कर्मण्यण्

3-2-1 कर्मणि अण् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्रिविधं कर्म — निर्वर्त्यम्, विकार्यम्, प्राप्यं चेति। सर्वत्र कर्मण्युपपदे धातोरण् प्रत्ययो भवति। निर्वर्त्यं तावत् — कुम्भकारः। नगरकारः। विकार्यम् — काण्डलावः। शरलावः। प्राप्यम् — वेदाध्यायः। चर्चापारः। ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोतीत्यत्र न भवति, अनभिधानात्॥ शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्॥ मां॒सशी॑लः। मां॒सशी॑ला।मां॒सका॑मः। मां॒सका॑मा। मां॒सभ॑क्षः। मां॒सभ॑क्षा। क॒ल्याणा॑चारः। क॒ल्याणा॑चारा॥ ईक्षिक्षमिभ्यां चेति वक्त व्यम्॥ सु॒खप्र॑तीक्षः। सु॒खप्र॑तीक्षा। ब॒हुक्ष॑मः। ब॒हुक्ष॑मा॥

Siddhanta Kaumudi

Up

कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न ।<!शीलिकामिभक्ष्याचरिभ्यो णः !> (वार्तिकम्) ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥<!ईक्षिक्षमिभ्यां च !> (वार्तिकम्) ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥

Laghu Siddhanta Kaumudi

Up

कर्मण्युपपदे धातोरण् प्रत्ययः स्यात्। कुम्भं करोतीति कुम्भकारः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कर्मण्यण्>> - कर्मण्यण् । कर्मण्युपपदे इति ।तत्रोपपदं सप्तमीस्थ॑मित्यत्रतत्रे॑त्यनेनदं लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ।उपपदमति॑ङित्यनेनेति भावः । कुम्भं करोतीति । अस्वपदो लौकिकविग्रहोऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रह वाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यं पश्यतीत्यादित्यदर्शः, हिमवन्तं शृणोतीति हिमवच्छ्रावः, ग्रामं गच्छतीति ग्रामगाम इत्यादि स्यादित्यत आह — आदित्यं पश्यतीत्यादावनभिधानान्नेति । एतच्च भाष्ये स्पष्टम् । शालीति । शीलि, कामि, भक्षि, आचरि एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु 'कर्मण्य' णित्यणैव सिद्धे किमर्थमिदत्यत आह — अणोऽपवादार्थमिति । अण्णन्तत्वे तु ङीप् स्यात्, तन्निवृत्त्यर्थं णविधानमिति भावः । तदाह — मांसशीलेति । 'शील समाधौ' इति भ्वादिः । इह तु स्वभावतः सेवने वर्तते । मांसं स्वभावतः सेवमानेत्यर्थः । मांसकामेति । मांसकामेति । मांसं कामयते इति विग्रहः । मांसभक्षेति । मांसं भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टाप् । ईक्षिक्षमिभ्यामिति । वार्तिकमिदम् । 'ण' इति शेषः । कथमिति । कर्मण्यणि गङ्गाधार इत्यादि स्यादित्याक्षेपः ।कर्मणः शेषत्वेति । तथा च कर्मोपपदाऽभावान्नाऽणिति भावः ।

Padamanjari

Up

कर्मण्यण्॥ कर्मणीति। नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा इति प्रतिषेधात्। ननु चार्थस्येयं सञ्ज्ञा न शब्दस्य, अशब्दसञ्ज्ञेति नैवं विज्ञायते - -शब्दस्य सञ्ज्ञा शब्दसञ्ज्ञेति, किं तर्हि? शब्दे संज्ञा सब्दसंज्ञेति। शब्दशब्देन शब्दानामनुशासनं व्याकरणमुच्यते, असति च बाधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तम्। तस्मात्पारिभाषिकस्य कर्मणो ग्रहणमङ्गीकृत्य तस्यावान्तरभेदमाह - त्रिविधं कर्मेति। ता एव तिस्रो विधा दर्शयति - निर्वर्त्ये विकार्ये प्राप्यं चोति। यदसज्जायते सद्वा जन्मना यत्प्रकाशते तन्निर्वत्यम्, यथा - -कुम्भं करोति, पुत्रं प्रसूत इति। यस्य तु सत एव कश्चिद्विकारः क्रियते तद्विकार्यम्, स च विकारः क्वचित्प्रत्यक्षगम्यः, यथा - काष्ठानि भस्म करोति, सुवर्ण कुण्डलं करोतीति, क्वचिच्छास्त्रगम्यः - ब्रीहीन् प्रोक्षतीति, अत्र प्रोक्षणेन ब्रीहीषु कश्चिदतिशयो जन्यत इति शास्त्रादेव गम्यते। एतावता च भेदेन संस्कार्यमेतत्कर्मेति चातुर्विध्यं मीमांसका मन्यन्ते। क्रियाकृतविशेषाभावे तु प्राप्यं कर्म, यथा - -वेदमधीते, चर्च्चां पारयतीति। ननु न'कर्तुरीप्सिततमम्' इत्येतदेव कर्म त्रिविधम्, अन्यदप्यस्ति'तथायुक्तं चानीप्सितम्' इति, तच्च द्विविधम् - द्वेष्यमितरच्च; तथा ठकथितं चऽ, एवं'दिवः कर्म च' , तथा ठधिशीङ्स्थासां कर्मऽ इति। तदेवमवान्तरभेदविवक्षायां सप्तविधं कर्म। उक्तं च - निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम्। तत्रेप्सिततमं कर्म चतुर्धान्यतु सञ्ज्ञितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। सञ्ज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तत्किमुच्यते त्रिविधं कर्मेति? केचिदाहुः - कर्तुरीप्सिततममेवात्र गृह्यतेऽन्यत्राण् न भवतीति। अन्ये त्वाहुः - -आदित्यं पश्यतीत्यादौ मा भूदित्येवमर्थ कर्मणि निर्वर्त्यमाने विक्रियमाण इति वक्तव्यमित्याशङ्क्य वार्तिककारेणोक्तम् - कर्मणि निर्वर्त्यमानेविक्रीयमाण इति चेद्वेदाध्यायानामुपसंख्यानमित्यादि। तदनेन प्रदर्श्यते त्रिविधमपि कर्म गृह्यते, न पुनः प्राप्यं न गृह्यत इति, न तु सूत्रान्तरोक्तं व्यावर्त्यते। तथा च'दिवः कर्म च' इत्यत्र समावेशस्य प्रयोजनमुक्तम् - मनसा देव इत्यत्र कर्मत्वादण्, करणत्वातृतीयेति। एवं च वृक्षावासः पर्वताधिवास इत्याद्यपि यथादर्शनं भवतीति। अनभिधानादिति। तच्चानभिधानं यत्राप्तैरुक्तं तत्रैव। अन्यत्र तु यथालक्षणं भवत्येव, तथा च पठति - यथालक्षणमप्रयुक्तेऽइति। शीलिकामीत्यादि।'शील समाधो' 'भक्ष अदने' चुरादिः,'कमु कान्तौ' णिङ्न्तः,'चर गत्यर्थे' आङ्पूर्वः, णस्य णित्करणं चरेर्वृद्ध्यर्थम्। पूर्वपदप्रकृतिस्वरत्वं चेति। कृदुतरपदप्रकृतिस्वरस्यापवादः। मांसशीलेति। अत्राणि सति ङीप्स्यात्, णेऽपि क्वचिदण्कृतं भवतीत्येततु ताच्छीलिक एव णे भवति।'मनेर्दीर्घश्च' इति सप्रत्ययान्तो मांसशब्दः। कल्याणशब्दः'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति मध्योदातः। अस्यायमर्थः - अन्ते लघोः परतो द्वयोश्चान्तयोर्लघ्वोः परतो बह्वषः शब्दस्य यो गुरुः स उदातो भवति। बह्वष इति बह्वच इत्यर्थः।ठष्ऽ इत्यचः पूर्वाचार्यसञ्ज्ञा। ईक्षिक्षमिभ्यां चेति। अत्रापि पूर्वपदप्रकृतिस्वरत्वं चेत्येव, वाक्यभेदस्तु वैचित्र्यार्थः। इह यो मासं भक्षयति मांसं तस्य भक्षो भवति, तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम्। एवमन्यत्रापि। यः पुनरण्यन्तस्तस्य घञन्तस्य बहुव्रीहिः, नार्थ एतेन। ननु बहुभक्ष इत्यत्र बहोर्नञ्वदित्युतरपदान्तोदातत्वं प्राप्नोति? एवं तर्हि भावेऽजन्तेन व्यधिकरणपदो बहुव्रीहिर्भविष्यति - बहुषु भक्षोऽस्य बहुभक्ष इति, तत्रोतरपदार्थस्य बहुत्वाभावाद्वहुस्वरो न भविष्यति? सत्यम्; अण्बाधनार्थ तु वचनम्, अकारादनुपपदात्कर्मोतपपदो विप्रतिषेधेन। पचादिभ्योऽच्, अनुपपदोऽकारस्तस्यावकाशः - पचतीति पचः, कर्मोपपदस्यावकाशः - काण्डलावः शरलावः; ओदनपाव इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तेनोपधावृद्धिः, उपपदसमासश्च नित्यो भवति। अचि तु षष्ठीसमासो विकल्पितः स्यात्। न चच वाच्यं युगपद्विवक्षायां भवतु विप्रतिषेधः, केवले पच्यर्थे विवक्षितेऽचि कृते पश्चादोदनसम्बन्धे विवक्षिते ओदनपच इत्यपि प्राप्नोति? एकत्वात्प्रयोगस्य। न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति। तस्मादोदनपच इत्यसाधुरेव। गङ्गाधरः, श्रीधरः, वज्रधरः, भूधरः, स्रग्धरेति तु सञ्ज्ञाशब्दाः। यदा त्वजपि सर्वधातुभ्य इति पक्षः, तदापवादत्वादेव तस्याण् बाधकः। तथा ठिगुपधज्ञाप्रीकिरः कःऽ अनुपपदस्तस्यावकाशः - विक्षिपः, विलिखः, कर्मोपपदस्य स एव; काष्ठभेद इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तथा ठनुपसर्गाल्लिम्पविन्दऽ इत्यनुपपदः शस्तस्यावकाशः - लिम्पतीति लिम्पः, कर्मोपपदस्य स एव; कुङ्मलेप इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। ठातश्चोपसर्गेऽ इति कोऽनुपपदस्तस्यावकाशः - सुग्लः सुग्लः, कर्मोपपदस्य स एव; गोसन्दाय इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति॥