3-2-163 इण्नशजिसर्तिभ्यः क्वरप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु
इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस्तुगर्थः। इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृत्वरः। सृत्वरी। <<नेड् वशि कृति>> ७.२.८ इतीट्प्रतिषेधः॥
इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥
<<इण्नश्जिसर्त्तिभ्यः क्वरप्>> - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् ।
इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति।'टिड्ढाणञ्' इत्यादिना ङीप्॥