4-1-14 अनुपसर्जनात् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप्
इतः परम् <<यूनस्तिः>> 4.1.77 इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः उपसर्जनसंज्ञकेभ्यः प्रातिपदिकेभ्यः नैव विधीयन्ते ।
अधिकारोऽयम्। उत्तरसूत्रेषूपसर्जनप्रतिषेधं करोति। यदित ऊर्ध्वमनुक्रमिष्यामोऽनुप — सर्जनादित्येवं तद् वेदितव्यम्। वक्ष्यति — <<टिड्ढाणञ्०>> ४.१.१५ इति ङीप्। कुरुचरी। मद्रचरी। अनुपसर्जनादिति किम्? बहुकुरुचरा, बहुमद्रचरा मधुरा। <<जातेः०>> ४.१.६३ इति ङीष्। कुक्कुटी। शूकरी। अनुपसर्जनादिति किम्? बहुकुक्कुटा, बहुशूकरा चैतद् — अस्त्यत्र प्रकरणे तदन्तविधिरिति। तथा च प्रधानेन तदन्तविधिर्भवति। कुम्भकारी। नगरकारी। न चाणिति कृद्ग्रहणम् तद्धितोऽप्यणस्ति ॥
अधिकारोऽयं यूनस्तिः <{SK531}> इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति ॥
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे उपस्थितम् इदम् अपरम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<यूनस्तिः>> 4.1.77 इति सूत्रपर्यन्तं वर्तते ।
प्रसज्यप्रतिषेधोऽयमित्याह - उतरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात् पूर्वपदस्योपसर्जनत्वात्, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृतत्वात् । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति - टिड्ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः - वक्ष्यति टिड्ढाणञित्येतावान् ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह - ङीबिति । एवं जातेरिति ङीष् इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन्'वक्ष्यति' इत्यनुषङ्गः । कुरुचरीति ।'चरेष्टः' बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः । कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः - बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्वादजातित्वाच्चाप्रसङ्गः । तथा हि - टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा - नदट्, चोरडिति; किञ्चित्ववयवटित्वद्वारेण । यत्र ह्यवयवटित्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः - स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचितद्धितष्ट।लुट।लुलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्वमिति कुरुचरशब्द एव टित्, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति - तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत् -यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा ठुगितश्चऽ इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह - ज्ञापितं चैतदिति ।'शूद्रा चामहत्पूर्वा' इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज् ज्ञापितमुतरत्रापि परिपालनीयमित्याह - तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप् प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्, न त्वणन्तात्कुम्भकारशब्दात् । ज्ञापकातु ततोऽपि भवतीत्यर्थः । ननु च कृद्ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह - न चाणिति । कृद्ग्रहणमिति । किं कारणमित्यत्राह - तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पतौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा - ष्यङ्न्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्; तथा कारशब्दादप्युत्पतौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात् । अथ ब्रूयाः - कारीशब्देन कुम्भशब्दः समसिष्यते,'स्त्रीभ्यो ढक्' इत्यत्र च'ङ्याप्प्रातिपदिकात्' इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्यब्ग्रहणामुवृत्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृतेः सौपर्णेय इतिवत् कारीशब्दादपि स्यात् ।'गतिकारकोपदानाम्' इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युतरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पतौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ?'स्त्रीप्रत्यये चानुपसर्जने न' इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युतरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा - औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पतौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगातदादिनियमाभावाच्च समुदायादेव ढगभविष्यति । यद्वा - कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुतरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उतरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति,'न षट्स्वस्रादिभ्यः' - प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत् - पूर्वत्रोपातं तदन्तं वा'स्त्रियाम्' इत्यनेन विशेष्यते,'टिड्ढाणञ्' इत्यादिषूपातेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृतेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते । नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृतेः ठजाद्यतष्टाप्ऽ इति टाप्प्रसङ्गात् । अतो विशेषणविशे,यभावं प्रति कामचारात् ठजाद्यतष्टप्ऽ इत्यत्र'टिड्ढाणञ्' इत्यादौ चोपातं स्त्रीत्वेन विशेष्यते,'वनो र च' इत्यादावुपातं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येततु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्तते । अपर आह - लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, ठिञश्चऽ इत्यण्, ततोऽध्येत्र्याम्'तदधीते' इत्यण्, तस्य'प्रोक्ताल्लुक्' इति लुक् आपिशिला ब्राह्मणी, अत्र ठिञश्चऽ इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वातदन्तान्ङीब् न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृतेः स्यादेव ङीप् प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः - अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति - यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब् भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब् न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात् । प्रत्ययलक्षणेनापि न भवति, अणाअकारस्य विशेषणात् ।'टिड्ठाणञ्' इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात् प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमितए ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात् ! ननु स्त्रियामित्यनुवृतेनाणं विशेषयिष्यामः - योऽण् स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि'प्रोक्ताल्लुक्' इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद् ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ॥