5-2-37 प्रमाणे द्वयसज्दघ्नञ्मात्रचः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
'तत् अस्य' (इति) प्रमाणे द्वयसच्-दघ्नच्-मात्रचः
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
'प्रमाणम्' इत्यस्मिन् अर्थे प्रयुज्यमानात् प्रथमासमर्थात् 'अस्य' इत्यस्मिन् अर्थे 'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययाः भवन्ति ।
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
तदस्य इत्यनुवर्तते। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रचित्येते प्रत्यया भवन्ति यत् तत् प्रथमासमर्थं प्रमाणं चेत् तद् भवति। ऊरुः प्रमाणमस्य ऊरुद्वयसम्, ऊरुदघ्नम्, ऊरुमात्रम्। जानुद्वयसम्। जानुदघ्नम्। जानुमात्रम्। प्रथमश्च द्वितियश्च ऊर्ध्वमाने मतौ मम। ऊरुद्वयसमुदकम्। ऊरुदघ्नमुदकम्। मात्रच् पुनरविशेषेण, प्रस्थमात्रम् इत्यपि भवति। प्रमाणे लो वक्तव्यः। प्रमाणशब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग् भवति। शमः प्रमाणमस्य शमः। दिष्टिः। वितस्तिः। द्विगोर्नित्यम्। द्वौ शमौ प्रमाणमस्य द्विशमः। त्रिशमः। द्विवितस्तिः। नित्यग्रहणं किम्? संशये श्राविणं वक्ष्यति, तत्र अपि द्विगोर्लुगेव यथा स्यात्। द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः। डिट् स्तोमे वक्तव्यः। पञ्चदशः स्तोमः। पञ्चदशी रात्रिः। टित्त्वाद् ङीप्। शन्शतोर्डिनिर्वक्तव्यः। पञ्चदशिनोऽर्धमासाः, त्रिंशिनो मासाः। विंशतेश्चेति वक्तव्यम्। विंशिनोऽङ्गिरसः। प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्च अपि संशये मात्रच् वक्तव्यः। शममात्रम्। दिष्टिमात्रम्। प्रस्थमात्रम्। कुडवमात्रम्। पञ्चमात्रम्। दशमात्रा गावः। वत्वन्तात् स्वार्थे द्वयसज्मात्रचौ बहुलम्। तावदेव तावद्द्वयसम्, तावन्मात्रम्। एतावद्द्वयसम्, एतावन्मात्रम्। यावद्द्वयसम्, यावन्मात्रम्।
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
तदस्येत्यनुवर्तते । उरू प्रमाणमस्य ऊरूद्वयसम् । ऊरूदघ्नम् । ऊरुमात्रम् । प्रामाणे लः ॥ शमः । दिष्टिः । वितस्तिः ।<!द्विगोर्नित्यम् !> (वार्तिकम्) ॥ द्वौ शमौ प्रमाणमस्य द्विशमम् ।<!प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः !> (वार्तिकम्) ॥ शममात्रम् । प्रस्थमात्रम् । पञ्चमात्रम् ।<!वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् !> (वार्तिकम्) ॥ तावदेव तावद्द्वयसम् ॥ तावन्मात्रम् ॥
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
तदस्येत्यनुवर्तते। ऊरू प्रमाणमस्य - ऊरुद्वयसम्। ऊरुदघ्नम्। ऊरुमात्रम्॥
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
यदि कश्चन शब्दः 'प्रमाणम्' (measure) इत्यस्मिन् सन्दर्भे प्रयुज्यते, तर्हि तस्मात् शब्दात् 'अस्य' इत्यस्मिन् अर्थे द्वयसच्, दघ्नच्, मात्रच् - एते त्रयः प्रत्ययाः भवन्ति । उदाहरणद्वयम् पश्यामश्चेत् स्पष्टं स्यात् -
'द्वयसच्', 'दघ्नच्' तथा 'मात्रच्' प्रत्ययान्तशब्दाः स्त्रीत्वे विवक्षिते टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययं प्राप्नुवन्ति । यथा - उरु (chest) प्रमाणमस्याः राश्याः (This heap reaches the chest) सा उरुद्वयसी उरुदघ्नी उरुमात्री वा राशिः ।
एतेषाम् त्रयाणाम् प्रत्ययानाम् विषये भाष्यकारः वदति - 'प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम' । इत्युक्ते, 'द्वयसच्' तथा 'दघ्नच्' एतयोः प्रत्यययोः निर्मिताः शब्दाः 'ऊर्ध्वमानम्' प्रमाणम् (Vertical measure of an object - E.g. height or depth) निर्देशयन्ति । 'मात्रच्' प्रत्ययान्तशब्दानां प्रयोगः तु भिन्नेषु मानेषु (depth / height / width / breadth / span etc) अपि भवितुमर्हति ।
विशेषः -
अस्य सूत्रस्य विषये कानिचन वार्त्तिकानि ज्ञेयानि -
विशेषः -
अ) अनेन वार्त्तिकेन केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, यतः एतेभ्यः शब्देभ्यः केवलम् मात्रच्-प्रत्ययः एव भवितुमर्हति, अन्यौ द्वौ प्रत्ययौ न । एतस्य ज्ञानम् व्याख्यानादेव जायते ।
आ) 'केभ्यः शब्देभ्यः विहितस्य मात्रच्-प्रत्ययस्य लुक् भवति' एतत् अस्मिन् सूत्रे विस्तारेण न उच्यते । केवलम् 'प्रमाणवाचकेभ्यः शब्देभ्यः विहितस्य प्रत्ययस्य लोपः भवति' इति अत्र निर्देशः कृतः अस्ति । The words that are commonly referred as 'प्रमाण' are being considered here । अतः व्याख्यानं दृष्ट्वैव अस्य वार्त्तिकस्य प्रयोगः कर्तव्यः ।
विशेषः -
अ) अनेन वार्त्तिकेन अपि केवलम् मात्रच्-प्रत्ययस्यैव लुक् उच्यते, द्वयसच्-प्रत्ययस्य उत दघ्नच्-प्रत्ययस्य न ।
आ) पूर्ववार्त्तिकेन उक्तः लुक् द्विगुसमासस्य विषये 'तदन्तस्य' अपि स्यात् एतत् स्पष्टीकर्तुम् इदम् वार्त्तिकम् कृतमस्ति । अस्मिन् वार्त्तिके अपि पूर्ववार्त्तिकवत् प्रसिद्ध-प्रमाणानामेव ग्रहणं भवति ।
इ) अस्मिन् वार्त्तिके केवलम् 'द्विगोः लः' इति उच्यते चेदपि वरम् स्यात् । अस्यां स्थितौ वार्त्तिककारः 'नित्यम्' इति वदति । अत्र नित्यग्रहणेन वार्त्तिककारः एतत् स्पष्टीकरोति, यत् द्विगुसमासस्य विषये केवलम् वर्तमानसूत्रेण प्रयुक्तस्य मात्रच्-प्रत्ययस्यैव लुक् भवतीति न, अपि तु अग्रिमवार्त्तिकेन (<!प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः !> इत्यनेन) भिन्ने अर्थे उक्तस्य मात्रच्-प्रत्ययस्य अपि लुक् भवति, इति । अस्य उदाहरणमग्रिमवार्त्तिके दत्तमस्ति ।
विशेषः - <!द्विगोर्नित्यम्!> इति पूर्वस्मिन् वार्त्तिके नित्यग्रहणेन एतत् स्पष्टीभवति यत् अत्र निर्दिष्टस्य 'मात्रच्' प्रत्ययस्य अपि द्विगुसमासस्य विषये लुक् स्यात् । यथा - द्वौ शमौ प्रमाणमस्य स्यात् वा = द्विशमम् ।
विशेषः - अस्य वार्त्तिकस्य उदाहरणार्थम् काशिकाकारः वदति - 'पञ्चदशी रात्रिः' । अस्मिन् वाक्ये 'रात्रि' अयम् शब्दः 'रात्रौ जायमानः स्तोमः' इत्यस्य निर्देशार्थम् प्रयुज्यते । 'रात्रि' अयम् स्त्रीलिङ्गवाची शब्दः अस्ति अतः 'पञ्चदश' शब्दस्यापि स्त्रीत्वं विवक्षते । अस्यां स्थितौ प्रत्ययस्य टित्वात् प्रक्रियायाम् 'ङीप्' प्रत्ययविधानम् भवति, अतः 'पञ्चदशी' इति प्रयोगः सिद्ध्यति ।
<!शन्शतोर्डिनिर्वक्तव्यः!> - 'शन्' तथा 'शत्' ययोः अन्ते विद्यते, तौ प्रमाणवाचिनौ शब्दौ 'अस्य' इत्यस्मिन् अर्थे 'डिनि' प्रत्ययं स्वीकुरुतः । यथा - पञ्चदश प्रमाणमस्य सः पञ्चदशी अर्धमासः (पञ्चदशन् + डिनि → पञ्चदशिन् ) । त्रिंशत् प्रमाणमस्य सः त्रिंशी मासः (त्रिंशत् + डिनि → त्रिंशी) ।
<!विंशतेश्चेति वक्तव्यम्!> - प्रमाणवाचिनः 'विंशति' शब्दात् 'अस्य' अस्मिन् अर्थे 'डिनि' प्रत्ययः भवति । प्रक्रिया इयम् -
विंशति + डिनि
→ विंशत् + इन् [डित्वात् टेः 6.4.143 इति टिलोपः]
→ विंशतिन्
यथा - विंशतिः प्रमाणम् एषाम् ते विंशिनः अङ्गिरसः । (अङ्गिरसामाहत्य 20 भेदाः सन्तीति अत्र सन्दर्भः अस्ति ।)
विशेषः - <!विंशतेश्चेति वक्तव्यम्!> इति वार्त्तिकम् भाष्यकारेण उक्तमस्ति, न हि वार्त्तिककारेण ।
विशेषः - 'बहुलम्' इत्युक्ते 'कुत्रचित् भवति, कुत्रचित् न भवति' इति । The word बहुलम् is used to indicate the lack of a common rule / pattern. And hence, the decision should be taken only by looking at the प्रयोगः) ।
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
प्रमाणे द्वयसज्दघ्नञ्मात्रचः - प्रमाणे । अनुवर्तत इति । ततश्च अस्य प्रमेयस्य तत्प्रमाणमित्यर्थे प्रमाणे विद्यमानात्प्रथमान्ताद्द्वयसच्, दघ्नच्, मात्रच् एते प्रत्ययाः स्युः । प्रमाणवानिदमर्थोऽत्र प्रत्ययार्थ इति भाष्ये स्पष्टम् । तत्रप्रथमश्च द्वितीयश्च ऊध्र्वमाने मतौ ममे॑ति भाष्ये उक्तम् । प्रमाणमिह परिच्छेदकमात्रम्, तत्र मात्रच् । प्रस्थमात्रमूरुमात्रमित्यादि इति कैयटः ष । वस्तुतस्तु 'यत्तदेतेभ्यः' इति सूत्रभाष्यस्वरसादायामपरिच्छेदकमेवात्र प्रमाणमिति शब्देन्दुशेखरे विस्तरः । प्रमाणे ल इति । लुको 'ल' इति पूर्वाचार्यशास्त्रसिद्धा संज्ञा । प्रमाणे वर्तमानाद्विहितस्य द्वयसजादेर्लुग्वक्तव्य इत्यर्थः । शमो दिष्टिर्वितस्तिरिति । रामः प्रमाणमस्येत्यादिविग्रहः । शमादयोऽनूद्र्धमानविशेषाः, तेभ्यो मात्रचो लुक्, इतरयोरसंभवात् । अत्रआयामस्तु प्रमाणं स्यादि॑त्येव गृह्रते । एवंच ऊरुद्वयसमित्यादौ न लुक् । द्विगोर्नित्यमिति । प्रमाणान्ताद्द्विगोः परस्य द्वयसजादेर्नित्यं लुक् स्यादित्यर्थः । प्माणान्तस्य द्विगोः प्रमाणाऽवृत्तित्वात्सामर्थ्यादिह तदन्तविधिः । पूर्ववार्तिकेन तु नात्र प्राप्तिरस्ति, द्विगोः प्रमाणत्वाऽभावात् । द्विशममिति । तद्धितार्थे द्विगुः । ततो मात्रचोऽनेन लुक् । विकल्पस्याऽप्रकृतत्वादेव सिद्धे नित्यग्रहणं संशये वक्ष्यमाणस्य मात्रचो लुगर्थम् । अन्यथा शममात्रमित्यत्रेव द्विशमशब्दादपि स मात्रच न लुप्येतेति भाष्ये स्पष्टम् । प्रमाणेति । प्रमाणवाचिनः परिमाणवाचिनः सङ्ख्यावाचिनश्य संशये मात्रज्वक्तव्य इत्यर्थः । अत्र प्रमाणमायाम एव गृह्रते,आयामस्तु प्रमाणं स्यादि॑ति वचनात् । अत एव परिमाणग्रहणमर्थवत् । शममात्रमित्यादि । शमः स्यान्न वेत्यादिर्गविग्रहः ।वत्वन्तादिति । वार्तिकमिदम् । पुरुषहस्तिभ्यामण् च । 'उक्तविषये' इति शेषः । चाद्द्वयसजादयस्त्रयः ।
index: 5.2.37 sutra: प्रमाणे द्वयसज्दघ्नञ्मात्रचः
यतत्प्रथमासमर्थं प्रमाणं चेतद्भवतीति। अनेन प्रकृत्यर्थविशेषणत्वं प्रमाणस्य दर्शयति। यदि तु प्रत्ययार्थविशेषणं स्यात् - यतदस्येति निर्द्दिष्ट प्रमाणंचेतद्भवतीति; तदा प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयं प्रकृत्यर्थः स्यात् यथा प्रकृत्यर्थविशेषणत्वे प्रमेयं प्रत्यथार्थः, ततश्चेह प्राप्नोति - उदकं प्रमेयमस्योरोरिति, एतच्चायुक्तम्; अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन विशेषणस्यान्याय्यत्वात्, प्रमेयस्य तु नियतप्रमाणत्वप्रतिपादनायोरुमात्रादयः शब्दाः प्रयुज्यन्ते। प्रथमश्च द्वितीयश्चेति। उर्ध्वावस्तितेन येन मीयते तदूर्ध्वमानम्, उर्वादि। तत्र केचिदाहुः - ठायाममामनमेव प्रमाणं सूत्रे गृह्यते, तिर्यङ्मानमेव चायाममानम्, ततश्चोर्ध्वमानेऽप्रप्तौ द्वयसज्जघ्नचौ प्रमाणादपकृष्येह विधीयेतेऽ इति। अपर आह - ठूर्ध्वावस्तितेनापि येनायामः परिच्छिद्यते तदप्यायाममानत्वात् प्रमाणमिति सूत्रे गृह्यते। वचनं तूर्ध्वमान एव यथा स्यातां तिर्यङ्माने मा भूतामिति नियमार्थम्ऽ इति। अन्यस्त्वाह -'परिच्चेदकमात्रं प्रमाणमिहर गृह्यते' इति; तत्रापि नियमार्थमेतत्। मात्रं प्रमाणम्, ततो न्यायप्राप्तानुवादोऽयम्। प्रस्थामात्रमित्यपीति। अपि शब्दादूरुमात्रमित्यपि भवति। प्रमाणे ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणमिति ये प्रसिद्धा इति।'प्रबाणशब्दा एते' इति ये प्रसिद्धाः - दिष्टिवितस्त्यादय इत्यर्थः शमः, दिष्टिः, वितस्तिरिति। अत्र मात्रयो लुग्; इतरयोरसम्भवात्। शमादीनामनूर्ध्वमानत्वाद्। द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वातदन्तविध्यबावाच्च पूर्वेणाप्राप्तो लुग्विधीयते। नित्यग्रहणं किमिति। नात्र विकल्पः प्रकृत इति प्रश्नः। संशये श्रीविणं वक्ष्यतीति। श्रवणं श्रावः,'कृयल्युटो वहुलम्' , इति घञ्, सोऽस्यास्तीति श्रावी,'प्रमाणपरिमाणाभ्यां सङ्खयायाश्चापि संशये' इति वक्ष्यमाणस्य मात्रचः'प्रमाणे लः' इत्यनेन लुग्न भवति, परत्वाद्; अतोऽमौ श्रावी। अस्य द्विगावपि श्रवणे प्राप्ते लुग्विदीयत इत्यर्थः। द्वौ शमौ प्रमाणमस्य द्विशमः। कथं पुनरव संशये मात्रच उत्पत्तिः ? तदन्तविधैना। एतदेव लुग्वचनं ज्ञापकम्-अस्त्यत्र तदन्तविधिरिति। प्रकारणादिवशादस्य निश्चयसंसयविपयता प्रयोगस्यावसेया। स्तोमे डड्वक्तव्य इति। अत्रायाममानस्यासम्भवात्परिच्छेदोपाधिकायाः सङ्ख्यायाः स्तोमेऽभिधेये डट्प्रत्ययः। डित्करणमेकविंश इत्यत्र ति शब्दस्य लोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदसादौ'नस्तद्धिते' इत्येव सिद्धम् - पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः, सप्तदशी रात्रिरिति। स्तोमसाहचर्याद्रात्र्यादौ स्त्रियां वृत्तिः, टित्वान्ङीप्'तदस्य परिमाणम्' 'सङ्ख्यायाः संज्ञा' इत्यत्र तु स्तेमे डो विहितः, तत्र टाब् भवति यद्यस्ति प्रयोगः, अथ तु नस्ति ततोऽस्यैव स प्रपञ्चः। शन्सतोर्हिनिर्वक्तव्य इति। एवं च च्छन्दसि च भाषायां च डिर्नेर्विधानात्'सङ्ख्यायाः संज्ञासङ्घ' इत्यत्र'शन्शतोर्डिनिश्च्छन्दसि' इति वचनं प्रपञ्चार्थमेव। विशिनोऽङ्गिरस इति। प्रवरभेदेन विंशतिर्भेदा उच्यन्ते, तत्र विंशतिशब्दात्सङ्खयानमात्रवाचिनः संख्येये प्रमेये डिनिः,'ति विंशतेर्डिति' इति लोपः, यस्येतिलोपश्च। प्रमाणपरिमाणाभ्यामिति। रूढिशब्दावेतौ; भेदेनोपादानात्। शममात्रमिति। शमः प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच्। पञ्चमात्रा इति। पञ्च स्युर्न वेति संशय्यमानार्थवाचिनः षष्ठ।ल्र्थे प्रत्ययः। पञ्चत्वसङ्ख्या प्रमाणमेषां स्याद्वा न वेति पञ्चमात्राः। तावदेविति। तत्परिमाणमस्य धान्यादिस्तावत्, ततः स्वार्थे ??????। उतरसूत्रे तु'भावः सिद्धश्च डावतोः' इत्यर्थान्तरे वक्ष्यते ॥