षिद्गौरादिभ्यश्च
4-1-41 षिद्गौरादिभ्यः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
Sampurna sutra
Up
अनुपसर्जनात् षित्-गौरादिभ्यः स्त्रियाम् ङीष् प्रत्ययः परश्च
Neelesh Sanskrit Brief
Up
षित्-प्रातिपदिकेभ्यः, गौरादिगणस्य च शब्देभ्यः स्त्रीत्वं द्योतयितुम् ङीष् इति प्रत्ययः विधीयते ।
Kashika
Up
ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष् प्रत्ययो भवति। <<शिल्पिनि ष्वुन्>> ३.१.१४५ — नर्तकी। खनकी। रजकी। गौरादिभ्यः — गौरी। मत्सी॥ गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बिम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे (ग०सू० ४१)। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरण। अधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम् (ग०सू० ४२)। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे (ग०सू० ४३)। रेवती नक्षत्रे (ग०सू० ४४)। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने (ग०सू० ४५)। पिप्पल्यादयश्च (ग०सू० ४६)। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। <<मातामहपितामहयोर्मातरि षिच् च>> (महाभाष्य वा० ४.२.३६) इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम् — अनित्यः षिल्लक्षणो ङीषिति। तेन दंष्ट्रेत्युपपन्नं भवति॥
Siddhanta Kaumudi
Up
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥<!आमनडुहः स्त्रियां वा !> (वार्तिकम्) ॥ अनडुही ॥ अनड्वाही । (गणसूत्रम् -) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥
Laghu Siddhanta Kaumudi
Up
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनडुही । अनड्वाही । आकृतिगणोऽयम् ॥
Neelesh Sanskrit Detailed
Up
<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अन्यतमः ङीष् इति प्रत्ययः प्रकृतसूत्रेण पाठ्यते । येषु प्रातिपदिकेषु षकारः इत्संज्ञकः अस्ति तेभ्यः प्रातिपदिकेभ्यः, तथा च गौरादिगणे पाठितेभ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् 'ङीष्' इति प्रत्ययः विधीयते — इति अस्य सूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् —
1. षिद्भ्यः प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।
प्रातिपदिकेषु विद्यमानं षित्वं तेभ्यः विहितस्य प्रत्ययस्य आधारेण सम्भवति । अतः यानि प्रातिपदिकानि षित्-प्रत्ययस्य योजनेन सिद्ध्यन्ति, तेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति इति अस्य अंशस्य अर्थः । त्रीणि उदाहरणानि एतानि —
1. पथिन् इत्यस्मात् शब्दात् <<पथः ष्कन्>> 5.1.75 इति सूत्रेण ष्कन्-प्रत्यये कृते पथिक इति शब्दः सिद्ध्यति । एतादृशः प्राप्तः पथिक इति शब्दः षित्-प्रत्ययान्तः अस्ति अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते पथिकी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् —
पथिक + ङीष् [स्त्रीत्वं द्योतयितुम् <<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ पथिक् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ पथिकी
2. <<नृतीँ>> (गात्रविक्षेपे, <{4.10 }>) अस्माद् धातोः <<शिल्पिनि ष्वुन्>> 3.1.145 इति सूत्रेण ष्वुन्-प्रत्यये कृते नर्तक इति शब्दः सिद्ध्यति । प्रत्ययस्य षित्त्वात् नर्तक इति शब्दः अपि षित् स्वीक्रियते; अतः अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति । नर्तक + ङीष् → नर्तकी ।
3. <<वृङ्>> (सम्भक्तौ, <{9.45}>) अस्माद् धातोः <<जल्पभिक्षकुट्टलुण्टवृङः षाकन्>> 3.2.155 इति सूत्रेण षाकन्-प्रत्यये कृते वराक इति शब्दः सिद्ध्यति । अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्यये कृते वराक + ङीष् → वराकी इति रूपं सिद्ध्यति ।
2. गौरादिगणस्य प्रातिपदिकेभ्यः स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः विधीयते ।
गौरादिगणे पाठितेभ्यः शब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीष्-प्रत्ययः भवति ।
गौरादिगणः एतादृशः —
गौरादिगणः — गौर, मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य, शृङ्ग, पुट, द्रुण, द्रोण, हरिण, कण, पटर, उकण, आमलक, कुवल, बदर, बिम्ब, तर्कार, शर्कार, पुष्कर, शिखण्ड, सुषम, सलन्द, गडुज, सृपाट, सृगेठ, आढक, शष्कुल, सूर्म, सुब, सूर्य, पूष, मूष, घातक, सकलूक, सल्लक, मालक, मालत, साल्वक, वेतस, अतस, पृस, मह, मठ, छेद, आनन्द, श्वन्, तक्षन्, अनडुही, अनड्वाही, <<एषणः करणे>> (गणसूत्रम्), देह, काकादन, गवादन, तेजन, रजन, लवण, पान, मेध, गौतम, आयस्थूण, भौरि, भौलिकि, भौलिङ्गि, औद्गाहमानि, आलिङ्गि, आपिच्छिक, आरट, टोट, नट, नाट, मलाट, शातन, पातन, पावन, सवन, आस्तरन, अधिकरण, एत, अधिकार, आग्रहायणी, प्रत्यवरोहिणी, सेवन, <<सुमङ्गलात् संज्ञायाम्>> (गणसूत्रम्), सुन्दर, मण्डल, पिण्ड, विटक, कुर्द, गूर्द, पट, पाण्ट, लोफाण्ट, कन्दर, कन्दल, तरुण, तलुन, बृहत्, महत्, सौधर्म, <<रोहिणी नक्षत्रे>> (गणसूत्रम्), <<रेवती नक्षत्रे>> (गणसूत्रम्) विकल, निष्फल, पुष्कल, <<कटाच्छ्रोणिवचने>> (गणसूत्रम्), <<पिप्पल्यादयश्च>> (गणसूत्रम्), मातामह, पितामह । आकृतिगणोऽयम् । इति गौरादिगणः ।
गौरादिगणे निर्दिष्टः पिप्पल्यादिगणः अयम् — पिप्पली; हरीतकी; कोशातकी; शमी; करीरी; पृथिवी; क्रोष्ट्री ।
गौरादिगणे पाठितानां शब्दानां विषये अन्यैः सूत्रैः औत्सर्गिकरूपेण टाप्/ङीप्-प्रत्यये प्राप्ते; तद्बाधित्वा ङीष्-प्रत्ययः एव इष्यते; अतः तेषाम् ग्रहणम् अस्मिन् गणे कृतम् अस्ति । कानिचन विशिष्टानि उदाहरणानि एतानि —
1. गौर इति शब्दः यद्यपि वर्णवाचकः अस्ति तथापि अस्य अन्तिमः अकारः उदात्तः अस्ति; अतः अस्मात् <<अन्यतो ङीष्>> 4.1.40 इत्यनेन ङीष्-प्रत्ययः नैव भवति । अतः अस्मात् ङीष्-प्रत्ययविधानार्थम् अस्मिन् गणे तस्य समावेशः क्रियते । प्रक्रिया इयम् —
गौर + ङीष् [<<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ गौर् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]
→ गौरी
2. मत्स्य, मनुष्य, हय, गवय, मुकय, ऋष्य एते सर्वे जातिवाचकशब्दाः सन्ति; परन्तु एते सर्वे यकारोपधाः शब्दाः अपि सन्ति; अतः एतेभ्यः <<जातेरस्त्रीविषयादयोपधात्>> 4.1.63 इति सूत्रं नैव प्रसज्यते; अतः एतेभ्यः तेन सूत्रेण ङीष्-प्रत्ययः न सम्भवति । एतेभ्यः अपि ङीष्-प्रत्ययः अवश्यम् इष्यते; अतः एतेषाम् गौरादिगणे समावेशः कृतः अस्ति । वस्तुतस्तु, <<जातेरस्त्रीविषयादयोपधात्>> 4.1.63 इति सूत्रे एव <!योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणामप्रतिषेधः!> इति वार्त्तिकं पाठ्यते, येन हय-गवयादीनां विषये ङीष्-प्रत्ययः अवश्यं भवति । अस्यैव वार्त्तिकस्य पुनर्निर्देशार्थम् गौरादिगणे एते शब्दाः पाठिताः सन्ति । एतेषाम् ङीष्-प्रत्यये परे रूपाणि इत्थं सिद्ध्यन्ति —
(i) मत्स्य + ङीष् → मत्सी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः तथा च <<सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः>> 6.4.149 इत्यत्र पाठितेन <!मत्स्यस्य ङ्याम्!> इति वार्त्तिकेन यकारस्य लोपः भवति ।
(ii) मनुष्य + ङीष् → मनुषी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः तथा च <<हलस्तद्धितस्य>> 6.4.150 इति यकारस्य लोपः भवति ।
(iii) हय + ङीष् → हयी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः भवति ।
(iv) गवय + ङीष् → गवयी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः भवति ।
(v) मुकय + ङीष् → मुकयी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः भवति ।
(vi) ऋष्य + ङीष् → ऋषी । प्रक्रियायाम् <<यस्येति च>> 6.4.148 इति अकारलोपः तथा च <<हलस्तद्धितस्य>> 6.4.150 इति यकारस्य लोपः भवति ।
3. श्वन्, तक्षन् एताभ्याम् <<ऋन्नेभ्यो ङीप्>> 4.1.5 इत्यनेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः गौरादिगणे ग्रहणं कृतम् अस्ति । प्रकिये एतादृश्यौ —
श्वन् + ङीष् [<<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ शून् + ई [<<श्वयुवमघोनामतद्धिते>> 6.4.133 इति सम्प्रसारणम् । <<सम्प्रसारणाच्च>> [[6.1.108] इति पूर्वरूपम् ]
→ शूनी
तक्षन् + ङीष् [<<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ तक्ष् न् + ई [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः]
→ तक्ष्णी [<<रषाभ्यां नो णः समानपदे>> 8.4.1 इति णत्वम्]
4. अनडुह् इति शब्दः अदन्तः नास्ति अतः अस्मात् शब्दात् स्त्रीप्रत्ययप्रकरणस्य अन्यैः सूत्रैः कोऽपि स्त्रीप्रत्ययः नैव विधीयते । अस्यां स्थितौ, अस्मात् शब्दात् ङीष्-प्रत्ययविधानार्थम्, तदनुषङ्गेन च अस्य शब्दस्य वैकल्पिक-आम्-आगम-विधानार्थम् अस्मात् शब्दात् ङीष्-प्रत्यययोजनं कृत्वा एव अनडुही, अनड्वाही इत्थम् अस्य गौरादिगणे ग्रहणं कृतम् अस्ति । प्रक्रिया एतादृशी —
अनडुह् + ङीष् [<<षिद्गौरादिभ्यश्च>> 4.1.41 इति ङीष्]
→ अनडुह् / अनडु आम् ह् + ङीष् [<<चतुरनडुहोरामुदात्तः>> 7.1.98 इत्यस्मिन् सूत्रे पाठितेन <!आमनडुहः स्त्रियां वेति वक्तव्यम्!> इति वार्त्तिकेन, अथ वा गौरादिगणे पाठसामर्थ्यात् अत्र आम् इति आगमः विधीयते । अस्य आगमस्य मकारः इत्संज्ञकः अस्ति; अतः <<मिदचोऽन्त्यात्परः>> 1.1.47 इत्यनेन अयम् आगमः अन्त्यात् अचः परः विधीयते ।]
→ अनडुही / अनड्वाही [<<इको यणचि>> 6.1.77 इति यणादेशः]
अनयोः ङीष्-प्रत्ययान्तशब्दयोः अस्मिन् गणे कृतम् ग्रहणम् पुंवद्भावप्रतिषेधार्थम् अपि अस्ति इति न्यासकारेण अत्र स्पष्टीकृतं वर्तते । अतएव, अनडुही भार्या यस्य सः = अनडुहीभार्यः तथा च अनड्वाही भार्या यस्य सः = अनड्वाहीभार्यः इत्यत्र <<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> 6.3.34 इत्यनेन प्राप्तः पुंवद्भावः नैव भवति ।
5. << एषणः करणे >> (गणसूत्रम्) — इष्-धातोः, एष्-धातोः च <<करणाधिकरणयोश्च>> 3.3.117 इत्यनेन करणे, अधिकरणे च ल्युट्-प्रत्यये कृते एषण इति शब्दः सिद्ध्यति । अस्मात् शब्दात् स्त्रीत्वं द्योतयितुम् <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्-प्रत्ययः प्राप्नोति । अस्यां स्थितौ, यदि ल्युट्-प्रत्ययः करणकारकस्य निर्देशार्थम् विहितः अस्ति, तर्हि ङीप्-प्रत्ययं बाधित्वा ङीष्-प्रत्ययः इष्यते; तदर्थं च इदं गणसूत्रम् निर्मितम् अस्ति । अतः करणकारके एषण + ङीष् → एषणी इति शब्दः सिद्ध्यति । अधिकरणकारके तु एषण + ङीप् → एषणी इत्येव रूपं भवति । उभयत्र यद्यपि रूपं समानमेव दृश्यते; तर्ह्यपि तयोः उच्चारणे भेदः वर्तते । ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः ज्ञेयः ।
6. गौतम इति शब्दः <<शार्ङ्गरवाद्यञो ङीन्>> 4.1.73 इत्यत्र पाठिते शार्ङ्गरवादिगणे विद्यते । अस्मात् शब्दात् <<शार्ङ्गरवाद्यञो ङीन्>> 4.1.73 इत्यनेन ङीन्-प्रत्यये नित्यं प्राप्ते; सः केवलं विकल्पेन एव इष्यते; पक्षे ङीष्-प्रत्ययः अपि इष्यते । अतएव अयं शब्दः गौरादिगणे अपि स्वीकृतः अस्ति । गौतम + ङीष् → गौतमी ।
7. <<सुमङ्गलात् संज्ञायाम्>> (गणसूत्रम्) — सुमङ्गल-शब्दात् स्त्रीत्वं द्योतयितुम् संज्ञानिर्देशार्थम् ङीष्-प्रत्ययः भवति, येन सुमङ्गली इति शब्दः सिद्ध्यति । संज्ञानिर्देशार्थम् एव <<केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च>> 4.1.30 इत्यनेन ङीप्-प्रत्ययः अपि विधीयते । भाषायां तु टाप् प्रत्ययः एव भवति ।
8. तरुण, तलुन आभ्यां शब्दाभ्याम् <<वयसि प्रथमे>> 4.1.20 इत्यत्र निर्दिष्टेन <!वयसि अचरमे इति वक्तव्यम्!> इति वार्त्तिकेन ङीप्-प्रत्यये प्राप्ते तद्बाधित्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् सूत्रे ग्रहणं क्रियते । तरुण + ङीष् → तरुणी । तलुन + ङीष् → तलुनी ।
9. बृहत्, महत् एताभ्याम् <<उगितश्च>> 4.1.6 इत्यनेन प्राप्तस्य ङीप्-प्रत्ययस्य निषेधं कृत्वा ङीष्-प्रत्ययविधानार्थम् एतयोः अस्मिन् गणे ग्रहणं क्रियते । बृहत् + ङीष् → बृहती । महत् + ङीष् → महती ।
10. <<रोहिणी नक्षत्रे>>, <<रेवती नक्षत्रे>> (गणसूत्रे) — रोहित तथा रेवत शब्दाभ्यां नक्षत्रस्य निर्देशार्थम् ङीष्-प्रत्ययः विधीयते — अनयोः गणसूत्रयोः अर्थः । यथा, रोहित + ङीष् → रोहिणी (नक्षत्रम्) । रेवत + ङीष् → रेवती (नक्षत्रम्) ।
11. <<कटाच्छ्रोणिवचने>> (गणसूत्रम्) — कट-शब्दात् शरीरस्य अवयवस्य निर्देशार्थम् ङीष्-प्रत्ययः भवति — इति अस्य गणसूत्रस्य अर्थः । कट +ङीष् → कटी । अन्यत्र टाप्-प्रत्यये कृते कटा इत्येव सिद्ध्यति ।
12. <<पिप्पल्यादयश्च>> (गणसूत्रम्) — पिप्पल्यादिगणे स्त्रीप्रत्ययस्य योजनं कृत्वा एव केचन शब्दाः पाठिताः सन्ति । एतेषु विद्यमानः स्त्रीप्रत्ययः ङीष् एव ज्ञेयः — इति अस्य गणसूत्रस्य अर्थः ।
13. मातामह, पितामह — एताभ्यां शब्दाभ्यां स्त्रीत्वं द्योतयितुम् ङीष्-प्रत्ययः भवति । यथा, मातामह + ङीष् → मातामही । पितामह + ङीष् → पितामही ।
वस्तुतस्तु, <<पितृव्यमातुलमातामहपितामहाः>> 4.2.36 अस्मिन् सूत्रे दत्तेन <!मातरि षिच्च!> अनेन वार्त्तिकेन पितृ-मातृ-शब्दाभ्याम् विहितः 'डामहच्' प्रत्ययः षिद् एव उक्तः अस्ति; अतः प्रकृतसूत्रेण षित्त्वात् एव एताभ्याम् ङीष्-प्रत्यये प्राप्ते एतयोः गौरादिगणे समावेशः व्यर्थः भवति । व्यर्थं सन् अयं ज्ञापयति — षित्-लक्षणः ङीष् अनित्यः अस्ति — इति । कुत्रचित् षित्-प्रत्ययान्तशब्देभ्यः ङीष्-प्रत्ययः नैव विधीयते — इति अस्य आशयः । अतएव <<दंश्>> (दशने, <{1.1144}>) इति धातोः <<दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे>> 3.2.182 इत्यनेन ष्ट्रन्-प्रत्यये कृते दंश् + ष्ट्रन् = दंष्ट्र इति सिद्धः यः दंष्ट्र-शब्दः, तस्मात् ङीष्-प्रत्ययः न भवति अपितु <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययं कृत्वा दंष्ट्रा इत्येव शब्दः सिद्ध्यति ।
गौरादिगणस्य प्रत्येकं शब्दस्य विषये कस्य प्रत्ययस्य बाधं कृत्वा ङीष्-प्रत्ययः विधीयते तत् न्यासे, पदमञ्जर्यां च विस्तरेण, सरलभाषया निर्दिष्टम् अस्ति । जिज्ञासुभिः सः विषयः तत्रैव द्रष्टव्यः ।
अनुपसर्जनात् इत्यधिकारः
प्रकृतसूत्रम् <<अनुपसर्जनात्>> 4.1.14 इत्यस्मिन् अधिकारे विद्यते । अतः यत्र षित्-शब्दाः, गौरादिगणस्य वा शब्दाः अनुपसर्जनरूपेण समासे विद्यन्ते; तत्र प्रकृतसूत्रस्य प्रयोगः न भवति । अतएव बहवः सुन्दराः यस्या सा इत्यत्र बहुव्रीहिसमासेन प्राप्तात् बहुसुन्दर शब्दात् <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः एव भवति, येन बहुसुन्दरा इति शब्दः सिद्ध्यति ।
ङीष्-प्रत्यये इत्संज्ञकवर्णानां प्रयोजनम्
ङीष्-प्रत्यये ङकारपकारयोः इत्संज्ञा भवति । तत्र —
1. इत्संज्ञकः ङकारः सामान्यग्रहणार्थः (to capture ङीप् / ङीष् / ङीन् by a common prefix) स्थापितः अस्ति । <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यस्मिन् सूत्रे विद्यमानेन 'ङी' इत्यनेन ङीप्-ङीष्-ङीन्-प्रत्ययानाम् एकत्ररूपेण ग्रहणं भवेत्, इति अत्र प्रयोजनम् ।
2. इत्संज्ञकः षकारः सामान्यग्रहणविघातार्थः(to distinguish ङीष् from ङीप् and ङीन्) स्थापितः अस्ति । केवलम् 'ङी' इत्युच्यमाने <<ङ्याप्प्रातिपदिकात्>> 4.1.1 इत्यत्र; तथा च <<ङ्यापोः संज्ञाछन्दसोर्बहुलम्>> 6.3.63 इत्यत्रापि <<तदनुबन्धके न अतदनुबन्धकस्य>> अनया परिभाषया ङीप्-प्रत्ययस्य ङीन्-प्रत्ययस्य च इष्टं ग्रहणं नैव स्यात्, अतः अत्र (व्यर्थः) षकारः अनुबन्धरूपेण स्थापितः विद्यते ।
ङीप्/ङीष्-प्रत्यययोः भेदः
ङीप्-प्रत्ययस्य योजनेन यद् रूपं सिद्ध्यति, तदेव रूपम् ङीष्-प्रत्ययस्य योजनेन अपि सिद्ध्यति । परन्तु तत्र द्वयोः अपि प्रत्यययोः उच्चारणे भेदः विद्यते । ङीप्-प्रत्ययस्य ईकारः <<अनुदात्तौ सुप्पितौ>> 3.1.4 इत्यनेन अनुदात्तसंज्ञकः अस्ति । ङीष्-प्रत्ययस्य ईकारः तु <<आद्युदात्तश्च>> 3.1.3 इत्यनेन उदात्तसंज्ञकः अस्ति । एतादृशं स्वरभेदम् दर्शयितुम् एव आचार्येण एतौ द्वौ पृथक्-प्रत्ययौ कृतौ स्तः ।
Balamanorama
Up
<<षिद्गौरादिभ्यश्च>> - षिद्गौरादिभ्यश्च । ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः । नर्तकीति ।नृती गात्रविक्षेपे॑ 'शिल्पिनि ष्वुन्' 'षः प्रत्ययस्य' इति षकार इत्,हलन्त्य॑मिति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात्ङीष्, टापोऽपवादः,यस्येति चे॑त्यकारलोप इति भावः । गौरीति । ओतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् । 'अन्यतो ङीष्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वाऽयम् ।उमा कात्ययनी गौरी॑त्यमरः ।दशवर्षा भवेद्गौरी॑ति स्मृतिः ।अनडुही अनड्वाहीति । अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः । एवं चअनुडुहः स्त्रियामाम् वेचि वक्तव्य॑मिति न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र-गौर मत्स्य म मनुष्य, शृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन आन्-इति पठित्वापिप्पल्यादयश्चे॑त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः । आन्शब्दस्य तु॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति । गौरादिरित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् ।
Padamanjari
Up
षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति ।'शिल्पिनि ष्वुन्' इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति - इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः,'जनपदशब्दात्क्षत्रियादञ्' ,'तस्य आतश्च' इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम् - आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम् - आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति ।'केवलमामक' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र'नञ्सुभ्याम्' इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः'लघावन्ते' इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः'नञ्स्नञीकक्तरुण' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति ।'प्रथेः षिवन्सम्प्रसारणं च' इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः - पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य'स्त्रियां च' इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति'स्त्रियां च' इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति ।'मातरि षिच्च' इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि - धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥