4-2-24 सा अस्य देवता प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
'सा अस्य देवता' (इति) समर्थानाम् प्रथमात् परः अण् प्रत्ययः
प्रथमासमर्थात् देवतावाची-शब्दात् 'अस्य' इत्यस्मिन् अर्थे अण् प्रत्ययः भवति ।
To indicate an entity by referring to its god, an appropriate तद्धित प्रत्यय can be attached to the प्रथमासमर्थ word representing the name of the god.
सेति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं देवता चेत् सा भवति। यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः। इन्द्रो देवतास्य ऐन्द्रं हविः। आदित्यम्। बार्हस्पत्यम्। प्राजापत्यम्। देवतेति किम्? कन्या देवदत्तस्य। कथमैन्द्रो मन्त्रः? मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति। कथमाग्नेयो वै ब्राह्मणो देवतयेति? उपमानाद् भविष्यति। <<महाराजप्रोष्ठपदाट् ठञ्>> ४.२.३५ इति यावत् सास्य देवतेत्यधिकारः। सेति प्रकृते पुनः समर्थविभक्तिनिर्देशः संज्ञानिवृत्त्यर्थः॥
इन्द्रो देवताऽस्येति ऐन्द्रं हविः । पाशुपतम् । बार्हस्पत्यम् । त्यज्यमानद्रव्ये उद्देश्यविशेषो देवता मन्त्रस्तुत्या च । ऐन्द्रो मन्त्रः । 'आग्नेयो वै ब्राह्मणो देवतया' इति तु शैषिकेऽर्थे ।<!सर्वत्राग्नि- इति ढक् !> (वार्तिकम्) ॥
इन्द्रो देवताऽस्येति ऐन्द्रं हविः। पाशुपतम्। बार्हस्पत्यम्॥
देवतायाः नाम्नः साहाय्येन 'अस्य' अस्मिन् अर्थे कस्यापि निर्देशं कर्तुम् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - 1. इन्द्रः देवता अस्य (भक्तस्य / हवेः / मन्त्रस्य / वाहनस्य / स्थानस्य / ऋचः / श्लोकस्य / नैवेद्यस्य / ...) → इन्द्र + अण् → ऐन्द्र । 2. बृहस्पतिः अस्य देवता = बृहस्पति + अण् [<<दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः>> 4.1.85 इति ण्यप्रत्ययः] → बार्हस्पत्य । अन्यानि उदाहरणानि - 1. भानुः अस्य देवता = भानवः । 2. शिवः अस्य देवता = शैवः । 3. विष्णुः अस्य देवता = वैष्णवः । 4. भगवान् अस्य देवता = भगवत् + अण् = भागवत । 5. पशुपतिः अस्य देवता = पशुपति + अण् = पाशुपत । अत्र <<अश्वपत्यादिभ्यश्च>> 4.1.84 इति अण् विधीयते । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'देवता' अयं शब्दः 'मन्त्रस्तुत्यः / पुरोडाशादेः स्वामी' अस्मिन् अर्थे प्रयुक्तः अस्ति । केनापि हविषा मन्त्रेण वा या तुष्यति, सा देवता अत्र अभिप्रीयते ।
<<साऽस्य देवता>> - साऽस्य देवता । अस्मिन्नर्थे प्रथमान्तादणादयः स्युरित्यर्थः । ऐन्द्रं हविरिति । इन्द्रात्मकदेवतासम्बन्धीत्यर्थः । पाशुपतमिति । पशुपतिर्देवता अस्येति विग्रहः । ननु देवताशब्दस्य लोकप्रसिद्धजातिविशेषवाचकत्वे पितरो देवता अस्य पित्त्रयमित्याद्यनुपपन्नमित्यत आह — त्यज्यमानद्रव्ये इति ।हविश्शेषमृत्विग्भ्यो ददाति॑, विप्राय गां ददाती॑त्यादौ ऋत्विग्विप्रादेर्देवतात्वव्यावृत्तये विशेषग्रहणम् । त्यज्यमानहविस्साध्योऽस्मदाद्यप्रत्यक्षः यस्तृप्त्याद्युपकारस्तदाश्रयो देवतेति यावत् । मन्त्रस्तुत्या चेति ।अग्निमीडे पुरोहित॑मित्यादिमन्त्रेषु यज्ञपुरोहितत्वादिगुणविशिष्टत्वेन या प्रतिपाद्यते सापि देवतेत्यर्थः । ऐन्द्रो मन्त्र इति । इन्द्रस्तुत्यको मन्त्र इत्यर्थः । ननुआग्नेयो वै ब्राआहृणो देवतया॑ इत्यत्र कथं देवतातद्धितः । अत्र अग्नेर्हविरुद्देश्यत्वस्य मन्त्रस्तुत्यत्वस्य चाऽभावादित्यत आह — आग्नेयो वै इति । शैषिकेऽर्थे इति । 'शेषे' इति सूत्रलब्धे तदभिमानिकत्वे गम्ये इत्यर्थः । अग्निर्नाम यो देवताजातिविशेषो लोकवेदसिद्धस्तदभिमानिको ब्राआहृण इति बोधः ।
यागसम्प्रदानं देवतेति । यद्यपि देवशब्दो मनुष्यादिवज्जातिवचनः, स्वार्थिकश्च तल्; तथापि समुदायशक्त्या देवताशब्दो यागे दर्श पूर्णमासौ यद्यत्सम्प्रदानत्वेन चोदितं तत्र सर्वत्र वर्तते, न स जातिविशेष इत्यर्थः । देयस्य पुरोडाशादेः स्वामिनीति । दिवेरैश्वर्यकर्मणो देवताशब्दव्युत्पत्ति दर्शयति, एवं च कृत्वा'वाय्वृतुपित्रुषसो यत्' 'कालेभ्यो भववत्' इति वचनमुपपद्यते, न ह्यृतुषु पितृषु उषसि वा जातिरस्ति । तथा पितृदेवत्यम्, देवदेवत्यमिति प्रयोगोऽप्येवमेवोपपद्यते । कथमिति । पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्तीति प्रश्नः । मन्त्रस्तुत्यामपीत्यादि । नानेनौपचारिकत्वं प्रयोगस्योच्यते, अपि तु मुख्य एव प्रयोगः, यागसम्प्रदाने सार्वलौकिकः प्रयोगः, अयं तु नैरुक्तानामित्येतावान्विशेषः । उपचरन्तीति ब्रुवते, प्रयुञ्जत इत्यर्थः । कथमित्यादि । पूर्वोक्तं प्रकारद्वयमत्र नास्तीति प्रश्नः । उपेमानादिति । काषायौ गर्दभस्य कर्णावितिवद् गौणोऽयं प्रयोग इत्यर्थः । सेति प्रकृत इति । प्रकृतं हि साग्रहणं संज्ञया सम्बद्धमिति तदनुवृतौ संज्ञाया अप्यनुवृत्तिः स्यात् ॥