मूलरूपेण विद्यमानम् "युवु" इति प्रातिपदिकम् केन समासेन सिद्ध्यति, तथा च (2) तस्मात् प्रातिपदिकात् युवोः इति पदस्य सिद्धिः कथम् सम्भवति - इति प्रश्नौ स्वीकृत्य चिन्तनं कृतम् अस्ति । अस्मिन् चिन्तने द्वौ पक्षौ स्वीकृत्य प्रत्येकस्मिन् पक्षे कः लाभः का च हानिः इति ऊहः कृतः दृश्यते । एतौ द्वौ पक्षौ एतादृशौ -
1. युवु इति प्रातिपदिकम् समाहारद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च "युवोः" इति अस्य षष्ठ्येकवचनम् - इति प्रथमः पक्षः । समाहारद्वन्द्वसमासेन सिद्धाः शब्दाः नित्यम् एकवचने एव प्रयुज्यन्ते, अतश्च युवोः इत्यपि षष्ठ्याः एकवचने एव प्रयोगः अस्ति इति अस्य पक्षस्य मुख्यः आशयः । परन्तु समाहारद्वन्द्वसमासेन निर्मिताः शब्दाः <<स नपुंसकम्>> 2.4.17 इत्यनेन सूत्रेण नपुंसकलिङ्गे भवन्ति, अतश्च "युवु" इति शब्दः अपि नपुंसकलिङ्गः स्यात्, तथा च तस्य षष्ठ्येकवचने <<इकोऽचि विभक्तौ>> 7.1.73 इत्यनेन नुमागमं कृत्वा "युवुनः" इति रूपं सिद्ध्येत् - इति अत्र दोषः विधीयते । अस्य निराकरणार्थम् काशिकाकारः वदति - अनित्यम् आगमशासनम् इति नुम् न क्रियते, नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाद् लिङ्गस्य इति न भवति । अत्र काशिकाकारस्य आशयः अयम् - अत्र युवु-शब्दस्य लिङ्गं लोकव्यवहारम् अनुसृत्य पुंलिङ्गं स्वीक्रियते चेत् तस्य षष्ठ्येकवचनं "युवोः" इति अवश्यं सम्भवति । नो चेत्, <<आगमशास्त्रम् अनित्यम्>> इत्यस्याः परिभाषायाः प्रयोगेण नपुंसकलिङ्गस्य अपि युवु-शब्दस्य षष्ठ्येकवचने नुमागमः न भवति इति स्वीक्रियते ।
2. युवु इति प्रातिपदिकम् इतरेतरद्वन्द्वसमासेन निर्मितम् अस्ति, तथा च "युवोः" इति अस्य षष्ठीद्विवचनम् - इति द्वितीयः पक्षः । इतरेतरद्वन्द्वसमासेन निर्मितः "युवु" इति शब्दः द्विपदार्थघटितत्वात् द्विवचने प्रयोक्तुम् शक्यः - इति अस्य पक्षस्य आशयः अस्ति । परन्तु तत्र कश्चन दोषः अपि जायते - "युवु" इत्यस्य पुंलिङ्गे षष्ठीद्विवचनम् "युव्वोः" इति भवेत्, न हि "युवोः" इति । परन्तु अत्र एकस्य वकारस्य लोपः कृतः दृश्यते । अयं लोपः छान्दसत्वात् साधु मन्तव्यः इति अस्य पक्षस्य समर्थकाः मन्यन्ते ।
एतौ द्वौ अपि पक्षौ काशिकाकारेण कारिकाद्वयस्य रूपेण अपि दत्तौ स्तः । तज्जिज्ञासवः प्रकृतसूत्रस्य काशिकाव्याख्यानम् अवश्यम् पश्येयुः ।
सिद्धान्तकौमुद्यां प्रकृतसूत्रे पाठितानि वार्त्तिकानि
प्रकृतसूत्रम् सिद्धान्तकौमुद्याम् तद्धितप्रकरणे <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >>
4.2.39 इत्यस्मात् अनन्तरं पाठितम् अस्ति । अत्र प्रकृतसूत्रे प्रसङ्गवशात् सिद्धान्तकौमुदीकारः <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >>
4.2.39 अस्य सूत्रस्य सन्दर्भेण द्वे वार्त्तिके अपि पाठयति । एते वार्त्तिके एतादृशे -
1. <!प्रकृत्याऽकेराजन्यमनुष्ययुवानः !> - राजन्य, मनुष्य तथा च युवन् - एते शब्दाः अक-प्रत्यये परे प्रकृत्या तिष्ठन्ति । यथा, राजन्य + वुञ् इत्यत्र <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> 4.2.39 इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते राजन्य + अक इति स्थिते <<आपत्यस्य च तद्धितेऽनाति>> 6.4.151 इति सूत्रेण राजन्य-शब्दस्य यकारस्य लोपः प्राप्नोति । परन्तु अनेन वार्तिकेन तस्य बाधं कृत्वा "राजन्यक" इति अन्तिमं रूपं सिद्ध्यति । एवमेव मनुष्य + वुञ् इत्यत्रापि <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> 4.2.39 इत्यनेनैव प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते मनुष्य + अक इति स्थिते <<आपत्यस्य च तद्धितेऽनाति>> 6.4.151 इति सूत्रेण मनुष्य-शब्दस्य यकारस्य प्राप्तः लोपः अनेन वार्तिकेन बाध्यते, येन "मनुष्यक" इति अन्तिमं रूपं सिद्ध्यति । युवन्-शब्दस्य विषये तु युवन् + वुञ् इत्यत्र <<द्वन्द्वमनोज्ञादिभ्यश्च>> 5.1.133 इत्यनेन प्राप्तस्य वुञ्-प्रत्ययस्य अक-आदेशे कृते, युवन् + अक इति स्थिते <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । अग्रे आदिवृद्धिं कृत्वा "यौवनक" इति अन्तिमं रूपं सिद्ध्यति ।
2. <!वृद्धाच्चेति वक्तव्यम् !> - <<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् >> 4.2.39 इत्यनेन समूहार्थे पाठितः वुञ्-प्रत्ययः"वृद्ध" इति शब्दात् अपि भवति । यथा, वृद्धानां समूहः = वृद्ध + वुञ् --> वृद्ध + अक --> वार्धक । प्रक्रियायां <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिं, तथा च <<यस्येति च>> 6.4.148 इत्यनेन अकारलोपं कृत्वा अन्तिमं रूपं सिद्ध्यति ।
Balamanorama
Up
<<युवोरनाकौ>> - युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह — यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ऊर्णायुः । ग्लुचुकायनीनामिति ।प्राचामवृद्धा॑दिति ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः । आदिवृद्धिः ।यस्येति चे॑तीकारलोपः । औक्षकमिति । उक्ष्णां समूह इति विग्रहः । वुञ् । अकादेशः । टिलोपः । आदिवृद्धिः । उष्ट्राणां समूह इति विग्रहः । औष्ट्रकम् । उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दाद्वुञि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः ।प्रकृत्याऽके इति । अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्वुञ् । प्रकृतिभावान्न टिलोपः ।वृद्धाच्चेति । वृद्धशब्दस्वरूपमेव गृह्रते, नतुवृद्धिर्यस्याचामादि॑रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह — वाद्र्धकमिति । वृद्धानां समूह इति विग्रहः ।
Padamanjari
Up
शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यौउत्वा, द्यौउतः, द्यौउतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । ततर्हि झल्ग्रहणं कर्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्चेति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्यौवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट।लुट।लुलौ तुट् चेति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्यामुगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ॥