यस्येति च

6-4-148 यस्य ईति च असिद्धवत् अत्र आभात् भस्य तद्धिते लोपः

Sampurna sutra

Up

भस्य अङ्गस्य यस्य तद्धिते ईति च लोपः

Neelesh Sanskrit Brief

Up

भसंज्ञकस्य अङ्गस्य 'अ'वर्णस्य 'इ'वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति ।

Neelesh English Brief

Up

The अकार and इकार of a भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय or an ईकार.

Kashika

Up

इवर्णान्तस्यावर्णान्तस्य च भस्य ईकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्येकारेदाक्षी। प्लाक्षी। सखी। सवर्णदीर्घत्वे हि सत्यतिसखेरागच्छतीत्यत्रैकादेशस्यान्तवत्त्वाद् ६.१.८५ असखि १.४.७ इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते — दुलि — दौलेयः। वलि — वालेयः। अत्रि — आत्रेयः। अवर्णान्तस्य ईकारे — कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते — दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः॥ यस्तेत्यौङः श्यां प्रतिषेधो वक्तव्यः॥ काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे ७.१.१९ कृते यस्येति चेति <<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> ६.४.१४९ इति च लोपः प्राप्नोति॥ इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन॥ वत्सान् प्रीणाति वत्सप्रीः, तस्यापत्यं वात्सप्रेयः। <<चतुष्पाद्भ्यो ढञ्>> ४.१.१३५ इति ढञ् प्रत्ययः। लेखाभ्रूः शुभ्रादिः ४.१.१२३, तस्या अपत्यं लैखाभ्रेयः॥

Siddhanta Kaumudi

Up

भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥<!औङः श्यां प्रतिषेधो वाच्यः !> (वार्तिकम्) ॥ ज्ञाने ॥

Laghu Siddhanta Kaumudi

Up

ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते <<औङः श्यां प्रतिषेधो वाच्यः>> (वार्त्तिकम्)। ज्ञाने॥

Neelesh Sanskrit Detailed

Up

अस्मिन् सूत्रे प्रयुक्तः 'यस्य' अयम् शब्दः 'इ + अ' इत्यनेन निर्मितः अस्ति । इश्च अश्च = यः । 'यस्य' इत्युक्ते इवर्णान्तस्य + अवर्णान्तस्य । अतः अस्य सूत्रस्य अर्थः - भसंज्ञकस्य अङ्गस्य अन्तिमस्य अ-वर्णस्य / इ-वर्णस्य तद्धितप्रत्यये परे ईकारे च परे लोपः भवति । अस्मिन् सूत्रे तपरकरणम् कृतम् नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईकारस्यापि ग्रहणं भवति । आदौ तद्धितप्रत्यये परे उदाहरणानि पश्यामः - 1. अकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - दक्ष + इञ् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<अत इञ्>> 4.1.95 इति इञ्-प्रत्ययः] → दाक्ष इञ् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → दाक्ष् + इञ् [इञ्-प्रत्यये परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → दाक्षि 2. आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - विनता + ढक् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> 4.1.120 इति ढक्-प्रत्ययः] → विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → वैनता + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैनत् + एय [एकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य आकारस्य लोपः] → वैनतेय 3. इकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - अत्रि + ढक् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<इतश्चानिञः>> 4.1.122 इत्यनेन ढक्-प्रत्ययः] → अत्रि + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → आत्रि + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → आत् र् + एय [एकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य इकारस्य लोपः] → आत्रेय 4. ईकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः - 'इदम्' अस्य शब्दस्य वतुप्-प्रत्यये कृते इयम् प्रक्रिया जायते - इदम् + घत् [<<किमिदम्भ्याम् वो घः>> 5.2.40 इत्यनेन इदम्-शब्दस्य वतुप्-प्रत्ययः , तस्य वकारस्य अननैव सूत्रेण घकारादेशः] → इदम् + इयत् [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.2.2 इत्यनेन घकारस्य इय्-आदेशः] → ई + इयत् [<<इदम्किमोः ईश्की>> 6.3.90 इत्यनेन इदम्-शब्दस्य ई-आदेशः । <<अनेकाल् शित् सर्वस्य>> 1.1.55 इति शित्वात् सर्वादेशः] → इयत् [ईकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति ईकारस्य लोपः] इदानीम् ईकारे परे किम् भवति तत् पश्यामः । अस्मिन् सूत्रे प्रयुक्तम् 'ईकार' इति निमित्तम् तद्धितभिन्नप्रत्ययस्य ईकारस्य निदर्शनम् करोति, यतः ईकारादौ तद्धितप्रत्यये परे तु तद्धितग्रहणनैव लोपः भवितुमर्हति - तदर्थम् ईकारग्रहणस्य आवश्यकता न । अतः अत्र केवलं तद्धितभिन्नानाम् प्रत्ययानाम् एव उदाहरणानि देयानि । तद्धितभिन्नः ईकारः भसंज्ञकात् अनन्तरम् केवलं द्वयोः स्थलयोः एव आगच्छति - 1. ङीप्/ङीष्/ङीन् - एतेषाम् स्त्रीप्रत्ययानाम् ईकारः तद्धितभिन्नः ईकारः अस्ति । 2. नपुंसकस्य औ/औट्-प्रत्यययोः <<नपुंसकाच्च>> 7.1.19 इत्यनेन यः 'शी' आदेशः भवति, अस्मिन् आदेशे तद्धितभिन्नः ईकारः अस्ति । अन्येषु प्रत्ययेषु परेषु (यथा - लकाराः / कृत् / सन् -आदयः) अङ्गस्य भसंज्ञा एव न भवति, अतः तेषामत्र चिन्तनम् न करणीयम् । एताभ्याम् द्वाभ्याम् स्थलाभ्याम् शी-आदेशस्य विषये अस्य सूत्रस्य <!औङः श्यां प्रतिषेधो वाच्यः!> अनेन वार्तिकेन निषेधः कृतः अस्ति । (एतत् वार्तिकमधः स्पष्टीकृतमस्ति ।) अतः ई-प्रत्ययस्य उदाहरणानि केवलं ङीप्/ङीष्/ङीन्-एतेषु स्त्री-प्रत्ययेषु परेषु एव उपलभ्यन्ते । 1. अकारान्तस्य अङ्गस्य ईकारे परे लोपः - कुमार + ङीप् [<<वयसि प्रथमे>> 4.1.20 इत्यनेन कुमार-शब्दस्य ङीप्-प्रत्ययः ] → कुमार + ई [इत्संज्ञालोपः ] → कुमार् + ई [ईकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → कुमारी 2. इकारान्तस्य अङ्गस्य ईकारे परे लोपः - दाक्षि + ङीष् [इतो मनुष्यजातेः 4.1.65 इत्यनेन स्त्रीत्वस्य विवक्षायाम् 'ङीष्' प्रत्ययः] → दाक्षि + ई [इत्संज्ञालोपः ] → दाक्ष् + ई [एकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → दाक्षी अत्र वार्त्तिकद्वयम् ज्ञातव्यम् - 1. <!औङः श्यां प्रतिषेधो वाच्यः !> । इत्युक्ते, औ/औट्-प्रत्यययोः <<नपुंसकाच्च>> 7.1.19 इत्यनेन शी-आदेशे कृते अस्य सूत्रस्य प्रयोगः न भवति - इति । यथा, फल-शब्दस्य प्रथमा-द्वितीया-द्विवचनस्य प्रक्रिया इयम् - फल + औ / औट् → फल + शी [<<नपुंसकाच्च>> 7.1.19 इति शी-आदेशः] → फल + ई [इत्संज्ञालोपः । ईकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते] → फले [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2. <! इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन !> । यदि कस्मिंश्चित् स्थले <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन इयङ्/उवङ्-आदेशः विधीयते, तथा च <<यस्येति च>> 6.4.148 इत्यनेन लोपः अपि विधीयते; तर्हि विप्रतिषेधेन (परत्वात्) लोपः एव करणीयः । यथा - वत्सान् प्रीणाति सः 'वत्सप्रीः' । अयम् ईकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य ढञ्-प्रत्यये परे इयम् प्रक्रिया जायते - वत्सप्री + ढञ् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<चतुष्पाद्भ्यो ढञ्>> 4.1.135 इति ढञ्-प्रत्ययः]। → वत्सप्री + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.2.2 इत्यनेन ढकारस्य एय्-आदेशः] → वात्सप्री + एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति उपधा-अकारस्य वृद्धिः आकारः] → वात्सप् र् + एय [ <<अचि श्नुधातुभ्रुवां य्वोरियङुवङौ>> 6.4.77 इत्यनेन इयङ्/उवङ्-आदेशे च प्राप्ते ; तं परत्वात् बाधित्वा <<यस्येति च>> 6.4.148 इत्यनेन लोपः एव भवति ।] → वात्सप्रेय ज्ञातव्यम् - 1. <<येन विधिस्तदन्तस्य>> 1.1.72 इत्यनेन 'यस्य भस्य' इत्युक्ते इकारान्तस्य / अकारान्तस्य भसंज्ञकस्य अङ्गस्य - इति अर्थः जायते । 2. अनेन सूत्रेण विहितः लोपः <<अलोऽन्त्यस्य>> 1.1.52 इत्यनेन अन्तिम-वर्णस्य स्थाने भवति । अतः भसंज्ञकस्य अङ्गस्य अन्ते विद्यमानस्य इकारस्य / अकारस्य अयं लोपः भवतीति ज्ञायते । 3. अस्य सूत्रस्य अर्थज्ञाने <<यथासङ्ख्यमुदेशः समानाम्>> 1.1.10 अस्य प्रयोगः न करणीयः, यतः अत्र विधिः तु एकः एव अस्ति । अतः द्वाभ्याम् कस्यापि स्थानिनः कस्मिन्नपि निमित्ते परे अयं लोपः विधीयते । 4. <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया 'ईति' इत्युक्ते 'ईकारादि-प्रत्यये परे' इति अर्थः सिद्ध्यति । 5. अस्मिन् सूत्रे 'ईति' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति । दीर्घवर्णेन सवर्णग्रहणम् न भवति, अतः अत्र तपरकरणस्य किमपि प्रयोजनम् न । अस्मिन् विषये <<अणुदित्सवर्णस्य चाप्रत्ययः>> 1.1.69 इत्यत्र अधिकम् द्रष्टव्यम् ।

Balamanorama

Up

<<यस्येति च>> - यस्येति च । यस्य-ईतीति छेदः । इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः ।भस्ये॑त्यधिकृतम् । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह — भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति ।सुडनपुंसकस्ये॑ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः ।औङ श्यामिति । औङो यः श्यादेशस्तस्मिन् परतोयस्येति चे॑ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । 'औङ्' इति तु व्यर्थमेव । 'सर्वे' इत्यादौजसः शी॑त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः । ज्ञाने इति । ज्ञान ई इति स्थिते आद्गुण इति भावः ।

Padamanjari

Up