स्त्रियाम्

4-1-3 स्त्रियाम् प्रत्ययः परः च आद्युदात्तः च

Sampurna sutra

Up

स्त्रियाम्

Neelesh Sanskrit Brief

Up

इतः परम् <<समर्थानां प्रथमाद् वा>> 4.1.82 इति सूत्रं यावत् निर्दिष्टाः प्रत्ययाः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् विधीयन्ते ।

Neelesh English Brief

Up

This is an अधिकार which spans from the current sutra till (and just before) । समर्थानां प्रथमाद् वा' 4.1.82.

Kashika

Up

अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्यामः स्त्रियामित्येवं तद् वेदितव्यम्। <<ङ्याप्प्रातिपदिकात्>> ४.१.१ इति सर्वाधिकारेऽपि प्रातिपदिकमात्रमत्र प्रकरणे संबध्यते,ङ्यापोरनेनैव विधानात्। स्त्रियामित्युच्यते। केयं स्त्री नाम? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादया इव बहुप्रकारा व्यक्त यः। क्वचिदाश्रयविशेषाभावादुपदेशव्यङ्ग्या एव भवन्ति, यथा ब्राह्मणत्वादयः। स्त्रीत्वं च प्रत्ययार्थः प्रकृत्यर्थविशेषणं चेत्युभयथापि युज्यते — स्त्रियामभिधेयायां स्त्रियां वा यत् प्रातिपदिकं वर्तत इति। वक्ष्यति — <<अजाद्यतष्टाप्>> ४.१.४ — अजा। देवदत्ता। स्त्रियामिति किम्? अजः। देवदत्तः॥

Siddhanta Kaumudi

Up

अधिकारोऽयम् । समर्थानामिति यावत् ॥

Laghu Siddhanta Kaumudi

Up

अधिकारोऽयम्। समर्थानामिति यावत्॥

Neelesh Sanskrit Detailed

Up

इदम् अधिकारसूत्रम् अस्ति । अस्य व्याप्तिः <<दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्>> 4.1.81 इति सूत्रपर्यन्तं वर्तते । अस्मिन् अधिकारे आहत्य नव प्रत्ययाः पाठ्यन्ते । एतेषां सर्वेषां प्रयोगः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् भवति — इति अस्य अधिकारस्य आशयः । एतेषाम् प्रत्ययानाम् कोऽपि विशिष्टः अर्थः नास्ति, केवलम् स्त्रीत्वद्योतनम् इत्येव एतेषाम् कार्यम् । यथा, अज (goat) इति पुंलिङ्गवाचिनः शब्दात् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते अजा (female goat) इति समानार्थकः परन्तु स्त्रीलिङ्गवाची शब्दः सिद्ध्यति । अस्मिन् अधिकारे पाठिताः नव प्रत्ययाः स्त्रीप्रत्ययाः इति नाम्ना ज्ञायन्ते । एतेषाम् आवली एतादृशी — 1. टाप् — यथा, <<अजाद्यतष्टाप्>> 4.1.4 इति सूत्रे । अज + टाप् → अजा इति उदाहरणम् । 2. डाप् — यथा, <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति सूत्रे । सीमन् + डाप् → सीमा इति उदाहरणम् । 3. चाप् — यथा, <<यङश्चाप्>> 4.1.74 इति सूत्रे । कौसल्य + चाप् → कौसल्या इति उदाहरणम् । 4. ङीप् — यथा, <<ऋन्नेभ्यो ङीप्>> 4.1.5 इति सूत्रे । कर्तृ + ङीप् → कर्त्री इति उदाहरणम् । 5. ङीष् — यथा, <<अन्यतो ङीष्>> 4.1.40 इति सूत्रे । सारङ्ग + ङीष् → सारङ्गी इति उदाहरणम् । 6. ङीन् — यथा, <<शार्ङ्गरवाद्यञो ङीन्>> 4.1.73 इति सूत्रे । शार्ङ्गरव + ङीन् → शार्ङ्गरवी इति उदाहरणम् । 7. ऊङ् — यथा, <<ऊङुतः>> 4.1.66 इति सूत्रे । कुरु + ऊङ् → कुरू इति उदाहरणम् । 8. ति — यथा, <<यूनस्तिः>> 4.1.77 इति सूत्रे । अयं प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । युवन् + ति → युवति इति उदाहरणम् । 9. ष्फ — यथा, <<प्राचां ष्फ तद्धितः>> 4.1.17 इति सूत्रे । अयं प्रत्ययः तद्धितसंज्ञकः अपि अस्ति । अस्मात् प्रत्ययात् नित्यम् ङीष् इति अन्यः स्त्रीप्रत्ययः अपि विधीयते । गार्ग्य + ष्फ + ङीष् → गार्ग्यायणी इति उदाहरणम् । अपि च, अस्मिन् अधिकारे <<अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे>> 4.1.78 इति सूत्रेण ष्यङ् इति कश्चन आदेशः अपि पाठितः अस्ति । अयम् आदेशः विशिष्टेभ्यः शब्देभ्यः विहितस्य तद्धितप्रत्ययस्य स्थाने भवति । स्त्रीप्रत्ययान्तशब्दानां प्रातिपदिकसंज्ञा प्रत्ययान्तशब्देषु केवलं कृदन्तानाम्, तद्धितान्तानाम् च <<कृत्तद्धितसमासाश्च>> 1.2.46 इति सूत्रेण प्रातिपदिकसंज्ञा विधीयते । नवभ्यः स्त्रीप्रत्ययेभ्यः केवलं द्वौ स्त्रीप्रत्ययौ एव तद्धितसंज्ञकौ स्तः, अतः तदन्तानाम् शब्दानाम् एव अनेन सूत्रेण प्रातिपदिकसंज्ञा संभवति; अन्यैः सप्तभिः प्रत्ययैः सिद्धाः शब्दाः अनेन सूत्रेण प्रातिपदिकसंज्ञकाः न हि भवन्ति । इत्युक्ते, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यादिभिः सूत्रैः निर्दिष्टानि प्रातिपदिकसंज्ञाविशिष्टानि कार्याणि एतेषां शब्दानां विषये नैव सम्भवन्ति । परन्तु एतादृशानि कार्याणि स्त्रीप्रत्ययान्तशब्दानां विषये अपि अवश्यम् इष्यन्ते । अतएव <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इति सूत्रस्य भाष्ये भाष्यकारः अन्तादिवद्भावम् उपयुज्य एतेषाम् शब्दानां प्रातिपदिकसंज्ञां विदधाति । तत्र भाष्यम् एतादृशम् — आबपि ह्यकारान्ताद्विधीयते। तत्रैकादेशः। एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति । — <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यत्र भाष्यकारः अज + आ → अजा, देव + ई → देवी, कुरु + ऊ → कुरू इत्यादिषु स्थलेषु सवर्णदीर्घैकादेशे कृते सिद्धः एकादेशः <<अन्तादिवच्च>> 6.1.85 इति सूत्रेण अन्तवद्भावं स्वीकरोति, येन मूलप्रातिपदिकेनैव आकारान्त/ईकारान्त/ऊकारान्तस्य शब्दस्य अपि ग्रहणं भवति, अतश्च टाप्/डाप्/चाप्/ङीप्/ङीष्/ङीन्/ऊङ्-प्रत्ययान्तशब्दाः अपि अवश्यमेव प्रातिपदिकसंज्ञा भवति — इति अत्र भाष्यकारस्य आशयः अस्ति । परन्तु केषुचन स्थलेषु एतादृशः एकादेशः न विधीयते, अतश्च अन्तवद्भावः अपि न सम्भवति । यथा राजन् + ङीप् → राज्ञी, बहुराजन् + डाप् → बहुराजा इत्यादिषु उदाहरणेषु अनेन तर्केण प्रातिपदिकसंज्ञायाः अतिदेशः नैव सम्भवति । अतएव अस्मिन् सन्दर्भे भाष्यकारेण <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इति सूत्रे <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> इति काचित् अन्या परिभाषा अपि पाठिता दृश्यते । यत्र प्रातिपदिकसंज्ञया कस्यचन विशिष्टस्य प्रातिपदिकस्य वा ग्रहणं कृत्वा कोऽपि विधिः पाठितः अस्ति, तत्र सः विधिः तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा प्राप्तस्य स्त्रीलिङ्गवाचिनः शब्दस्य विषये अपि प्रवर्तते — इति अस्याः परिभाषायाः आशयः । अतएव <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन पाठितः प्रत्ययलोपः यथा चटकस्य अपत्यम् इत्यत्र चटक-शब्दस्य विषये प्रवर्तते, तथैव चटकायाः अपत्यम् इत्यत्र चटका-शब्दस्य विषये अपि प्रवर्तते । एवमेव, अनयैव परिभाषया <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> 8.3.46 इत्यस्मिन् सूत्रे विद्यमानः कुम्भ इति शब्दः स्त्रीविशिष्टस्य कुम्भी इत्यस्य अपि ग्रहणं करोति, अतएव <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> 8.3.46 इति सूत्रेण यथा अयस्कुम्भः इति शब्दः सिद्ध्यति, तथैव अयस्कुम्भी इति शब्दः अपि सिद्ध्यति । अतः यत्र स्त्रीप्रत्ययान्तशब्दस्य अन्तादिवद्भावेन प्रातिपदिकसंज्ञा न स्वीक्रियते तत्र प्रातिपदिकग्रहणेन तु तेषाम् ग्रहणम् अवश्यमेव भवति इति अत्र भाष्यकारस्य आशयः अस्ति । 1. यद्यपि स्त्रीप्रत्ययान्तशब्दानां साक्षात् प्रातिपदिकसंज्ञा न भवति, तथापि <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> अनया परिभाषया एतैः शब्दैः सह अपि प्रातिपदिकसदृशः एव व्यवहारः क्रियते, अतः व्यवहारसौलभ्यार्थम् प्रातिपदिक-शब्देन स्त्रीप्रत्ययान्तशब्दाः अपि गृह्यन्ते । 2. <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्>> इयं परिभाषा आहत्य सप्तसु स्थलेषु नैव प्रवर्तते । अस्मिन् सन्दर्भे अधिकं ज्ञातुम् जिज्ञासवः <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इति सूत्रस्य भाष्यं पश्येयुः । स्त्रीप्रत्ययानाम् विधानम् न सार्वत्रिकम् प्रकृतसूत्रेण पाठिते अधिकारे विद्यमानैः सूत्रैः भिन्नेभ्यः प्रातिपदिकेभ्यः स्त्रीप्रत्ययस्य विधानं कृतम् अस्ति । अस्मिन् सन्दर्भे द्वौ बिन्दू मुख्यरूपेण ज्ञातव्यौ — 1. न हि सर्वेभ्यः प्रातिपदिकेभ्यः स्त्रीप्रत्ययाः सम्भवन्ति । यथा, मरुत् इत्यस्मात् शब्दात् स्त्रीप्रत्ययः नैव विधीयते । 2. प्रायेण पुंलिङ्गवाचिनः शब्दात् स्त्रीत्वं द्योतयितुम् स्त्रीप्रत्ययः प्रयुज्यते । परन्तु कुत्रचित् स्त्रीलिङ्गवाचिनः प्रातिपदिकात् अपि स्त्रीप्रत्ययस्य विधानं कृतम् अस्ति । यथा, सीमन् इति स्त्रीलिङ्गवाचिनः प्रातिपदिकात् डाप्-प्रत्यये कृते सीमा इति नूतनं स्त्रीलिङ्गवाचि प्रातिपदिकम् सिद्ध्यति । न हि सर्वे स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः स्त्रीप्रत्ययस्य योजनेन शब्दस्य लिङ्गे परिर्वतनं भूत्वा नित्यं स्त्रीलिङ्गवाची शब्दः एव सिद्ध्यति । परन्तु सर्वेऽपि स्त्रीलिङ्गवाचिनः शब्दाः स्त्रीप्रत्ययान्ताः एव स्युः इति न आवश्यकम् । अस्मिन् सन्दर्भे द्वौ बिन्दू मुख्यरूपेण ज्ञातव्यौ — 1. केचन शब्दाः यद्यपि स्त्रीलिङ्गवाचिनः सन्ति तथापि तेषाम् अन्ते न हि कश्चन स्त्रीप्रत्ययः विद्यते । यथा, वधू‌, मातृ, सरित् एतादृशाः बहवः शब्दाः नित्यस्त्रीलिङ्गवाचिनः सन्ति, परन्तु एते स्त्रीप्रत्ययान्ताः न । एते शब्दाः उणादिप्रत्ययान्ताः / अव्युत्पन्नाः सन्ति । एतेषाम् <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> 1.2.45 इत्यनेन, उत <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन प्रातिपदिकसंज्ञा अवश्यं भवति । 2. धातुभ्यः क्तिन् इति कृत्प्रत्यये कृते स्त्रीलिङ्गवाचकाः शब्दाः सिद्ध्यन्ति । यथा, शक् + क्तिन् → शक्ति, बुध् + क्तिन् → बुद्धि, मन् + क्तिन् → मति — आदयः । एते सर्वे अपि शब्दाः ह्रस्व-इकारान्त-स्त्रीलिङ्गशब्देषु परिगण्यन्ते । एतेषां निर्माणे प्रयुक्तः क्तिन्-प्रत्ययः न हि <<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितः अस्ति, न च सः प्रातिपदिकेभ्यः विधीयते । अतएव क्तिन्-प्रत्ययेन निर्मिताः शब्दाः अपि स्त्रीप्रत्ययान्ताः न सन्ति । एतेषाम् <<कृत्तद्धितसमासाश्च>> 1.2.46 इत्यनेन प्रातिपदिकसंज्ञा अवश्यं भवति । निर्जीवपदार्थानां लिङ्गविधानम् कथम् ? सामान्यतः व्यवहारे सजीवानाम् विषये एव (शरीरस्य विशिष्टान् अवयवान् दृष्ट्वा) लिङ्गनिर्णयः, तस्य उपयोगः च कृतः दृश्यते । अस्मिन् सन्दर्भे बालमनोरमाकारः वदति — 'स्तनकेशवती स्त्री स्यात्, लोमशः पुरुषः स्मृतः । उभयोः अन्तरं यच्च तद् भावे नपुंसकम्' इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोः लिङ्गम् । तदभावे (तयोः उभयोः अभावे) सति, यद् उभयोः अन्तरं (सदृशं) तद् नपुंसकम् इत्यर्थः — बालमनोरमा । परन्तु एतादृशम् लिङ्गनिर्धारणम् निर्जीवपदार्थानां विषये नैव सम्भवति । अतएव — घट इति पुंलिङ्गे कथम् ? शाला इति स्त्रीलिङ्गे कथम् ? फल इति नपुंसकलिङ्गवाची कथम् — एतादृशाः प्रश्नाः अत्र अवश्यम् भवितुम् अर्हन्ति । अस्य स्पष्टीकरणम् अपि बालमनोरमाकारेण अग्रे दीयते — तद् इदं लौकिकं लिङ्गम् अस्मिन् शास्त्रे न उपयुज्यते, तस्य अचेतने खट्वामालादौ बाधात्, स्त्रीप्रत्ययानापत्तेः । किंतु, सत्त्वरजस्तमसां प्रकृतगुणानां वृद्धिः इति पुंस्त्वम्, अपचयः इति स्त्रीत्वम्, स्थितिमात्रं इति नपुंसकत्वम् । अत एव उत्कर्ष-अपकर्षं सत्वेऽपि स्थितिमात्रम् आदाय सामान्ये नपुंसकम् इति प्रवादः । उत्कर्ष-अपकर्ष-साम्यात्मक-अवस्थात्रय-साधारणस्थितिमात्र-विवक्षायां नपुंसकं भवति इति तदर्थः — बालमनोरमा । अचेतनेषु अपि पदार्थेषु विद्यमानानाम् सत्व-रजस्-तमसादिगुणानां चयापचयम् (activity / interaction) दृष्ट्वा ऋषिभिः / द्रष्टृभिः तेषाम् लिङ्गनिर्धारणम् कृतम् अस्ति, अस्माभिः तदनुषङ्गेन एव व्यवहारः क्रियते, इति अस्य आशयः ।

शब्दैः लिङ्गनिर्देशः पदार्थे विद्यमानस्य गुणत्रयस्य चयापचयं दृष्ट्वा तत्र ऋषिभिः आरोपितम् लिङ्गं व्यक्तीकर्तुम् तस्य पदार्थस्य वाचकेषु शब्देषु अपि भाषायाम् तदेव लिङ्गम् आरोप्यते । इत्युक्ते, अकारान्तपुंलिङ्गः वृक्षशब्दः इति वैयाकरणैः यदा उच्यते तदा तत्र वस्तुतः — वृक्षशब्देन निर्दिष्टे पदार्थे गुणत्रयस्य वृद्धिः भवति अतः वृक्षस्य पुंस्त्वम् स्वीक्रियते, तत् च ज्ञापयितुम् भाषायाम् वृक्षशब्दः पुंलिङ्गे प्रयुज्यते — इति अर्थः वर्तते । न हि शब्दस्य स्वस्य किमपि लिङ्गम् अस्ति, शब्देन पदार्थस्यैव लिङ्गम् निर्दिश्यते, इति अत्र आशयः । अतएव, पदार्थेषु विद्यमानानाम् गुणानां पृथक् रूपेण चयापचये जाते पदार्थस्य लिङ्गे यत्र परिवर्तनम् सम्भवति तत्र एकस्यैव पदार्थस्य निर्देशार्थम् भाषायाम् त्रिषु अपि लिङ्गेषु शब्दाः सम्भवन्ति । यथा, पुष्यः इति पुंलिङ्गे, तारका इति स्त्रीलिङ्गे, नक्षत्रम् इति नपुंसकलिङ्गे । एवमेव, पत्नी इति स्त्रीलिङ्गे, कलत्रम् इति नपुंसकलिङ्गे, दाराः इति पुंलिङ्गे । अस्मिन्नेव सन्दर्भे बालमनोरमाकारः अग्रे स्पष्टीकरोति — एकस्मिन् एव अर्थे पुष्यः, तारका, नक्षत्रम् इति शब्द-नानात्व-दर्शनात्, कुटी-कुटीरादौ रेफादि-अवयव-उपजनने लिङ्गभेददर्शनात् च स्तनकेशादि-अतिरिक्तम् एव लिङ्गम्, इत्यर्थ — इति कैयटः । 'पुंलिङ्गः शब्दः' इत्यादि व्यवहारः तु वाच्यवाचकयोः अभेदोपचाराद् बोध्यः । न च उपचयादिधर्माणां विरुद्धत्वाद् एकत्र समावेशायोगाद् एकस्य द्वित्रिलिङ्गता-अनापत्तिः इति वाच्यम्, एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणाम् अपि समावेश-उपपत्तेः । उक्तं च भाष्ये — कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहुर्तमपि नावतिष्ठते — इति । — बालमनोरमा । अस्मिन् सन्दर्भे अधिकं ज्ञातुम् जिज्ञासुभिः अस्य सूत्रस्य बालमनोरमाव्याख्यानम्, भाष्यम् वा द्रष्टव्यम् ।

Balamanorama

Up

<<स्त्रियाम्>> - अथ स्त्रीप्रत्ययाः । तदेवंङ्याप्प्रातिपदिका॑दित्यधिकृत्यस्वौजसमौ॑डिति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरम-नुक्रान्तान्स्त्रीप्रत्ययान्निरूपयितुमाह-स्त्रियाम् । अधिकारोऽयमिति ।अजाद्यतष्टाबित्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकार इत्यत आह — समर्थेति ।याव॑दित्यवधौ ।समर्थानां प्रथमा॑-दित्यतः प्रागित्यर्थः । अत्रेदमवधेयम् ।स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तद भावे नपुंसकम् ।॑ इति लक्षणलक्षितमवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गम् । तदभावे=तयोरुभयोरभावे सति, यदुभयोरन्तरं=सदृशं तन्नपुंसकमित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्याऽचेतने खट्वामालादौ बाधात्स्त्रीप्रत्ययानापत्तेः । दारानित्यादौतस्माच्छसो नः पुंसी॑ति नत्वानापत्तेश्च । किंतु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः — पुंस्त्वम्, अपचयः — स्त्रीत्वम्, स्थितिमात्रं नपुंसकत्वम् । अत एव ऊत्कार्षापकर्षंसत्वेऽपि स्थितिमात्रमादायसामान्ये नपुंसक॑मिति प्रवादः । उत्कर्षाऽपकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृशमवस्थात्रयं केवलान्वयि । 'अयं पदार्थः,'इयं व्यक्तिः॑, 'इदं वस्तु' इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्ये — ॒एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्चे॑ति । एकस्मिन्नेवार्थे 'पुष्यः' 'तारका'नक्षत्र॑मिति शब्दनानात्वदर्शनात्, कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । 'पुलिङ्गः शब्द' इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारद्बोध्यः । नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशाऽयोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम्, एकैकस्मिन्वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तंच भाष्ये-॒कश्चिदपि सत्त्वादिधर्म क्वचिन्मुहुर्तमपि नावतिष्ठते, यावदनेन वर्द्धितव्यमपायेन वा युज्यते॑ इति नचैवं सति युगपद्द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम्, नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्द एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे इत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम् । एषां पुंस्त्रीनपुंसकशब्दानां वृद्ध्यादिशब्दवदस्मिन् शास्त्रे संकेतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तं च भाष्ये-अवश्यं तावत्कश्चित्स्वकृतान्त आस्थेयः॑ इति वैयकरणसिद्धान्त इत्यर्थः ।कृतान्तौ यमसिद्धान्तौ॑ इत्यमरः । तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामर्थ्यात्सति संभवेस्तनकेशवती॑त्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथापशुना यजेते ॑त्यत्र स्त्रीव्यक्तावपि सत्त्वाद्युपचयात्मकपुंस्त्वाद्यनपायादाङोनाऽस्त्रियामिति नाभावस्याऽविरोधात्स्त्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादेतथालिङ्ग॑मित्यधिकरणे अद्वरमीमांसाकुतूहरवृत्ताववोचाम । त्रिविधमपि एतल्लिङ्गं जातिव्यक्तिवत्प्रातिपदिकार्थ एव । प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाऽजादिबोधोऽनुभवसिद्धो विरुध्येत । किंच मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात्प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् ।ऋकारान्तामातृदुहितृस्वसृयातृननान्दरः, प्रावृड्विप्रुडक्तिविषः॑ इत्याद#इलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते । अत एव च 'कृदिकारादक्तिनः' इत्यत्र 'अक्तिन' इत्यतदर्थवत् । अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वान्ङीपोऽप्राप्तेस्तद्वैयथ्र्यं स्पष्टमेव । न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात्कथं टाबादय #इति वाच्यं, द्वावित्यादिवत्प्रकृत्युक्तस्याऽव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयथ्र्यात् । तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यं । टाबादयस्तु तद्द्योतकाः । तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति ।

Padamanjari

Up

ङ्यापोरनेनैव विधानादिति । प्रातिपदिकमात्रमत्र प्रकरणेऽभिसम्बध्यत इत्यत्रायं हेतुः । प्रकरणापेक्षया चैतदुच्यते, सूत्रान्तरव्यापारसमये तु सूत्रान्तरविहितप्रत्ययान्ता प्रकृतिः सम्भवत्येव । ननु चात्र प्रकरणे सर्वत्र सति सम्भवे ठतःऽ इति सम्बध्यर्ते, न च ङ्याबन्तमदन्तम् । उक्तार्थत्वाच्च ङ्याबन्तात् ङ्यापोरप्रसङ्गः ? सत्यम् ; न्यायस्तु निरूप्यते । चोदयति - स्त्रियामित्युच्यते इति । सप्तमीनिर्देशेन कार्यान्तरविधानार्थमनूद्यते इत्यर्थः । ततः किमित्याह - केयं स्त्री नामेति । इह शास्त्रे स्त्रिया अपरिभाषितत्वाल्लौकिकस्त्रीग्रहणे च खट्वादावव्याप्तिप्रसङ्गात्प्रसिद्धवदनुवादोऽनुपपन्न इत्यर्थः । स्वरूपस्य च जिज्ञासितत्वात्प्रथमान्तेन प्रश्नः, कस्यां स्त्रियामिति तूच्यमाने विशेषविषयः प्रश्नः स्यात् । स्त्रीग्रहणं च प्रसङ्गेन पुन्नपुंसकयोरपि प्रदर्शनार्थम् । अत एवोतरे सामान्यविशेषाः स्त्रीत्वादय इति त्रयाणां स्वरूपं दर्शितम् । एवं च प्रथमोपनिपातिनि'ह्रस्वो नपुंसके' इत्यत्र लिङ्गस्वरूपनिरूपणमुचितम्, तथा तु न कृतमित्येव । तत्र लौकिकानां लक्षणम् - स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति । भूमादौ मतुप्, तथैव लोमश इति शः । स्तनकेशवत्वं च प्रसिद्धत्वादन्यस्यापि कुमार्यादिगतस्य स्त्रीप्रतिपतिहेतोरुपलक्षणम् । लोमशत्वं च पुंविज्ञानहेतोः कुमारादिगतस्य । उभयोरपि स्त्रीपुंसयोर्यदन्तरं सदृशं स्तनलोमाद्यौभयव्यञ्जनं तन्नपुंसकमित्यर्थः । तेनाव्ययाख्यातार्थस्य स्त्रीपुंसत्वाभावेऽपि नपुंसकत्वं न भवति, अन्यथा'तदभावे' इत्येतावत्युक्ते स्यात्पसङ्गः, तदभाव इत्यनेन कुक्कुटमयूर्यादेः स्त्रीपुंससमुदायरूपस्य द्वन्द्वार्थस्य नपुंसकत्वं न भवति । भवति हि समुदायः समुदायिनः सदृश इति स्यात्प्रसङ्गः । नायं प्रसङ्गः,'परवल्लिङ्गम्' इत्यनेन समुदायस्य परवल्लिङ्गातिदेशात् ? सत्यम्; इदं तु वस्तुस्वरूपनिरूपणपरं द्रष्टव्यम् । तदनेन स्तनकेशादिसम्बन्धः, स्तनादय एव वा विशिष्टसंस्थानाः, तदुपव्यञ्जना वा जातयः स्त्रीत्वादय इत्युक्तं भवति । अत्र पक्षे भ्रुकुअंसे टाप् प्रसज्येत, भ्रुकुअंसःउस्त्रीवेषधारी नटः, तस्य स्तनकेशसम्बन्धं उपलभ्यते, खरकुट।लदीनां च लोमशत्वात्पुंस्त्वे सति खरकुटीः पश्येत्यत्र नत्वं प्राप्नोति । खरकुटीउनापितगृहमुच्यते । ननु च स्वाभाविकपरिणामशालिभिः स्तनादिभिरत्र सम्बन्धो विवक्षितः, न यथाकथञ्चित् ; स्तनादि च प्रसिद्धस्यान्यस्याप्युपलक्षणमुक्तं तत्कुतोऽयं प्रसङ्गः ? एवं तहि खट्वावृक्षौ न सिध्यतः, खट्वावृक्षादीनां स्तनलोमाद्यभावात् । स्यादेतत् - यथा वस्त्रान्तर्हितानि द्रव्याणि नोपलभ्यन्ते, तद्वत्खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? तन्न; वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते खट्वावृक्षयोस्तिलशस्तत्क्षणेऽपि लिङ्गं नोपलभ्यते । यथा तर्ह्यादित्यगतिः सती प्रत्यक्षेण नोपलभ्यते देशान्तरप्राप्त्या त्वनुमीयते, तथा खट्वावृक्षयोरपि सदेव लिङ्गं सूक्ष्मत्वान्नोपलभ्यते । सतामपि हि भावानां षड्भिः प्रकारैरनुपलब्धिर्भवति - अतिसन्निकर्षाद्, यथा - स्वचक्षुर्गतस्याञ्जनादेः । अतिविप्रकर्षात्, यथा-उड्डीनस्य शकुनेः । मूर्तान्तर्द्धानात्, यथा - कुड।लदिव्यवहितस्य सुवर्णादेः । अन्धकारावृतत्वात्, यथाअन्दकाराक्रान्तस्य घटादेः । इन्द्रियदौर्बल्यात्-तिमिराद्यौपघाते चक्षुरादेः । अतिप्रमादात् -'प्रामादो' नवधानताऽ, विषयान्तरव्यासक्तचितो हि सन्निकृष्टमप्रयर्थं नोपलभ्यते । सौक्ष्म्यं तु - इन्द्रियदौर्बल्य एवान्तर्भूतम्, दिव्यचक्षुः श्रोत्रो हि सूक्ष्ममप्यर्थमुपलभते । एवं समानाभिहारोऽपि तत्रैवान्तर्भूतः, तद्यथा माषराशौमाषः प्रक्षिप्तः पृथग्नोपलभ्यते । एवमभिभवोऽपि, तद्यथा - सौरीभिः प्रभाभिरभिभूतानि नक्षत्राणि दिवा नोपलभ्यन्ते । केम पुनरेतदवसीयते खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? टाबादेस्तत्कृतस्यानन्यकार्यस्य दर्शनात् । यद्येवम्, इतरेतराश्रयं प्राप्नोति - लिङ्गावगमाट्टाबादिशब्दप्रयोगः, तद्योगाल्लिङ्गावगतिरिति ? इन्द्रियदौर्बल्यं कदाचिदुपलब्धस्य कदाचिदनुपलम्भे कारणं शक्यमभिधातुम्, खट्वादिषु च लिङ्गस्य कदाचिदप्यनुपलम्भाल्लिङ्गविविक्तखट्वादिवस्तुग्राहिणा प्रत्यक्षेण लिङ्गाभावनिश्चयातद्विरुद्धमनुमानं नोदेतुमर्हति । न हि शक्यते वक्तुम् - भिक्षुगृहं गजवद् देशत्वाद्गजशालावत्, प्रत्यक्षेणेन्द्रियदौर्बल्यातु गजो नोपलभ्यत इति, तस्मादसदेव लिङ्गं शब्दप्रयोगमहिम्न खट्वादिषु प्रतीयते । भवत्वेवं श्रोतुः प्रतीतिः, यस्त्वसौ प्रयोक्ता स केन लिङ्गमगम्य तदनुरूपं शब्दं प्रयुङ्क्ते ! किञ्च - कुमार्यर्थः, कुमारी वस्त्विति कुमार्यादिष्वर्थवस्तुशब्दयोः पुन्नपुंसकयोरनुपपतिः । भाष्ये तु - आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ आविर्भावःऊपचयः, पुंस्त्वम् ; तिरोभावःउअपचयः, स्त्रीत्वम् ; अन्तरालावस्था स्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्वरजस्तमसां गुमानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादिसङ्घातरूपाश्च सर्वा मूर्तयः प्रतिक्षणपरिणामस्वभावाश्च सत्वादयो गुणा न स्वस्मिन्नात्मनि मूहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय आकाशादयो घटादयश्च । उक्तञ्च - सर्वमूर्त्यात्मभूतानां शब्दादीनां गणे गणे । त्रयः सत्वादिधर्मास्ते सर्वत्र समवस्थितः ॥ इति । क्वथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ इति च । तथा - रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् । काचित्प्रलीयते काचित् कथंचिदभिवर्धते ॥ इति । प्रवृत्तिमन्तः सर्वे हि तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ॥ इति च । टाबाद्यन्तः शब्द एवैता अवस्था गोचरयतीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि - उचेतनेषु सङ्क्रान्तं चैतन्यमिव दृश्यते । प्रतिबिम्बकधर्मेण यतद्वाचो निबन्धनम् ॥ ततश्च - यश्चाप्रवृत्तिधर्मार्थस्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तिविष्वगाश्रया ॥ सामान्यमपि गोत्वादि व्यक्तेरव्यतिरेकतः । प्रवृत्तिधर्मं तद्द्वारा शशशृङ्गादिवाक्षु तु ॥ तस्मादुक्तपदार्थस्य सम्भवाल्लिङ्गयोगिता । प्रवृतेरपि विद्यन्ते तिस्रो ह्यएताः प्रवृतयः ॥ पुन्नपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता । तदेवं सर्वपदार्थव्यापित्वादुपचयान्तरालावस्थास्त्रीणि लिङ्गानि । एवं च नक्षत्रे तारका तिष्यः, कुमार्यर्थो वस्तु इति एकस्याप्यर्थस्य नानालिङ्गयोग उपपद्यते; आविर्भावादित्रयस्यापि गुणभेदेन नस्मिन्नेवार्थे सर्वदा सम्भवात् । न चैवं तद्वृतेः सर्वस्यैव शब्दस्य त्रिलिङ्गताप्रसङ्गः; न ह्यस्ति नियमः - यः शब्दो यत्रार्थे पर्यवस्यति तत्र विद्यमानः सर्व एवाकारस्तेन शब्देनाभिधातव्य इति, किन्तु य आकारोऽभीधीयते तेन सता भवितव्यमित्येतावत् । तद्यथा - तक्षा, युवा, कृष्णः, कामुक इति तक्षादशब्दानामेकार्थपर्यवसितानामपि व्यवस्थित एवाकारो वाच्यः । तथा लिङ्गेष्वपि द्रष्टव्यम् । उक्तं च - सन्निधाने पदार्थानां किञ्चिदेव प्रवर्तकम् । यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ॥ इति । उपचीयते कुमारीत्यत्रापि कुमारीशब्दः स्वमहिम्ना कस्यचिद्धर्मस्यापचयमेवाह । शब्दान्तरप्रयोगातु धर्मान्तरस्योपचयः प्रतीयते । एवं क्षीयते वृक्ष इत्यत्रापचयः, तदेवं सर्वमनाकुलमिदं दर्शनम् । वृत्तिकारस्तु लौकिकानामेवं प्रतिपतेरभावातत्प्रतिपत्यनुगुणं पक्षं दर्शयति - सामान्यविशेषा इति । कानिचित्सामान्यानीत्यर्थः । यद्वा - सताव्यतिरिक्तेषु सामान्येषु सामान्यविशेषशब्दो रूढः । तिस्रोऽवान्तरजातय इत्यर्थः । उक्तं च - तिस्रो जातय एवैताः केषाञ्चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ हस्तिन्यां वडवायां च स्त्रीत्वबुद्धेः समन्वयः । अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥ इति । ननु चैषां त्रयाणामपि सामान्यविशेषाणां सर्वार्थेषु सद्भावोऽभ्युपगन्तव्यः, न गोत्वादिकत्कतिपयेष्वेवार्थेषु, कथमन्यथार्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामेकस्मिन्नर्थे प्रयोगः स्यात् । ततश्च सर्वत्र त्रिलिङ्गपतिभासंप्रसङ्ग इत्यत आह - बहुप्रकाराव्यक्तय इति । व्यज्यन्ते सामान्यविशेषा आभिरिति व्यक्तयःउ आश्रयाः । एतदुक्तं भवति - विचित्रत्वादाश्रयाणां व्यञ्जकानां कश्चिदाश्रयः कस्यचित्सामान्यविशेषस्य व्यञ्जकः, न सर्वः सर्वस्येति । तत्र चेतनेषु स्तनादिमती व्यक्तिः स्त्रीत्वस्य व्यञ्जिका, लोमशत्वादिमती पुंस्त्वस्य, उभयव्यञ्जना नपुंसकत्वस्य ; अचेतनेषु कथम्, न हि तत्र किञ्चिदपि लिङ्गं व्यज्यते ? तथा चेतनेऽप्यर्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामप्यनुपपतिः, दारशब्दस्य च पुंल्लिङ्गस्य भार्यायामनुपतिः ? अत आह - क्वचिदाश्रयविशेषाभावादिति । तदभिव्यञ्जनसमर्थ आश्रयविशेषः । तत्राचेतनेषु सर्वत्रोपदेशादेवाभिव्यक्तिः । उपदेशः पुनर्लिङ्गानुशासनादिषु । अत्रैव दृष्टान्तमाह - यथा ब्राह्मणत्वादय इति । ब्राह्मणक्षत्रियादिव्यक्तीनामत्यन्तसादृश्यादुपदेशादेव ब्राह्मणत्वादीनामभिव्यक्तिर्भवति; नो खलु ब्राह्मणक्षत्रिययोः पुरोऽवस्थितयोरयं ब्राह्मणः, अयं क्षत्रिय इति प्रागेवोपदेशात्प्रत्यय उदेति । यथा गवाश्वव्यक्त्योरभावे शशविषाणादावप्युतरपदार्थद्वारकः सामान्ययोगः, सामान्यं जातिः, स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेत्यादौ सामान्वेऽपि सामान्यान्तरस्य सद्भावः, यथा - गोत्वादौ सतासामान्यस्य । न ह्यस्माकं वैशेषिकाणामिव निः सामान्यानि सामान्यानि । स्त्रीशब्दोऽयं शुक्लादिशब्दवद्गुणमात्रे गुणिनि च वर्तते, तत्र यदा गुणमात्रे स्त्रीशब्दो वर्तते तदा द्रव्यवाचिनः प्रातिपदिकात्स्त्रीत्वेऽभिधेये टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थ इति पक्षो भवति । यदा तु स्त्रीत्वयुक्तं द्रव्यं स्त्रीशब्देनोच्यते तदा परं पक्षद्वयं सम्भवति - स्त्रीत्वमुपलक्षणम्, विशेषणं वेति । तत्राद्ये स्त्रीत्वोपलक्षितद्रव्याचिनः प्रातिपदिकाट्टाबादय इति, अयं स्त्रीसमानाधिकरणादिति पक्षो भवति । द्वितीये तु स्त्रीत्वयुक्तद्रव्यवाचिनोऽङ्गोकृतस्त्रीत्वात्प्रातिपदिकादिति प्रकृत्यर्थविशेषणं स्त्रीत्वमिति पक्षो भवति । तत्र स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः - बूतमियं ब्राह्मणी, प्रधानमियं ब्राह्मणी आवपनमियमुष्ट्रिकेति । उभयोस्तु पक्षयोर्नैष दोषः, कथम् ? भूतादयः चैतन्यप्राधान्यसम्भवनवद्वृतयः, न तु स्त्रीत्वाङ्गीकारेण वर्तन्ते । तदेवमत्र पक्षे दोषदर्शनादितरयोरन्यतरदाश्रयणीयमित्याह - स्त्रीत्वं चेति । उभयथापि युज्यते इति । ननु प्रत्ययार्थपक्षे द्विवचनबहुवचनानेकप्रत्ययानुपपतिः, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम, तदेव च प्रकृत्यर्थोपसर्जनं प्रत्ययेनाभिधीयते, तस्यैकत्वादेकवचनमेव प्राप्नोति ? अनेकश्च प्रत्ययो नोपपद्यते - गार्ग्यायणी, कारीषगन्ध्या, कालितरेति, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम तस्यैकेनोक्तत्वाद् द्वितीयः प्रत्ययो न प्राप्नोति - उक्तार्थानामप्रयोग इति ? स्त्रीशब्दे चेकारो न प्राप्नोति, संस्त्याने'स्त्यायतेर्ड्रट्' इति ड्रट्प्रत्ययान्तेन स्त्रीशब्देनोक्तत्वात् संस्त्यानं स्त्रीत्वम् ? सामानाधिकरण्यं च न स्यात् - कुमारी देवदतेति, स्वस्वप्रकृत्यर्थावच्छिन्नयोः स्त्रीत्वयोः प्राधान्येनाभिधानात्, तत्र व्यतिरिकनिबन्धा षष्ठी प्राप्नोति, कुतः ? न तावदन्यऽन्यतः ; परस्परं गुणगुणिभावाभावात्, नापि स्त्रीप्रत्ययप्रकृतेः ; टाबादिभिर्बाधित्वात् ? यत्र तर्हि प्रतियोगिनि स्त्रीप्रत्ययः प्रतिषिध्यते तत्र षष्ठी प्राप्नोति - पञ्च ब्राह्मण्यः, स्वसाभिरूपेति ? पक्षान्तरे तु द्वयोरपि द्रव्यनिष्ठत्वाद्व्यतिरेकाभावः सामानाधिकरण्यं च भवति, द्रव्यस्य चानेकत्वाद् द्विवचनबहुवचने अपि युक्ते । यथैव च प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे टाबादयो भवन्ति, तथानेकोऽपि प्रत्ययो नानुपपन्नः, तद्द्योतको हि तदा नानाप्रत्ययः, प्रदीपादेश्चानेकस्यापि द्योतकत्वं दृष्टम् । प्रत्ययार्थपक्षेऽपि न दोषः । यद्यपि स्त्रीत्वमात्रे वाच्ये प्रत्ययः क्रियते, तथापि स्त्रीत्वतदाश्रययोरभेदविवक्षया स्वाभाविकत्वाद्वा गुणप्रधानभावस्य द्वयोरपि दृष्टत्वेन सामानाधिकरण्यं वचनभेदश्च भविष्यति । गार्ग्यायणीत्यादौ च द्वाभ्यामेव स्त्रीत्वमभिधातुं शक्यते, नैकेन; स्वभावात् । यद्वा - ष्फस्य षित्करणसामर्थ्यान्ङीष् सिद्धः, ष्यङ्'यिङ्श्चाप्' इति वचनसामर्थ्याच्चाब् भविष्यति । तथा हि - अत्र यङ्ष्यङेः सामान्यग्रहणाय तदविघाताय च ष्यङेनुबन्धद्वयं कृतम्, कालितरेत्यत्रान्यः प्रकर्षयुक्तोऽन्यश्चाप्रकर्षयुक्तः, तत्रावस्थाभेदादेक एवार्थो भिद्यत इति प्रकर्षयुक्तस्यानभिहितं स्त्रीत्वमिति तदभिधानाय टाबपि भविष्यात । स्त्रीशब्देऽपि'स्त्रियाम्' इत्यस्मादेव निपातनादीकारः सिद्ध इति सुष्ठूअक्तम् - उभयथापियुज्यत इति ॥