आद्युदात्तश्च

3-1-3 आद्युदात्तः च प्रत्ययः परः च

Sampurna sutra

Up

index: 3.1.3 sutra: आद्युदात्तश्च


प्रत्ययः आद्युदात्तश्च

Neelesh Sanskrit Brief

Up

index: 3.1.3 sutra: आद्युदात्तश्च


अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते आद्युदात्ताः स्युः ।

Neelesh English Brief

Up

index: 3.1.3 sutra: आद्युदात्तश्च


The first स्वर of all the प्रत्ययाः mentioned in this अधिकार becomes उदात्त.

Kashika

Up

index: 3.1.3 sutra: आद्युदात्तश्च


अयमपि अधिकारः परिभाषा वा। आद्युदात्तः च स भवति यः प्रत्ययसंज्ञः। अनियतस्वरप्रत्ययप्रसङ्गे, अनेकेषु च प्रत्ययेषु, देशस्य अनियमे सति, वचनम् इदमादेः उदात्तार्थम्। कर्तव्यम्। तैत्तिरीयम्।

Siddhanta Kaumudi

Up

index: 3.1.3 sutra: आद्युदात्तश्च


प्रत्ययः आद्युदात्तः एव स्यात् । अग्निः । कर्तव्यम् ।

Neelesh Sanskrit Detailed

Up

index: 3.1.3 sutra: आद्युदात्तश्च


अस्य अधिकारस्य व्याप्तिः अपि प्रत्ययः 3.1.1 तथा परश्च 3.1.2 अधिकारवत् त्रिषु अध्यायेषु वर्तते । सर्वेषु प्रत्ययेषु आदिस्वरः अनेन सूत्रेण उदात्तसंज्ञकः भवति ।

किम् नाम 'उदात्त'? उच्चैरुदात्तः 1.2.29 अनेन सूत्रेण उदात्तसंज्ञा दीयते । यस्य स्वरस्य उच्चारणं तस्य उच्चारणस्थानस्य ऊर्ध्वभागात् जायते, सः स्वरः उदात्तसंज्ञकः भवति ।

यथा - तुमुन् इत्यत्र तकारात् परः यः उकारः, तस्य अनेन सूत्रेण उदात्तसंज्ञा भवति ।

ज्ञातव्यम् -

  1. 'उदात्तत्वम्' केवलं स्वराणाम् भवितुं शक्यते, व्यञ्जनानाम् न । अतः अनेन सूत्रेण प्रत्ययेषु यः प्रथमः स्वरः, तस्य उदात्तसंज्ञा भवति ।

  2. अनेन सूत्रेण प्रत्ययस्य आदिस्वरस्य उदात्तसंज्ञा भवति, प्रत्ययान्तशब्दस्य आदिस्वरस्य न ।

Padamanjari

Up

index: 3.1.3 sutra: आद्युदात्तश्च


आद्युदातश्च॥ उहास्वरकस्याच उच्चारणासम्भवात्सर्व एव स्वरविधिर्नियमार्थः, तत्र'चितः' एवान्त उदातः, रित्येव मध्य उदातः, तिदेव स्वरितः, सुप्पितावेवानुदातो, दूरात्सम्बुद्धावेवैकश्रुत्यमति। स्वरान्तराणामन्यत्र नियमात् पारिशेष्यादाद्यौदात एव प्रत्ययो भविष्यति, नास्वरकः नाप्यन्यस्वरकः, तत्राह - अनियतस्वरप्रत्ययप्रसङ्ग इति। अनियतः स्वरो यस्य सोऽनियतस्वरः, स चासौ प्रत्ययश्चानियतस्वरप्रत्ययः तस्य प्रसङ्गे प्रत्ययोऽनियतस्वरो मा भूदित्येवमर्थमित्यर्थः। अनियतस्वरप्रसङ्ग इति पाठे त्वनियतस्य स्वरस्य प्रसङ्ग इत्यर्थः। अयमभिप्रायः - आद्यौदातत्वमपि'ञ्नित्यादिर्नित्यम्' इत्यादौ नियतत्वान्न स्याद्, अन्यत्रानियमः स्यादेव यत्रायं नियमो नास्ति। किञ्च त्वदुक्ते नियमे चिदातीनामनियमः स्याद्। अतश्चितोऽन्त एव, तित्स्वरित एवेत्यादिकं तत्र तत्र नियमस्वरूपमाश्रणीयम्, ततश्च प्रत्ययस्यानियतस्वरत्वमेव स्यात्। किञ्च, रित्येवोपोतमनुदातमित्यपि नियमेऽन्यत्रोपोतमनुदातं मा भूद्। मध्यान्तरं तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। तस्माद्ये एकाचः प्रत्ययास्तेष्वनियतस्वरप्रसङ्गे वचनमिदमुदातार्थम्। ये पुनरनेकाचः प्रत्ययास्तेषु देशस्याप्यनियमः प्राप्नोतिकदाचिदादेः, कदाचिन्मध्यस्य, कदाचिदन्त्यस्येति। तेषु वचनमिदमुदातार्थम्, तत्राप्यदेरुदातार्थमिति। किमर्थ पुनः प्रत्ययसंज्ञासन्नियोगेनायं स्वर उच्यते, न'ञ्नित्यादिर्नित्यम्' प्रत्ययस्य च लसार्वधातुकमनुदातं सुप्पितौ चेति स्वरप्रकरण एवोच्येत, एवं हि प्रकरणमभिन्नं भवति? किञ्च, द्विराद्यौदातग्रहणं द्विश्चाद्यौदातग्रहणं न कर्तव्यं भवति? स्यादेतत् - तत्र क्रियमाणे प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः प्राप्नोति, इह तु क्रियमाणे नायं दोषो भवेद्, उत्पन्नो हि प्रत्ययस्तदाश्रयाणां तदन्तविध्यादीनां निमितं भवति, न तूत्पद्यमानः, न खलूत्पद्यमानो घट उदकाहरणादीनां निमितमवकल्पते, ततश्च ठाद्यौदातश्चऽ इत्यस्य प्रतियोगमुपस्थाने सति उत्पद्यमान एव तव्यदादिराद्यौदातो भवति, एवं तिबादिरनुदात इति दोषाभावः, अतः प्रत्ययसंज्ञासन्नियोगेन चस्वरो विधीयत इति? तन्न; ज्ञापकात्सिद्धम्, यदयं ञ्नित्यादिरुदातो भवतीत्याह, तज् ज्ञापयति - प्रत्ययस्य चेत्यत्र न तदन्तविधिर्भवतीत्यनुदातत्वमपि तदन्तस्य न भविष्यति; धातोरन्त उदातो भवतीत्यादेः प्रकृतिस्वरस्य विधानसामर्थ्यात्। यत्र ह्यनुदातः प्रत्ययः - याति, वृक्षाभ्यामित्यादौ, तत्र प्रकृतिस्वरः श्रूयते; यातः, यान्ति, वृक्षत्वमित्यादौ सतिशिष्टेन प्रत्ययाद्यौदातत्वेन बाध्यते। यदि च प्रत्ययान्तस्यानुदातत्वं स्याद् निर्विषयं धातुप्रातिपदिकान्तोदातत्वं स्यात्। इदं तर्हि प्रयोजनम् - लवितव्यमित्यादौ प्रत्ययोत्पतिकाले एवाग्युदातत्वे कृते पश्चाद्भवन्निडनुदातो यथा स्यात्, अन्यथा लूअतव्य इति स्थिते आद्यौदातत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्य प्राप्नोति, उभयोरनित्ययोः परत्वादिटि कृते तस्य प्रत्ययग्रहणेन ग्रहणे सति इट एवाद्यौदातत्वं स्यात्? एतदपि ज्ञापकात्सिद्धम्, यदयम्'यासुट्परस्मैपदेषूदातो ङ्च्चि' इत्याह, तज्ज्ञापयति - आगमा अनुदाता इति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्सस्यात्। ननु पिदर्थमेतत्सस्यात्, अन्यथा चिनुयादित्यादौ पिद्भक्तो यासुङ्नुदातः स्यात्? यद्योतावत्प्रयोजनं स्याद्, यासुट् परस्मैपदेषु भवति, अपिच्च लिङ्भवतीति पित्वमेव प्रतिषेधेत्। अवश्यं चैतज्ज्ञापकमाश्रयणीयम्, अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्यौदातत्वविधावपि लविषीयेत्यादौ लावस्थायामनच्कत्वादसति स्वरे विशेषविहितत्वात्परत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययाद्यौदातत्वमित्यानुपूर्व्या सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदातः ठिटोऽत्ऽ इत्यकार उदातो भवति। कथं भवति, यावता सीयुटि कृतेऽकारस्य विच्छिन्नमादित्वम्? नैष दोषः; यासुट उदातवचनं ज्ञापकम् - प्रत्ययाद्यौदातत्वे कर्तव्ये आगमा अविद्यमानवद्भवन्तीति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्स्यात्। किञ्च, लवितव्यमित्यादौ पूर्वमाद्यौदातत्वे सत्यपि पश्चाद्भवन्निट् किमित्यनुदातो भवति शेषनिघातेन? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वातस्य। यस्मिन्पदे यस्यामवस्थायां यस्याच उदातः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। इह तर्हि स्त्रुघ्ने भवा स्त्रौघ्नी प्रत्ययसन्नियोगेनाण उदातत्वे सति ङीप उदातनिवृत्तिस्वरः सिद्धो भवति; अन्यथा स्त्रौघ्न ई इति स्थिते'प्रत्ययस्य च' इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्यभावान्न स्यात्, न वा बहिरङ्गलक्षणत्वात्। लोपो हि ङीप उत्पत्तिमपेक्षते, स्वरस्तु निरपेक्षः। अवश्यं चात्रान्तरङ्गत्वमेवाश्रयणीयम्, अन्यथा कंसेन क्रीता'कंसाट्टिठन्' टित इति ङीप्, कंस ठ ई इति स्थिते'ञ्नित्यादिः' इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपः स्यात्, ततश्च नित्स्वरे लोपेन बाधिते प्रत्ययसंज्ञासन्नियोगेन विधीयमानमाद्यौदातत्वमकारस्य स्थितमिति तस्य लोपे ङीप उदातनिवृत्तिस्वरः स्यात्। ननु च ठचश्चित्करणात्पूर्वमिकारदेशस्ततः प्रत्ययाद्यौदातत्वमिति नास्त्युदातलोपः। इह तर्हि उत्से जाता ठुत्सादिभ्योऽञ्ऽ,ङीप्, उत्स अ ई इति स्थिते ञित्स्वरं बाधित्वा परत्वाद्यस्येति लोपे पूर्वाक्तया नीत्या डीप उदातनिवृत्तिस्वरः स्यात्? नैष दोषः; नित्स्वरो हि प्रत्ययस्वरस्यापवादः, न चापवादविषय उत्सर्गोऽभिनिविशते, तत्र तावदत्र प्रत्ययाद्यौदातत्वं भवति, अपवादं ञ्नित्स्वरं प्रतीक्ष्यत इति कुत उदातलोपः! इह तर्हि अत्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, आयन्नादिषूपदेशिवचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः, ङीप् आत्रेय ई इति स्थिते तद्धितस्य कित इति स्वरं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्तिस्वर ईकारस्य न प्राप्नोति तस्मादान्तरङ्गत्वमेवाश्रयणीयम्। एवं च स्रौघ्नीत्यत्रापि अन्तरङ्गत्वादेव सिद्धमिष्टमिति नार्थ एतदर्थेन प्रत्ययसंज्ञासन्नियोगेनाद्यौदातवचनेन। इदं तर्हि प्रयोजनम् - गोपायाति धूपायति, उत्पत्तिसन्नियोगेनाद्यौदातत्वे पश्चात्'सनाद्यन्ता धातवः' इति धातुसंज्ञायां धातोरित्यन्तोदातत्वं भवति। यदि तु ञ्नित्यादिर्नित्यं प्रत्ययस्य चेत्युच्येत, परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। स्यादेतत्। अनुदातस्य तर्ह्यत्र प्रदेशे करणे किं प्रयोजनम्? स्यादेतत् - कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्व प्रत्यन्तवद्भावातित्स्वरितश्च प्राप्नोति, परं प्रत्यादिवद्भावात्पित्स्वरश्च, परत्वात्स्वरितो भवति। यदि तु लसार्वधातुकमनुदातं सुप्पितौ चेत्युच्येत परत्वादनुदात्वं स्यादिति? तन्न; तत्र हि टाबु त्पतेरपि प्रागेव स्वरितो भवति, सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरितत्वे कृते आन्तर्यतः स्वरितानुदातयोरेकादेशः स्वरितो भविष्यति। इदं तर्हि - आम्बष्ठ।ल यङ्श्चाप्येकादेशे कृते पित्स्वरश्च प्राप्नोति चित्स्वरश्च, परत्वाच्चित्स्वरो भवति, अन्यत्र क्रियमाणो पित्स्वरः स्यात्? अत्रापि चापश्चित्करणसामर्थ्यादेवच चित्स्वरो भविष्यति। सामान्यग्रहणाविघातार्थे हि चकारे टाप्प्रकरण एव यङ्ष्टापं विदधीत। एवं तर्हि तदेव तस्मिन्प्रयोजनं तदन्तविधिर्मा भूदिति। यदुक्त प्रकृतिस्वरस्य विधानसामर्थ्यादिति? तत्र आस्ते शेत इत्यादौ लसार्वधातुकमात्रस्यानुदातत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदातत्वमपि अग्निमान्, वायुमान्, अग्रीनामित्यादौ'ह्रस्वनुड्भ्यां मतुप्' 'नामन्यतरस्याम्' इति स्वरसिद्ध्यर्थ स्यात्, अत्र ह्यन्तोदातादिति वर्तत इत्यलमपि कर्कशेन क्षोदेन॥