7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्
प्रत्ययादीनाम् फ-ढ-ख-छ-घामायन्-एय्-ईन्-ईय्-इयः
प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति ।
The letters फ्-ढ्-ख्-छ्-घ् occurring at the beginning of a प्रत्यय are converted respectively to आयन्-एय्-ईन्-ईय् and इय्
आयन् एय् ईन् ईय् इय् इत्येत आदेशा भवन्ति यथासंख्यं फ ढ ख छ घ इत्येतेषां प्रत्ययादीनाम्। फ इत्येतस्यायनादेशो भवति। <<नडादिभ्यः फक्>> ४.१.९९ — नाडायनः। चारायणः। ढस्य एयादेशो भवति। <<स्त्रीभ्यो ढक्>>४.१.१२० — सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति। <<कुलात् खः>> ४.१.१३९ — आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्येयादेशो भवति। <<वृद्धाच्छः>>४.२.११४ — गार्गीयः। वात्सीयः। घ इत्येतस्येयादेशो भवति। <<क्षत्राद् घः>> ४.१.१३८ — क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणं किम्? ऊरुदघ्नम्। जानुदघ्नम्। एत आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति। तथा च <<घच्छौ च>>४.४.११७ इति घचश्चित्करणमर्थवद् भवति। शङ्खः, षण्ढः इत्येवमादीनां हि <<उणादयो बहुलम्>> ३.३.१ इति बहुलवचनादादेशा न भवन्ति। <<ऋतेरीयङ्>>३.१.२९ इति वा वचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। <<एजेःखश्>>३.२.२८, <<पदरुजविशस्पृशो घञ्>>३.३.१६ इत्येवमादिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदितीत्संज्ञां बाधितुं नोत्सहते। आयन्नीनोर्नकारस्येत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि संभवति॥
प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा <{SK498}> इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥
प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥
अस्मिन् सूत्रे पञ्च-स्थानिनः पञ्च-आदेशाश्च प्रोक्ताः सन्ति । <<यथासङ्ख्यमनुदेशः समानाम्>> 1.3.10 इत्यनेन एते आदेशाः यथासङ्ख्यम् भवन्ति - फ् → आयन् । ढ् → एय् । ख् → ईन् । छ् → ईय् । घ् → इय् । एते आदेशाः प्रत्ययस्य आदिवर्णस्य भवन्तीति स्मर्तव्यम् । उदाहरणानि एतानि - 1) फकारस्य आयन्-आदेशः नड + फक् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<नडादिभ्यः फक्>> 4.1.99 इति फक्-प्रत्ययः] → नड + आयन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति फ्-इत्यस्य आयन्-आदेशः] → नाड + आयन [<<किति च>> 7.2.117 इति आदिवृद्धिः] → नाड् + आयन [आकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → नाडायन 2) ढकारस्य एय्-आदेशः विनता + ढक् [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे <<स्त्रीभ्यो ढक्>> 4.1.120 इति ढक्-प्रत्ययः] → विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → वैनता एय [<<किति च>> 7.2.117 इति आदिवृद्धिः] → वैनत् + एय [एकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य आकारस्य लोपः] → वैनतेय 3) खकारस्य ईन्-आदेशः कुल + ख [<<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे कुल-शब्दात् <<कुलात्खः>> 4.1.139 इति ख-प्रत्ययः] → कुल + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति खकारस्य ईन्-आदेशः] → कुल् + ईन [ईकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → कुलीन 4) छकारस्य ईय्-आदेशः शाला + छ <<वृद्धात् छः>> 4.2.114 इत्यनेन वृद्ध-संज्ञकात् भिन्नेषु अर्थेषु छ-प्रत्ययः ।] → शाला + ईय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति छकारस्य ईय्-आदेशः] → शाल् + ईय [ईकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य आकारस्य लोपः] → शालीय 5) घकारस्य इय्-आदेशः क्षत्र + घ <<क्षत्राद् घः>> 4.1.138 इत्यनेन <<तस्यापत्यम्>> 4.1.92 अस्मिन् अर्थे क्षत्र-शब्दात् घ-प्रत्ययः।] → क्षत्र + इय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति घकारस्य इय्-आदेशः] → क्षत् र् इय [इकारे परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः <<यस्येति च>> 6.4.148 इति अङ्गस्य अकारस्य लोपः] → क्षत्रिय ज्ञातव्यम् - 1. प्रत्यययोः विद्यमानयोः ढकार/छकारयोः <<चुटू>> 1.3.7 इत्यनेन एतयोः इत्संज्ञा न भवति, अपितु वर्तमानसूत्रेण तयोः आदेशः विधीयते । 2. खकारघकारयोः अस्य सूत्रस्य विषये प्राप्तानि उदाहरणानि तद्धितप्रकरणे एव दृश्यन्ते । तत्र <<लशक्वतद्धिते>> 1.3.8 इत्यस्य प्रसक्तिः नैव विद्यते, अतः एतयोः इत्संज्ञा नैव भवितुमर्हति। कृत्-प्रत्ययेषु विद्यमानौ खकारघकारौ तु <<लशक्वतद्धिते>> 1.3.8 इत्यनेन इत्संज्ञकौ स्तः, अतः तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ख, खश्, घिनुण् एतेषु प्रत्ययेषु वर्तमानसूत्रेण आदेशः न क्रियते ।
<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> - आयनेयीनीयियः । आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्ख्यपरिभाषया क्रमेणान्वयः । तदाह — प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः । यद्यपीहटाङ्ङीपो॑रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह — तद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह — वक्ष्यमाणो ङीषिति ।षिद्गौरादिभ्यश्चे॑त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह — षित्त्वसामथ्र्यादिति । ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः । गाग्र्यायणीति । गर्गस्यापत्यं स्त्रीति विग्रहः । गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः,यस्येति चे॑ति यकारादकारस्य लोपः,हलस्तद्धितस्ये॑ति तु न भवति, ईतीत्यनुवृत्तेः ।आपत्यस्य चे॑त्यपि न, अनातीति निषेधात् । षित्त्वान्ङीष् । णत्वमिति भावः ।
एफकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखच्छघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्तते । आढ।ल्कुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति । फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्यौदातत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् । एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्बहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः , एवृद्धच्छः इत्यादौ तत्राद्यौदातत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्यौदातत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदातत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात आदेशे कृतेऽन्तोदातत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्च्छङ् इत्येष ब्रूयात् । न च च्छङ् सिति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति । अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुअं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि च्छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति । इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्च्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ॥