लोकसर्वलोकाट्ठञ्

5-1-44 लोकसर्वलोकात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्

Sampurna sutra

Up

'तत्र विदितः' (इति) लोक-सर्वलोकात् ठञ्

Neelesh Sanskrit Brief

Up

'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् लोकशब्दात् सर्वलोकशब्दात् च ठञ्-प्रत्ययः भवति ।

Kashika

Up

लोकसर्वलोकशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां विदित इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितो लौकिकः। सार्वलौकिकः। अनुशतिकादित्वाद् ७.३.२० उभयपदवृद्धिः

Siddhanta Kaumudi

Up

तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'विदितः' इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । 'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'लोक'शब्दात् 'सर्वलोक'शब्दात् च ठञ्-प्रत्ययः भवति । यथा - 1. लोके विदितः सः लौकिकः विषयः। 2. सर्वलोके विदितः सः सार्वलौकिकः विषयः । अत्र <<अनुशतिकादीनां च>> 7.3.20 इति उभयपदवृद्धिः भवति ।

Balamanorama

Up

<<लोकसर्वलोकाट्ठञ्>> - लोकसर्व । तत्र विदित इत्यर्थं इति । योगविभागसामर्थ्यात्तस्येआर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह — अनुशतिकादित्वादिति ।

Padamanjari

Up