एचोऽयवायावः
6-1-78 एचः अयवायावः संहितायाम् अचि
Sampurna sutra
Up
एचः अचि अय्-अव्-आय्-आवः
Neelesh Sanskrit Brief
Up
एच्-वर्णानाम् स्थाने संहितायाम् स्वरे परे (क्रमेण) अय्-अव्-आय्-आव्- एते आदेशाः भवन्ति ।
Neelesh English Brief
Up
When followed by a स्वर, the letters of the एच् प्रत्याहार are respectively converted to अय्, अव्, आय् and आव् in the context of संहिता.
Kashika
Up
एचः स्थानेऽचि परतोऽय् अव् आय् आव् इत्येत आदेशा यथासंख्यं भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि॥
Siddhanta Kaumudi
Up
एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
Laghu Siddhanta Kaumudi
Up
एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
Neelesh Sanskrit Detailed
Up
एच् = ए, ओ, ऐ, औ ।
अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।
एच्-वर्णानाम् स्थाने स्वरे परे संहितायाम् क्रमेण अय्/अव्/आय्/आव्-एते आदेशाः भवन्ति । <<यथासंख्यमनुदेशः समानाम्>> 1.3.10 इत्यनेन अत्र यथासङ्ख्यम् आदेशविधानम् क्रियते । तद्यथा —
(1) एकारस्य स्थाने अय्-आदेशः भवति ।
चिञ् (चयने, स्वादिः, <{5.5}>)
→ चि [ञकारस्य <<हलन्त्यम्>> इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ चि + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः]
→ चे + अनीय [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः]
→ च् अय् + अनीय [<<एचोऽयवायावः>> 6.1.78 इति एकारस्य अयादेशः]
→ चयनीय
अन्यद् उदाहरणम् —
वने + इति
→ वन् अय् इति [<<एचोऽयवायावः>> 6.1.78 इति एकारस्य अयादेशः]
→ वनयिति, वन इति [ <<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन यकारलोप:]
(2) ओकारस्य स्थाने अव्-आदेशः भवति ।
भू (सत्तायाम्, स्वादिः, <{1.1}>)
→ भू + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति अनीयर्-प्रत्ययः]
→ भो + अनीय [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः]
→ भ् अव् + अनीय [<<एचोऽयवायावः>> 6.1.78 इति ओकारस्य अवादेशः]
→ भवनीय
अन्यद् उदाहरणम् —
साधो + इति
→ साध् अव् इति [<<एचोऽयवायावः>> 6.1.78 इति ओकारस्य अवादेशः]
→ साधविति, साध इति [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन वकारलोप:]
(3) ऐकारस्य स्थाने आय्-आदेशः भवति ।
चिञ् (चयने, स्वादिः, <{5.5}>)
→ चि [ञकारस्य <<हलन्त्यम्>> इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः]
→ चि + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्-प्रत्ययः]
→ चि + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः]
→ चै + अक [<<अचो ञ्णिति>> 7.2.115 इति वृद्धिः
→ च् आय् + अक [<<एचोऽयवायावः>> 6.1.78 इति ऐकारस्य आयादेशः]
→ चायक
अन्यद् उदाहरणम् —
वन्दै + इति
→ वन्द् आय् + इति [<<एचोऽयवायावः>> 6.1.78 इति ऐकारस्य आयादेशः]
→ वन्दायिति, वन्दा इति [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन यकारलोप:]
(4) औकारस्य स्थाने आव्-आदेशः भवति ।
भू (सत्तायाम्, स्वादिः, <{1.1}>)
→ भू + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्-प्रत्ययः]
→ भू + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः]
→ भौ + अक [<<अचो ञ्णिति>> 7.2.115 इति वृद्धिः]
→ भ् आव् + अक [<<एचोऽयवायावः>> 6.1.78 इति औकारस्य आवादेशः]
→ भावक
अन्यद् उदाहरणम् —
बालौ + इति
→ बाल् आव् + इति, बाला इति [<<लोपः शाकल्यस्य>> 8.3.19 इत्यनेन विकल्पेन यकारलोपः]
→ बालाविति
बाध्यबाधकभावः
प्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः —
1. पदान्त-एकार-ओकारात् परः अकारः विद्यते चेत् अयादेशं बाधित्वा <<एङः पदान्तादति>>
6.1.109 इत्यनेन पूर्वरूप-एकादेशः भवति । यथा,
वने + अस्मिन् → वनेऽस्मिन् इति ।
2. यदिः एकारः वचनस्य रूपस्य अन्ते विद्यते, तर्हि <<ईदूदेद्द्विवचनं प्रगृह्यम्>>
1.1.11 इत्यनेन तस्य प्रगृह्यसंज्ञा भवति, ततः च प्रकृतसूत्रेण उक्तं अयादेशं बाधित्वा <<प्लुतप्रगृह्या अचि नित्यम्>>
6.1.125 इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा,
पचेते + इमे → पचेते इमे इति ।
<<लोपः शाकल्यस्य>> 8.3.19 इति सूत्रम् प्रकृतसूत्रस्य अपवादः नास्ति। <<लोपः शाकल्यस्य>>
8.3.19 इत्यस्य प्रयोगः प्रकृतसूत्रस्य प्रयोगात्
अनन्तरम् एव सम्भवति । यदि <<लोपः शाकल्यस्य>>
8.3.19 इति न प्रयुज्यते, तर्हि केवलम् वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति —
वने + इति
→ वन् अय् + इति [<<एचोऽयवायावः>> 6.1.78 इति अयादेशः]
→ वन इति / वनयिति [<<लोपः शाकल्यस्य>> 8.3.19 इति पाक्षिकः यकारलोपः]
यकारवकारयोः इत्संज्ञा न
अस्मिन् सूत्रे दत्तेषु 'अय्', 'अव्', 'आय्', 'आव्' एतेषु आदेशेषु यद्यपि औपदेशिकस्वरूपे हल्-वर्णः (यकारः / वकारः) अन्ते विद्यते, तथापि एतयोः यकारवकारयोः प्रयोजनाभावात् इत्संज्ञा न भवति ।
<<इको यणचि>>, <<एचोऽयवायावः>> च एतयोः एकत्रीकरणम्
<<इको यणचि>>
6.1.77 इति सूत्रम् <<एचोऽयवायावः>>
6.1.78 इति सूत्रेण सह एकत्रीकृत्य <<इचोऽचि यणयवायावः>> इति एकमेव सूत्रम् निर्मातुम् शक्यम्, इति अस्य सूत्रस्य बालमनोरमाव्याख्याने निर्दिष्टम् अस्ति ।
Balamanorama
Up
<<एचोऽयवायावः>> - एचोऽयवायावः । अय्च अव्च आय्च आव्चेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासंख्यपरिभाषया एकारस्य अय्, ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते । तदाह — एचः क्रमादिति । यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह 'इचोऽचि यणयवायाव' इत्येव सूत्रयितुमुचितम् ।
Padamanjari
Up
कस्य पुनरयं वान्तादेशः ? एचेति वर्तते। यद्येवमेदैतोरपि प्राप्नोति -चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, ठेचोऽयवायावःऽ इत्येव। इहापे तर्ह्यादेशः प्राप्नोति -चेयम्, जेयमिति?'क्षय्यजय्यौ शक्यार्थे' , र्ठ्क्य्यस्तदर्थेऽ इत्येतन्नियमार्थं भविष्यति -एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः,'दृश्टानुविधिश्च्छन्दसि' । भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते -अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः'शक्यार्थे' इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम् -योऽयमेचः स्थाने इति। बाभ्रव्य इति।'मधुबभ्रवोर्ब्राह्मणकौशिकयोः' इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम्'तदर्थं विकृतेः प्रकृतौ' इत्यत्रार्थे ठुगवादिभ्यो यत्ऽ । नावा तार्यं नाव्यम्, नौवयोधर्मऽ इत्यादिना यत्। अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिःउक्रोशयुगम् ॥ धातौस्तन्निमितस्यैव॥ धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः - यि प्रत्यये यदि भवति तन्निमितस्यैवेति; एवं हि'वान्तो यि प्रत्यये तन्निमितस्य' इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युतरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमितत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः, ठाद्गुणःऽ, तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। ठत इञ्ऽ आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्। एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युतरम् ॥