4-1-83 प्राक् दीव्यतः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
प्राक्-दीव्यतः समर्थानां प्रथमात् अण् तद्धितः प्रत्ययः परः वा
प्राक्-दीव्यतीय-अर्थेषु समर्थेभ्यः प्रथमात् अण्-प्रत्ययः औत्सर्गिकरूपेण भवति ।
The अण् प्रत्यय is used as a default for the प्राग्दीव्यतीय meanings.
<<तेन दीव्यति०>> ४.४.२ इति वक्ष्यति। तदेकदेशो दीव्यच्छब्दोऽवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, अण्प्रत्ययस्तत्र भवतीति वेदितव्यम्। अधिकारः, परिभाषा, विधिर्वेति त्रिष्वपि दर्शनेष्वपवादविषयं परिहृत्याण् प्रवर्तते। वक्ष्यति — <<तस्यापत्यम्>> ४.१.९२। औपगवः। कापटवः॥
तेन दीव्यति <{SK1550}> इत्यतः प्रागणधिक्रियते ॥
तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः प्रथमः महोत्सर्गः अस्मात् सूत्रात् आरभते । वर्तमानसूत्रतः चतुर्थाध्यायस्य तृतीयपादस्य समाप्तिं यावत् आहत्य चतुश्चत्वारिंशत् (44) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्दीव्यतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । अस्य अण्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते । अण्-प्रत्ययस्य कानिचन उदाहरणानि - अ) गुरोः इदम् = गुरु + अण् = गौरव । आ) भानोः निवासः = भानु + अण् = भानव । इ) उपगोः अपत्यम् = उपगु + अण् = औपगव । प्रक्रिया इयम् - गुरु + अण् [<<प्राग्दीव्यतोऽण्>> 4.1.83 इति अण्] → गौरु + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → गौरो + अ [<<ओर्गुणः>> 6.4.146 इति भसंज्ञकस्य अन्तिम-उकारस्य गुणः] → गौरव [<<एचोऽयवायावः>> इति अव-आदेशः] 44 प्राग्दीव्यतीयाः अर्थाः एतादृशाः - 1. <<तस्य अपत्यम्>> 4.1.92 2. <<तेन रक्तं रागात्>> 4.2.1 3. <<नक्षत्रेण युक्तः कालः>> 4.2.3 4. <<दृष्टं साम>> 4.2.7 5. <<परिवृतो रथः>> 4.2.10 6. <<तत्र उद्धृतममत्रेभ्यः>> 4.2.14 7. <<संस्कृतं भक्षाः>> 4.2.16 8. <<सा अस्मिन् पौर्णमासी इति संज्ञायाम्>> 4.2.21 9. <<सा अस्य देवता>> 4.2.24 10. <<तस्य समूहः>> 4.2.37 11. <<विषयः देशे>> 4.2.52 12. <<सः अस्य आदिः इति छन्दसः प्रगाथेषु>> 4.2.55 13. <<तदस्यां प्रहरणम् इति क्रीडायाम् णः>> 4.2.57 14. <<तद् अधीते तद् वेद>> 4.2.59 15. <<तद् अस्मिन् अस्तीति देशे तत् नाम्नि>> 4.2.67 16. <<तेन निर्वृत्तम्>> 4.2.68 17. <<तस्य निवासः>> 4.2.69 18. <<अदूरभवः च>> 4.2.70 19. <<तत्र जातः>> 4.3.25 20. <<कृत-लब्ध-क्रीड-कुशलाः>> 4.3.38 21. <<प्रायभवः>> 4.3.39 22. <<सम्भूते>> 4.3.41 23. <<कालात् साधु-पुष्प्यत्-पच्यमानेषु>> 4.3.43 24. <<उप्ते च>> 4.3.44 25. <<देयम् ऋणे>> 4.3.47 26. <<व्याहरति मृगः>> 4.3.51 27. <<तदस्य सोढम्>> 4.3.52 28. <<तत्र भवः>> 4.3.53 29. <<तस्य व्याख्यानः इति च व्याख्यातव्यनाम्नः>> 4.3.66 30. <<ततः आगतः>> 4.3.74 31. <<प्रभवति>> 4.3.83 32. <<तत् गच्छति पथिदूतयोः>> 4.3.85 33. <<अभिनिष्क्रामति द्वारम्>> 4.3.86 34. <<अधिकृत्य कृते ग्रन्थे>> 4.3.87 35. <<सः अस्य निवासः>> 4.3.89 36. <<अभिजनः च>> 4.3.90 37. <<भक्तिः>> 4.3.95 38. <<तेन प्रोक्तम्>> 4.3.101 39. <<तेन एकदिक्>> 4.3.112 40. <<उपज्ञाते>> 4.3.115 41. <<कृते ग्रन्थे>> 4.3.116 42. <<तस्य इदम्>> 4.3.120 43. <<तस्य विकारः>> 4.3.134 44. <<अवयवे च प्राणी-ओषधि-वृक्षेभ्यः>> 4.3.135
<<प्राग्दीव्यतोऽण्>> - प्राग्दीव्यतोऽण् ।तेन दीव्यति खनति जयति जित॑मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्घटितं तत्सूत्रं लक्ष्यते । तदाह — तेन दीव्यतीत्यतः प्रागिति । तथाचतस्यापत्य॑मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते ।कस्माद्भवती॑त्याकाङ्क्षायांसमर्थात्प्रथमा॑दिति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात् ।
तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह - तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा - अस्यवामीयमित्यत्रेति भावः ।'प्रत्ययः' इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः'तेन रक्तं रागात्' इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते - यदयं'पीलाया वा' इति सूत्रमारभते, तद् ज्ञापयति - नापवादविषयेऽण् भवतीति; अन्यथा'द्वयचः' इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः -'प्राग्दीव्यतः' इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते - दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥