4-1-86 उत्सादिभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
उत्सादिभ्यः अञ् तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा
उत्सादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अञ्-प्रत्ययः विधीयते ।
For the words of the उत्सादिगण, the अण्-प्रत्ययः is used in all the प्राग्दीव्यतीय meanings.
प्राग्दीव्यत इत्येव। उत्सादिभ्यः प्राग्दीव्यतीयेष्वर्थेष्वञ् प्रत्ययो भवति। अणस्तदपवादानां च बाधकः। औत्सः। औदपानः॥ उत्स। उदपान। विकर। विनोद। महानद। महानस। महाप्राण। तरुण। तलुन। वष्कयासे (ग०सू० ५६)। धेनु। पृथिवी। षङ्क्ति। जगती। त्रिष्टुप्। अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानाद् देशे (ग०सू० ५७)। पृषदंशे (ग०सू० ५८)। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्वन्तु। सद्शब्दो मतुबन्त आगतनुङ्को गृह्यते सत्वन्त्विति। कुरु। पञ्चाल। इन्द्रावसान। उष्णिक्। ककुभ्। सुवर्ण। देव। ग्रीष्मादच्छन्दसीति वक्तव्यम् (ग०सू० ५९)। इह मा भूत् — त्रि॒ष्टु॑ब् ग्रैष्मी॑ (काठ०सं० १६.१९)। छन्दश्चेह वृत्तं गृह्यते न वेदः॥
औत्सः ॥ <!अग्निकलिभ्यां ढक् वक्तव्यः !> (वार्तिकम्) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम् ॥
औत्सः ॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥ १ ॥
<<प्राग्दीव्यतोऽण्>> 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु उत्सादिगणे ये शब्दाः पाठिताः सन्ति, तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्ययस्य अपवादत्वेन प्राग्दीव्यतीयेषु अर्थेषु 'अञ्' प्रत्ययः भवति । यथा - उत्सानाम् समूहः = उत्स + अञ् → औत्स + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औत्स् अ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → औत्स उत्सादिगणे पाठिताः शब्दाः एते - उत्स। उदपान। विकर। विनद। महानद। महानस। महाप्राण। तरुण। तलुन। वष्कयाऽसे (गणसूत्रम्) । धेनु। पृथिवी। पङ्क्ति। जगती। त्रिष्टुप् । अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे (गणसूत्रम्) । पृषदंशे (गणसूत्रम्)। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तुँ । कुरु। पञ्चाल। इन्द्रावसान। उष्णिह् । ककुभ्। सुवर्ण। देव। ग्रीष्मादच्छन्दसि ((गणसूत्रम्)) । अस्मिन् गणे चत्वारि गणसूत्राणि पाठितानि सन्ति - 1. वष्कयासे - 'वष्कय' शब्दः समासे नास्ति चेदेव अस्मिन् गणे प्रयुज्यते । ('स' इत्युक्ते समास) । यथा - वष्कय + अञ् = वाष्कय । परन्तु यदि अयं शब्दः समस्तपदे आगच्छति, तर्हि अस्य समावेशः अस्मिन् गणे न भवति, अतः अस्याम् स्थितौ <<अतो इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययः एव क्रियते । यथा - गौवष्कय + इञ् → गौवष्कयि । 2. उदस्थानात् देशे - 'देश' अस्मिन् अर्थे यदि उदस्थान-शब्दस्य प्रयोगः क्रियते, तदा एव अयं शब्दः अस्मिन् गणे समावेश्यते, अतः तस्य अञ्-प्रत्ययः भवति । उदस्थान + अञ् → औदस्थानः । अन्येषु अर्थेषु (यथा, पुरुषस्य नाम अस्मिन् अर्थे) <<अतो इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययः एव क्रियते । 3. पृषद् अंशे - पृषद् शब्दः 'अंश' अस्मिन् अर्थे एव उत्सादिगणे स्वीक्रियते, तदैव च अञ्-प्रत्ययः भवति । अन्येषु अर्थेषु तु औत्सर्गिकरूपेण अण्-प्रत्ययः एव भवति । 4. ग्रीष्मात् अच्छन्दसि - उत्सादिगणे 'ग्रीष्म' शब्दः स्वीक्रियते । परन्तु ग्रीष्मशब्दात् प्रत्ययं योजयित्वा 'छन्दः' (= गानवृत्तम्) इति अर्थः यत्र अभिप्रेतः अस्ति, तत्र उत्सादिगणे तस्य निर्देशः न भवति । यथा, 'त्रिष्टुप्' नाम छन्दः निर्देशयितुम् ग्रीष्म-शब्दात् अञ्-प्रत्ययः न भवति, अपितु <<सन्धिवेलादिऋतुनक्षत्रेभ्योऽण्>> 4.3.16 इत्यनेन अण्-प्रत्ययं कृत्वा अग्रे स्त्रीत्वस्य विवक्षायाम् ङीप्-प्रत्ययं कृत्वा 'ग्रैष्मी' इति रूपं सिद्ध्यति । (ग्रीष्मस्य इदम् छन्दः = ग्रीष्म + अण् + ङीप् → ग्रैष्मी त्रिष्टुप् ) । अन्यत्र तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव भवति । यथा - ग्रीष्मः देवता अस्य सः = ग्रीष्म + अञ् → ग्रैष्मः ।) कौमुद्यामत्र एकं वार्तिकं दीयते - <!अग्निकलिभ्यां ढक् वक्तव्यः!> । इत्युक्ते, 'अग्नि' शब्दात्, 'कलि'शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु 'ढक्' प्रत्ययः भवति । यथा - अग्नि + ढक् → अग्नि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय-आदेशः] → आग्नि + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → अग्न् + एय [<<यस्येति च>> 6.4.148 इति इकारलोपः] → आग्नेय तथैव कलि + ढक् → कालेय इत्यपि रूपं सिद्ध्यति । ज्ञातव्यम् - 1. उत्सादिगणे पाठितानाम् शब्दानां विषये सर्वान् अपवादान् बाधित्वा वर्तमानसूत्रेण अञ्-प्रत्ययस्य विधानम् क्रियते । यथा, 'उत्स' शब्दात् <<अत इञ्>> 4.1.95 इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादत्वेन अत्र अञ्-प्रत्ययः दत्तः अस्ति । 2. अञ्-प्रत्ययस्य प्रयोगेण यत् रूपं सिद्ध्यति तदेव रूपमण्-प्रत्ययस्य प्रयोगेण अपि सिद्ध्यति । परन्तु द्वयोः रूपयोः स्वरभेदः वर्तते । ञित्-प्रत्ययान्तशब्दाः <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन आद्युदात्ताः भवन्ति । एतम् स्वरवैशिष्ट्यम् दर्शयितुमेव अत्र 'अञ्' प्रत्ययस्य विधानम् कृतमस्ति । 3. अस्मिन् गणे 'सत्वन्तुँ' इति शब्दः पाठितः अस्ति । अयं शब्दः 'सत् + मतुँप्' इत्यनेन निर्मितः अस्ति । अस्याम् प्रक्रियायाम् 'नुम्' आगमं कृत्वा 'सत्वन्तुँ' इति प्रातिपदिकम् सिद्ध्यति । वर्तमानसूत्रेण अस्मात् शब्दात् अञ्-प्रत्ययं कृत्वा 'सात्वन्त' इति प्रातिपदिकं सिद्ध्यति । 4. <<कुर्वादिभ्यः ण्यः>> 4.1.151 इत्यनेन अपत्यार्थे निर्दिष्टः ण्य-प्रत्ययः 'कुरु' शब्दस्य विषये वर्तमानसूत्रेण पाठितस्य अञ्-प्रत्ययस्य बाधनं न करोतीति व्याख्यानेषु स्पष्टीक्रियते । अतः 'कुरूणामपत्यम्' इत्यत्र 'कुरु + ण्य → कौरव्य' तथा 'कुरु + अञ् → कौरव' -द्वे अपि रूपे भवतः ।
<<उत्सादिभ्योऽञ्>> - उत्सादिभ्योऽञ् ।प्राग्दीव्यतीयेआर्थेष्वि॑ति शेषः । अणिञाद्यपवादः ।दृष्टं सामे॑ति सूत्रभाष्येसर्वत्राऽग्निकलिभ्यां ढग्वक्तव्यः॑ इति वार्तिकं पठितम् ।दृष्टं सामे॑त्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । ॒तत्र सर्वत्रे॑ति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति — अग्निकलिभ्यामिति । अपत्यादीति । अग्निर्देवता अस्य इत्यादिसङ्ग्रहः । आग्नेयं कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति च' इति लोपः । इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।