आद्यन्तौ टकितौ

1-1-46 आद्यन्तौ टकितौ

Sampurna sutra

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


आदि-अन्तौ टकितौ

Neelesh Sanskrit Brief

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


टित्-आगमः आगमिनः आदौ विधीयते, कित्-आगमः आगमिनः अन्ते विधीयते ।

Neelesh English Brief

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


A टित्-आगम is attached before its substrate, and a कित्-आगम comes after its substrate.

Kashika

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


आदिः टित् भवति, अन्तः कित् भवति षष्ठीनिर्दिष्टस्य । लविता, मुण्डो भीषयते । टित्प्रदेशाः आर्धधातुकस्य इड् वलादेः 7.2.35 इत्येवमादयः । कित्प्रदेशाः भियो हेतुभये षुक् 7.3.40 इत्येवमादयः ॥

Siddhanta Kaumudi

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


संस्कृतव्याकरणे आगमानाम् प्रकारत्रयम् विद्यते — टित्-आगमाः, कित्-आगमाः, मित्-आगमाः इति । एतेभ्यः टित्-आगमानाम् कित्-आगमानाम् च स्थानम् प्रकृतसूत्रेण निर्दिश्यते । टित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् पूर्वम् संस्थाप्यते; कित्-आगमः यस्य शब्दस्य विधीयते तस्मात् शब्दात् अनन्तरम् विधीयते— इति प्रकृतसूत्रस्य अर्थः । उदाहरणे एतादृशे —

  1. लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति सूत्रेण लङ्-प्रत्यये परे अङ्गस्य अट्-आगमः विधीयते । अयम् टित् आगमः अस्ति अतः अयम् अङ्गस्य आदौ (प्रारम्भे) विधीयते । प्रक्रिया इयम् —

पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)

→ पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अट्-आगमः । अस्मिन् आगमे टकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा भवति, ततः तस्य तस्य लोपः 1.3.9 इति लोपः विधीयते । अतः अयम् आगमः टित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, पठ्-इत्यस्मात्) पूर्वम् विधीयते । ]

→ अ + पठ् + तिप् [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ अ + पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]

→ अ + पठ् + अ + त् [इतश्च 3.4.100 इति इकारलोपः]

→ अपठत्

  1. भियो हेतुभये षुक् 7.3.40 इति सूत्रेण भी-धातोः णिच्-प्रत्यये परे षुक्-आगमः विधीयते । अयम् कित् आगमः अस्ति, अतः अयम् अङ्गस्य अन्ते विधीयते । प्रक्रिया इयम् —

ञिभी (भये, जुहोत्यादिः, <{3.2}>)

→ भी + णिच् [हेतुमति च 3.1.26 इति णिच्-प्रत्ययः ]

→ भी + इ [णकारस्य चुटू 1.3.7 इति इत्संज्ञा । चकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा । द्वयोः अपि तस्य लोपः 1.3.9 इति लोपः ।]

→ भी + षुक् + इ [भियो हेतुभये षुक् 7.3.40 इति अङ्गस्य षुक्-आगमः । अस्मिन् आगमे षकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा भवति, ततः तस्य तस्य लोपः 1.3.9 इति लोपः विधीयते । अतः अयम् आगमः षित्-आगमः अस्ति । अयम् आगमः अस्य आगमिनः (इत्युक्ते, भी-इत्यस्मात्) अनन्तरम् विधीयते । ]

→ भी + ष् + इ [षकारस्य हलन्त्यम् 1.3.3 इति इत्संज्ञा भवति, ततः तस्य तस्य लोपः 1.3.9 इति लोपः विधीयते । षकारोत्तरः उकारः उच्चारणार्थः अस्ति, अतः तस्य अपि लोपः भवति ।]

→ भीषि [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]

→‌भीषि + ल्युट् [ल्युट् च 3.3.115 इति ल्युट्-प्रत्ययः]

→ भीषि + अन [युवोरनाकौ 7.1.1 इति यु-इत्यस्य अन-आदेशः]

→ भीष् + अन [णेरनिटि 6.4.51 इति णिचः लोपः]

→ भीषण [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम्]

यस्मिन् शब्दस्वरुपे टकारः / ककारः इत्संज्ञकः अस्ति, तत् शब्दस्वरूपम् आगमः एव भवेत् इति न आवश्यकम् । प्रत्ययेषु अपि एते वर्णाः इत्संज्ञकरूपेण प्रयुज्यन्ते । यथा, टक् इत्यस्मिन् प्रत्यये टकारककारौ द्वौ अपि इत्संज्ञकौ स्तः, परन्तु अयम् आगमः नास्ति । अतः कः टित्/कित्-शब्दः आगमः अस्ति अस्य निर्णयः तु व्याख्यानं दृष्ट्वा एव करणीयः ।

Balamanorama

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


आद्यन्तौ टकितौ - आद्यन्तौ टकितौ । आदिश्च अन्तश्च आद्यन्तौ, टश्च कच् टकौ । टकारादकार उच्चारणार्थः । टकौ इतौ ययोस्तौ टकितौ । द्वन्द्वान्त इच्छब्दः प्रत्येकं संबध्यते । टित्कितावाद्यन्तावयवौ स्तः । कस्येत्याकाङ्क्षायां यस्य तौ विहितौ तयोरित्यर्थाल्लभ्यते । तदाह — टित्कितावित्यादिना । क्रमादिति यथासङ्ख्य सूत्रलभ्यम् । टित् आद्यवयवः, किदन्तावयव इत्यर्थः । नचैवं सति मिलितयोरेकत्रान्वयाऽभावात्कथमिह द्वन्द्व इति वाच्यम्, प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासंख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः । 'एचोऽयवायावः' इत्यादावप्येषैव गतिः । लोके त्वेवंजातीयकप्रयोगोऽसाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोमन्यासो युक्तः ।आर्धधातुकस्येड्वलादेः॑ भविता ।ङ्णोः कुक् टुक् शरि॑, प्राङ्क्षष्ट इत्याद्युदाहरणम् ।पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोत्तरान् इतिषष्ठी स्थानेयोगे॑त्यस्यानन्तरस्यैवायमपवादः । 'प्रत्ययः' परश्चेत्यनेन तु परत्वादिदं बाध्यते । तेन चरेष्टः गापोष्टगित्यादयः परा एव भवन्ति ।

Padamanjari

Up

index: 1.1.46 sutra: आद्यन्तौ टकितौ


अत्र द्वौ पक्षौ सम्भवतः-संज्ञा स्यात्, परिभाषा वेति । तत्र संज्ञापक्षेऽयमर्थः-टकिताविति कर्मधारयः, इत्संज्ञकौ टकारककारौ आद्यन्तयौः संज्ञेति । तत्रेडित्यत्राद्यर्थेन टकारेण बहुव्रीहौ इकारादिः शब्दो गृहीत आदेशो विधीयमानस्तव्यस्य स्थानेऽन्तरतम इतव्यो भवतीति सिद्धमिष्टम् । एवं षुक्यन्तवचनेन ककारेण बहुव्रीहौ षकारान्तो गृहीत आदेशो भियो भीष् भवतीति सिद्धम् । नन्वस्मिन्पक्षे संज्ञा संज्ञिप्रत्यायनार्था, संज्ञिनं प्रत्याय्य स्वयमेव निवर्तिष्यत इति किमिद्ग्रहणेन, टकावित्येवास्तु ? उच्यते; इत्संज्ञकत्वेन देशविशेषो लक्ष्यते, तेनेत्संज्ञकस्य यो देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचौ 'ठस्येकः' इत्यादौ टकौ संज्ञे न भवतः । अस्मिन्पक्षे दोषः, 'लुङ्लङ्लृङ्क्ष्वडुदातः' इत्यडित्यकारादेरादेशस्य विधानातस्यैवोदातत्वमलोऽन्त्यस्य स्याद्, नाकारस्य ? नैष दोषः; 'अडुदातः' इति त्रिपदो बहुव्रीहिः-उदातोऽकार आदिरस्येति । विशेषणस्याप्युदातस्य सौत्रः परिनिपातः । एवमपि - 'आडजादीनाम्' इत्यत्रोदातग्रहणमेवानुवर्तत इति बहुव्रीहेरसम्भवाद्दोषः, तस्मात्परिभाषापक्षमाश्रित्याह-'आदिष्टिद्भवतीति । परेण परिभाषाप्रकरणेन साहचर्यादिति भावः । यद्वा-'षष्ठी स्थानेयोगा' इत्यत्रेदमनुवर्त्यम्, अत एवाह-षष्ठीनिर्द्दिष्टस्येति । तेन 'चरेष्टः','आतोऽनुपसर्गे कः' इत्यादयः प्रत्यया आद्यन्तभूता न भवन्ति । एवमपि 'गापोष्टक्' 'व्रीहिशाल्योर्ढक्' इत्यत्र प्रसङ्गः, तत्र टकष्टित्वकित्वयोगे परत्वादन्त्यः स्यात्, नैष दोषः; 'पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते न परान्' इति । एवमयं स्थानेयोगं बाधते, न प्रत्ययपरत्वम् । भीषयत इति । 'ञिभी भये', णिच् । 'भियो हेतुभये षुक्' 'भीस्म्योर्हेतुभये' ॥