3-3-117 करणाधिकरणयोः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ल्युट्
index: 3.3.117 sutra: करणाधिकरणयोश्च
करणेऽधिकरणे च कारके धातोः ल्युट् प्रत्ययो भवति। इध्मप्रव्रश्चनः। पलाशशातनः। अधिकरणे गोदोहनी। सक्तुधानी।
index: 3.3.117 sutra: करणाधिकरणयोश्च
ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥
index: 3.3.117 sutra: करणाधिकरणयोश्च
करणे चाधिकरणे चाभिधेये इति । उपपदे तु करणाधिकरणे न भवतः, करणाधिकरणयोरित्यत एव निर्देशात् । क्रियतेऽनेनेति करणम्, अधिक्रियतेऽस्मिन्नित्वधिकरणमिति करणाधिकरणसाधनौ ह्यएतौ । यद्येवम्, सति निर्देशे प्रत्ययविधानम्, सति च प्रत्ययविधाने निर्देश । इतीतरेतराश्रयः प्राप्नोति ? न; नित्यात्वाच्छब्दानां नास्मान्निर्देशात्करणाधिकरणशब्दौस्तः । इध्मप्रव्रश्चन इति । कर्मणि, षष्ठयाः समासः । दात्रादिरुच्यते । पलाशशातन इति ॥'शद्लृ शातने' हेतुमण्णिच,'शदेरगतौ तः' इति तत्वम् । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स एवमुच्यते । गोदोहनी, सक्तुधानी पात्री । योगश्चायं येन नाप्राप्तिन्यायेन घञोऽपवादः । अजपौ स्त्रीप्रत्ययांश्च परत्वाद्वाधते । उक्तं हि - ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति ॥