वयसि प्रथमे

4-1-20 वयसि प्रथमे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

कुमारावस्थायाः निर्देशार्थम् ह्रस्व-अकारान्तात् प्रातिपदिकात् ङीप्-प्रत्ययः भवति ।

Kashika

Up

कालकृतशरीरावस्था यौवनादिर्वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते, ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। कि शोरी। बर्करी। प्रथम इति किम्? स्थविरा। वृद्धा। अत इत्येव — शिशुः॥ वयस्यचरम इति वक्तव्यम्॥ वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्र्यभिधीयते। कथं कन्या? <<कन्यायाः कनीन च>> ४.१.११६ इति ज्ञापकात्। उत्तानशया लोहितपादिकेति? नैता वयःश्रुतयः॥

Siddhanta Kaumudi

Up

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ।<!वयस्यचरम इति वाच्यम् !> (वार्तिकम्) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । कन्यायाः कनीन च <{SK1119}> इति निर्देशात् ॥

Laghu Siddhanta Kaumudi

Up

प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात्। कुमारी॥

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । शरीरस्य भिन्नाभ्यः अवस्थाभ्यः कुमार-अवस्थायाः निर्देशार्थम् प्रयुक्तात् प्रातिपदिकात् ह्रस्व-अकारान्तात् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । सामान्यरूपेण शरीरस्य तिस्रः अवस्थाः परिगण्यन्ते — कुमारावस्था (कौमारम्, young age), युवावस्था (यौवनम्, adult age), तथा च वृद्धावस्था (जरा / वार्धक्यम्, old age) । एतासाम् तिसृणाम् अपि अवस्थानाम् निर्देशार्थम् भिन्नाः शब्दाः प्रयुज्यन्ते । एतासु कुमारावस्थायाः निर्देशार्थम् प्रयुक्तेभ्यः अदन्तेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वे प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति । यथा — 1. कुमार + ङीप् → कुमारी । 2. किशोर + ङीप् → किशोरी । 3. बर्कर (शिशुः इत्यर्थः) + ङीप् → बर्करी एते त्रयः अपि शब्दाः कुमारावस्थां निर्दिशन्ति, अतः एतेभ्यः स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः विधीयते । कन्या इति शब्दः अपि कुमारवयोवाची एव । अयं शब्दः कन्य इति शब्दात् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते सिद्ध्यति । वस्तुतस्तु अत्रापि प्रकृतसूत्रेण ङीप्-प्रत्ययः एव प्राप्नोति, परन्तु पाणिनिना स्वयमेव कन्या इति शब्दः <<कन्यायाः कनीन च>> 4.1.116 इत्यत्र प्रयुक्तः अस्ति । अस्मात् ज्ञापकात् कन्य-शब्दात् टाप्-प्रत्ययः एव भवति । वार्त्तिकम् — <!वयसि अचरमे इति वक्तव्यम्!> यद्यपि प्रकृतं सूत्रम् शरीरस्य प्रथमायाः अवस्थायाः (कुमारावस्थायाः) निर्देशकानां शब्दानां विषये पाठितम् अस्ति, तथापि शरीरस्य द्वितीयायाः अवस्थायाः (युवावस्थायाः) निर्देशकानां शब्दानां विषये अपि प्रकृतसूत्रस्य प्रयोगः भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा — 1. वधूट / बधूट (a young person recently entered adulthood and stays close to the father's house) + ङीप् → वधूटी / बधूटी 2. चिरण्ट (a young person recently entered adulthood who continues to stay in father's house) + ङीप् → चिरण्टी । 1. युवन्-शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् प्रकृतसूत्रेण ङीप्-प्रत्ययः न भवति । अपि च, युवन्-शब्दात् स्त्रीत्वं द्योतयितुम् <<यूनस्तिः>> 4.1.77 इत्यनेन ति-प्रत्ययः क्रियते, येन युवति इति शब्दः सिद्ध्यति । 2. तरुण, तलुन एतयोः शब्दयोः <<षिद्गौरादिभ्यश्च>> 4.1.41 इत्यत्र विद्यमाने गौरादिगणे ग्रहणं कृतम् अस्ति; अतः एताभ्याम् शब्दाभ्याम् ङीष्-प्रत्यये कृते तरुणी, तलुनी इति शब्दौ सिद्ध्यतः । दलकृत्यम् 1. 'प्रथमे (= अचरमे)' इति किमर्थम् ? यः शब्दः कुमारावस्थाम्, युवावस्थां वा न दर्शयति (वृद्धावस्थां दर्शयति), तस्य विषये प्रकृतसूत्रं नैव प्रयुज्यते । यथा — (i) स्थविर + टाप् → स्थविरा । (ii) वृद्ध + टाप् → वृद्धा वृद्धा कुमारी इव = वृद्धकुमारी इति शब्दः वस्तुतः वृद्धावस्थायाः निर्देशार्थम् एव प्रयुज्यते, परन्तु अत्र वृद्धायां कुमारीत्वम् आरोपितम् अस्ति अतः अत्र ङीप्-प्रत्ययेनैव अन्तिमं रूपं सिद्ध्यति इति अत्र तत्त्वबोधिन्यां स्पष्टीकृतम् वर्तते । 2. 'अतः' इति किमर्थम् ? प्रकृतसूत्रे <<अजाद्यतष्टाप्>> 4.1.4 इत्यस्मात् सूत्रात् अतः इति अनुवर्तते; अतः प्रकृतसूत्रस्य प्रयोगः अदन्तेभ्यः प्रातिपदिकेभ्यः एव भवति । अतएव शिशुः शब्दस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, इयं शिशुः । 3. 'वयसि' इति किमर्थम् ? प्रकृतसूत्रे प्रयुक्तः वयः इति शब्दः 'age' इत्यस्मिन् अर्थे नैव प्रयुक्तः अस्ति, अपि तु 'stage of life' (शरीरस्य अवस्था) अस्मिन् अर्थे प्रयुक्तः वर्तते । प्राणिनाम् कालकृत-अवस्था-विशेषं वयः इति अस्य शब्दस्य व्याख्या । अतएव प्रथम, द्वितीय, तृतीय — आदीनां शब्दानां विषये प्रकृतसूत्रस्य प्रयोगः न भवति, यतः एतैः सूत्रैः केवलम् सङ्ख्यात्मकं वयः निर्दिश्यते, न हि शरीरावस्था । एवमेव उत्तानशय (= the one who sleeps only on the back, without moving on their own) इति शब्दः यद्यपि अतिशिशुः (infant) इत्यस्य निर्देशार्थं प्रयुज्यते तथापि अनेन शब्देन शरीरावस्था न हि निर्दिश्यते अपि तु शयनपद्धतिः निर्दिश्यते, अतः अस्य विषये अपि प्रकृतसूत्रस्य प्रयोगः न भवति (कश्चित् रोगपीडितः वृद्धः अपि उत्तानशयः भवितुम् अर्हति इत्याशयः) । एवमेव लोहितपाद (used to indicate infant who feet are still reddish) इति शब्दः यद्यपि सामान्यतः 'शिशुः' अस्मिन् अर्थे प्रयुज्यते तथापि अनेन शब्देन पादयोः वर्णस्य निर्देशः भवति न हि शरीरस्य अवस्थायाः, अतः अस्य शब्दस्य विषये अपि इदं सूत्रं न प्रयुज्यते । तथैव प्रौढ इति शब्दः अपि वह्-धातुनिर्मितः अस्ति (शरीरावस्थां न दर्शयति) अतः तस्य विषये अपि प्रकृतसूत्रं न प्रयुज्यते । 'पिता रक्षति कौमारे, भर्ता रक्षति यौवने, पुत्रस्तु स्थविरे भावे, न स्त्री स्वातन्त्र्यमर्हति' — इत्यस्मिन् श्लोके शरीरस्य तिस्रः अपि अवस्थाः परिगणिताः सन्ति ।

Balamanorama

Up

<<वयसि प्रथमे>> - वयसि प्रथमे । प्राणिनां कालकृतावस्ताविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति त्रिधा ।पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥॑ इति दर्शनात् । चतुर्विधं वय इत्यन्ये ।आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥॑ इति दर्शनात् ।प्रथमे वयसी॑त्यनन्तरंविद्यमाना॑दिति शेषः । 'अजाद्यतष्टाप्' इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते । तदन्तविधिः । स्त्रियामित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । तदाह — प्रथमवयोवाचिन इत्यादिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः ।वयस्यचरम इति । चरमम्न्त्यं वयः, तद्भिन्नमचरमं । प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह — वधूटी चिरण्टीति । अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह — यावनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः । कन्याया नेति ।ङी॑बिति शेषः । कुत इत्यत आह — कन्यायाः कनीन चेति । नचद्विवर्षा स्त्री॑त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात् ।

Padamanjari

Up

श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात् । यस्तु वृद्धायां प्रयोगः - वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः । वयस्यचरम इति । चरमु अन्त्यम्, अचरमे उ अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति - कौमारप्, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः - 'प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति' ॥ इति । अन्ये तु त्रीणि - 'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हति' ॥ इति । अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि - ठाषोडशाद्भवेद्वालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यतेऽ ॥ इति । एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह - द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात् । श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति - उतानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या उ श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुतानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमितम् । उतानादिषु कर्तृष्विति शेरतेरच् प्रत्ययः, सर्वैव च कदाचिदुताना शेते, उच्यते चेदम् - उतानशयेति, तत्र नियमो गम्यते - अन्यथा स्वप्तुमसामर्थ्यादुतानैव शेत इति । एवमपि सन्देहः - बाला, वृद्धेति ? तस्मादुतानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात् । द्वे वर्षे भूता इति ठञः'वर्षाल्लुक्च' ,'चितवति नित्यम्' इति लुक् ॥