5-3-102 शिलायाः ढः प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.102 sutra: शिलाया ढः
शिलायाः इवे ढः
index: 5.3.102 sutra: शिलाया ढः
शिला शब्दात् 'इव' अस्मिन् सन्दर्भे स्वार्थे ढ-प्रत्ययः भवति ।
index: 5.3.102 sutra: शिलाया ढः
शिलाशब्दादिवार्थे ढः प्रत्ययो भवति। शिलेव शिलेयं दधि। केचिदत्र ढञमपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः। शिलायाः ढञ् प्रत्ययो भवति। शैलेयम्। ततो धः। शिलेयम्।
index: 5.3.102 sutra: शिलाया ढः
शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥
index: 5.3.102 sutra: शिलाया ढः
'शिला' (rock / stone) इत्यस्मात् शब्दात् 'इव' इति सन्दर्भे 'ढ' इति प्रत्ययः भवति । यथा -
शिला इव अयम् खण्डः
= शिला + ढ
→ शिला + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]
→ शिल् + एय [यस्येति च 6.4.148 इति आकारलोपः ।]
→ शिलेय ।
शिला इव यः सः शिलेयः ।As hard as a rock इति अर्थः । यदि कश्चन पदार्थः शिला इव कठिनः अस्ति, तर्हि तस्य निर्देशः 'शिलेय' इति भवति ।
विशेषः - केचन पण्डिताः शिला-शब्दात् 'ढञ्' प्रत्ययं अपि विदधति । तदर्थमस्य सूत्रस्य योगविभागं कृत्वा 'शिलायाः' इति भिन्नं सूत्रं निर्माय तस्मिन् सूत्रे वस्तेर्ढञ् 5.3.101 इत्यस्मात् ढञ्-प्रत्ययस्य अनुवृत्तिं कारयित्वा 'शिलायाः ढञ्' इति नूतनम् सूत्रम् कार्यते, येन 'शिला इव सः शैलेयः' इति अपि शब्दः सिद्ध्यति ।
स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये अन्येषु च विषयेषु सर्वत्र 'शिला' शब्दात् 'इव' इति सन्दर्भे ढ-प्रत्ययः एव भवति ।
index: 5.3.102 sutra: शिलाया ढः
शिलाया ढः - शिलाया ढः । इवे इत्येव । शिलेव शिलेयमिति ।दध्यादी॑ति शेषः । योगेति । 'शिलाया' इत्येको योगः । ढञित्यनुवर्तते, इवे इति च । शैलेयमिति । ञित्त्वादादिवृद्धिः, स्त्रियां, ङीप् च फलम् । 'ढः' इति द्वितीयो योगः । शिलाया इत्यनुवर्तते । उक्तोऽर्थः ।