चरेष्टः

3-2-16 चरेः टः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अधिकरण इति वर्तते। चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरतीति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्॥

Siddhanta Kaumudi

Up

अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥

Laghu Siddhanta Kaumudi

Up

अधिकरणे उपपदे। कुरुचरः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चरेष्टः>> - चरेष्टः । ट इति च्छेदः । 'अधिकरणे उपपदे' इति शेषः । 'अधिकरणे शेते' रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।

Padamanjari

Up