7-3-86 पुगन्तलघूपधस्य च गुणः सार्वधातुकार्धधातुकयोः
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
सार्वधातुकार्धधातुकयोः पुगन्तलघूपधस्य च गुणः
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य तथा लघूपधस्य अङ्गस्य गुणादेशः भवति ।
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
When followed by a सार्वधातुक or an आर्धधातुक प्रत्यय, a पुगन्त अङ्ग and a लघूपध अङ्ग get a गुणादेश.
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
पुगन्तस्य अङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति। पुगन्तस्य व्लेपयति। ह्रेपयति। क्नोपयति। लघूपधस्य भेदनम्। छेदनम्। भेत्ता। छेत्ता। प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लग् हूपधगुणो न व्यावर्त्यते इति ज्ञापितम् एतत् क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः 3.2.140, हलन्ताच् च 1.2.10 इति। संयोगे गुरुसंज्ञायां गुणो भेत्तुर्न सिध्यति। विध्यपेक्षं लघोश्च असौ कथं कुण्डिर्न दुष्यति। धातोनुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात्। अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः। अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत्। क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल् लघोर्गणे। उपधा च अत्र इगेव गृह्यते, ततो भिनत्तीति गुणो न भवति। अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूय्पधम् इति सूत्रार्थं वर्णयन्ति।
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्ययहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
यस्य अन्ते पुक्-आगमः कृतः अस्ति, तथा च यस्य उपधायाम् लघु-वर्णः अस्ति, तादृशस्य अङ्गस्य गुणः भवति । इको गुणवृद्धी 1.1.3 अनया परिभाषया अयम् गुणादेशः इक्-वर्णस्य भवति । उदाहरणानि पश्यामः -
1) अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36 अनेन सूत्रेण अर्ति, ह्री, व्ली, री, क्नूयी, क्ष्मायी - इत्येतेषामङ्गानाम् तथा आकारान्त-अङ्गानाम् णिच्-प्रत्यये परे पुक्-आगमः भवति । यथा, व्ली-धातोः णिच्-प्रत्यये परे आतिदेशिकः धातुः एतादृशम् सिद्ध्यति -
व्ली + णिच् [हेतुमति च 3.1.26 इति णिच् ]
→ व्ली पुक् इ [ अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.86 इति व्ली-धातोः पुक्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति अन्त्यागमः ।
→ व्ली प् इ [ककारस्य इत्संज्ञा, लोपः । उकारः उच्चारणार्थः अस्ति, अतः तस्यापि लोपः भवति ।]
→ व्लेपि [णिच्-इति आर्धधातुकप्रत्ययः । अतः अस्मिन् प्रत्यये परे पुगन्तस्य अङ्गस्य इक्-वर्णस्य पुगन्तलघूपधस्य च 7.3.86 इति गुणः भवति]
2) लिख्-धातोः तुमुन्-प्रत्ययान्तरूपम् -
लिख् + तुम् [तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् 3.3.10 इति तुमुन्]
→ लिख् + इट् + तुम् [आर्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ लेख् + इट् + तुम् [पुगन्तलघूपधस्य च 7.3.86 इत्यनेन 'इट्' इति आर्धधातुके प्रत्यये परे लघूपध-अङ्गस्य इक्-वर्णस्य गुणः]
→ लेखितुम्
3) गृज्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -
गृज् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ गृज् + तिप् [तिप्तस्.. 3.4.78 इति तिप्]
→ गृज् + शप् + तिप् [कर्तरि शप् 3.1.68 इति शप्]
→ गर्ज् + अ + ति [शप्-इत्यस्मिन् सार्वधातुके प्रत्यये परे 'गृज्' इति लघूपध-अङ्गस्य इक्-वर्णस्य गुणः । ऋकारस्य गुणः उरण् रपरः 1.1.51 इति रपरः अकारः ।
ज्ञातव्यम् -
अस्मिन् सूत्रे 'अङ्गस्य गुणः' इति उक्तमस्ति । अतः वस्तुतः अलोऽन्त्यस्य 1.1.52 इत्यनेन अङ्गस्य अन्तिमवर्णस्यैव गुणादेशः भवेत् । परन्तु पुगन्त-अङ्गस्य अन्तिमवर्णः पकारः एव भवेत्, तथा लघु-उपधस्य अङ्गस्य अन्तिमवर्णः अपि हल्-एव भवेत् - वचनसामर्थ्यात् । अतः एतयोः विषये उपधा-इक्-वर्णस्यैव गुणः भवति ।
उपधा-वर्णः गुरुसंज्ञकः अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'कूज्' धातोः उपधावर्णः दीर्घं च 1.4.12 इत्यनेन गुरुसंज्ञकः अस्ति, अतः अस्य धातोः गुणादेशः न प्रवर्तते। यथा - कूज् + तुम् → कूजितुम् ।
यदि उपधायाम् इक्-वर्णः नास्ति चेत् अस्य सूत्रस्य प्रयोगः न भवति । यथा - 'पठ्' इत्यत्रापि उपधावर्णः लघुसंज्ञकः अस्ति । परन्तु अत्र उपधायाम् इक्-वर्णः नास्ति, अतः अत्र पुगन्तलघूपधस्य च 7.3.86 इत्यस्य प्रसक्तिः नास्ति ।
अङ्गस्य उपधाभूतस्य इडागमस्य अनेन सूत्रेण गुणे प्राप्ते दीधीवेवीटाम् 1.1.6 इत्यनेन निषिध्यते, अतः इडागमस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
पुगन्तलघूपधस्य च - तथा च भावित् — आ इति स्थिते — पुगन्तलघु । 'मिदेर्गुण' इत्यतो गुण इत्यनुवर्तते । अङ्गस्येत्यधिकृतमवयवषष्ठन्तमाश्रीयते । पुगन्तलघूपधस्येति तद्विशेषणम् । पुक् अन्तो यस्य तत् पुगन्तं । लघ्वी उपधा यस्य तल्लघूपधं । पुगन्तं च लघूपधं चेति समाहारद्वन्द्वात् षष्ठी । 'इको गुणवृद्धी' इति परिभाषया 'इक' इत्युपस्थितं स्थानषष्ठन्तमाश्रीयते । तदाह — पुगन्तस्येत्यादिना । अङ्गस्येक इति । अङ्गावयवस्येत्यर्थः । द्वेष्टि द्वेष्टत्याद्युदाहरणम् । नन्वत्राऽङ्गावयवस्येकस्तदुपरितनहला व्यवधानात्सार्वधातुकपरत्वाऽभावात्कथमिह इको गुण इत्यत आह — येन नेति । येन = स्थान्युत्तरवर्णेन परनिमित्तस्य , नाऽव्यवधानं = व्यवधानमवर्जनीयमिति यावत्, तेन = वर्णेन व्यवहितेऽपि परनिमित्तं कार्यं भवतीत्यर्थः । कुत इत्यत आह — वचनप्रामाण्यादिति । तथाविधवर्णव्यवधानेऽपि कार्यप्रवृत्तौ वचनारम्भस्यैव प्रमाणत्वादित्यर्थः । लघूपधस्य हीको गुणो विधियते, उपधात्वं चाऽन्त्यादलः पूर्वस्यैव भवति । ततश्चेक उपर्यन्त्यस्य वर्णस्याऽभावे इक उपधात्वाऽभावाल्लघूपधस्याऽङ्गस्य गुणविधानं निर्विषयमेव स्यादतस्तद्व्यवधानं सोढव्यमिति भावः । ननु व्यवहितस्यापीको गुणप्रवृत्त्यभ्युपगमे भिनत्ति छिनत्तीत्यादौ इकारस्यापि गुणः स्यादित्यत आह -तेनेति । अवर्जनीयव्यवधनास्यैवाश्रयमेनेत्यर्थः । उपधात्वस्यैकमेव वर्णमुपरितनमादाय सम्भवादनेकवर्णव्यवधानं नादर्तव्यमिति भावः । गुणे प्राप्त इति । भवित् - आ इति स्थिते डाभावसंपन्नस्याऽऽकारस्य स्थानिवत्त्वेन सार्वधातुकतया तस्मिन् परे भविदित्यङ्गावयवस्योपधाभूतस्येकारस्य गुणे प्राप्ते सतीत्यर्थः । न च भूधातोर्विहितं सार्वधातुकं प्रति भूधातुरेवाऽङ्गं, न तु भवित् इति विकरणविशिष्टमिति वाच्यम्, अङ्गसंज्ञासूत्रे तदादिग्रहणेन विकरणविशिष्टस्याऽप्यङ्गत्वात् ।
index: 7.3.86 sutra: पुगन्तलघूपधस्य च
भेता, छेतेति । कथं पुनरत्र गुणः, यावता धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये'संयोगे गुरु' इति गुरुसंज्ञया लघुसंज्ञाया बाधनान्न प्राप्नोति, भेदनमित्यादौ सावकाशो गुणः ? अत आह - प्रत्ययादेरिति । क्नुसनोः कित्करणेनेति ।'त्रसिगृधिधृषिक्षिपेः क्नुः' इति क्नोः किक्करणस्यैतत्प्रयोजनम् - गृध्नुरित्यादौ गुणो मा भूदिति । यदि चैवंविधे विषये गुरूपधत्वाद् गुणो न स्यात्, क्नोः कित्करणमनर्थकं स्यात् । तथा'हलन्ताच्च' इति सनः कित्वविधानस्यैतत्प्रत्योजनम् - पित्सतीत्यादौ गुणो मा भूदिति, तदपि ज्ञापकमुक्तार्थस्य । इदं तु ज्ञापकं नोपपद्यते; सिसृक्षति, दिदृक्षते इत्यत्र'सृजिदृशोः' इत्यमागमो मा भूदित्येवमर्थमेतत्स्यात्, तथा धिप्सतीत्यत्र नलोपार्थं तत्स्यात् । तस्मात् क्नोरेव कित्करणं ज्ञापकम् । भिनति, च्छिनतीत्यत्र श्रमोऽकारेण लघूपधमङ्गम्, तत्र धातोरिकारस्य गुणः प्राप्नोति, अत आह - उपधात्रेति । न ह्यत्र या काचिदुपधा गृह्यते, किं तर्हि ? ठिको गुणवृद्धीऽ इत्यस्योपस्थानात् स्थानित्वेन सन्निहित इगेव । अपरे त्विति । वर्णयन्तीति सम्बन्धः । पुकि अन्त इति । अन्तशब्दः समीपवचनः । यद्यपि'पुगन्त' इत्यत्र बहुव्रीहावपि न दोषः, तथाप्यैकरूप्येण विशेषणार्थमयमपि तत्पुरुष एव व्याख्यातः । लघ्वी उपधेति । कर्मधारयः । अत्र पक्षे शाब्द एवोपधाया इका सम्बन्धः - लघ्व्या उपधाया इक इति । पुगन्तलघूपघमिति । समाहारद्वन्द्वः । क्वचिद् ठुपधात्रऽ इत्यादेर्ग्रन्थस्य पुरस्तात् संयोगे गुरुसंज्ञायामिति श्लोकत्रयं पठ।ल्ते । धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये सति गुरुसंज्ञायां सत्यां गुणो भेतुर्भेशब्दस्य न सिध्यति । परिहरति - विध्यपेक्षमिति । इदं विधानमिति शेषः । लघूपधाद्ये विहिते सार्वधातुकार्धधातुके, तयोरङ्गस्य गुण इत्यर्थः । ननु पञ्चम्यभावात् कथं विधानमुपपद्यते ? उच्यते; षष्ठीपक्षेऽपि विशेष्यत इति चेत्को दोषः - लघूपधस्य ये सार्वधातुकार्धधातुके । के च ते ? ये तस्माद्विहिते इत्युपपद्यते । लघोश्चासाविति पाठे लघूपधाच्चासौ तृज्विहित इत्यर्थः । उपधाशब्दस्तु वृतभङ्गभयान्न प्रयुक्तः । कथं कुण्डिरिति । अङ्गाधिकारे नुमो विधानादकृत एव नुमि प्रत्ययो लघूपधाद्विहितः, तत्र परतो निमिते स्थिते कुण्डितेत्यादौ गुणः प्राप्नोति, यदि विधानं विशेष्यत इत्यर्थः । परिहरति - धातोर्नुम इति । हेतौ पञ्चमी, यस्मातत्र धातोर्नुमङ्गस्य तस्मादित्यर्थः । उक्तं हि तत्र -'धातुग्रहणस्य प्रयोजनम् - धातूपदेशावस्थायामेव नुम् यथा स्यात्' इति, ततश्च प्रागेव नुम्, पश्चात्प्रत्ययः; न चासौ लघूपधाद्विहितो भवति । कथं रञ्जेरिति । यदि षष्ठीनिर्द्देशेऽप इविधानं विशेष्यते, तदान्यत्रापि प्रसङ्गः, ततश्च ठत उपधायाःऽ इत्यकारोपधाद्विहिते प्रत्यये विधीयमाना वृद्धी रञ्जेर्न स्यात्; प्राक् प्रत्ययोत्पतेर्नकारोपधत्वात् - राग इति,'घञि च भावकरणयोः' इति नकारलोपः । यद्यप्यु पधाया अकारस्य वृद्धिरुच्यते, न च ततः प्रत्ययस्य विधानं सम्भवति, तथाप्यकारोपधाद्यद्विधानं तदेवोपधाया विधानं मन्यते । स्यन्दिश्रन्थ्योरिति । यदयम्'स्यदो जवे' , ठवोदैधोद्मप्रश्रथहिहश्रथाःऽ इति स्यन्दिश्रन्थ्योर्वृद्ध्यभावं निपातयति, तज्ज्ञापयति - भवत्येवञ्जातीयकानां वृद्धिरिति । तत्र हि नलोपार्थम्, वृद्ध्यभावार्थं च निपातनमाश्रयणीयम् । यदि च वृद्धिविषये विधानं विशेष्येत, ततो वृद्धिप्रसङ्गाभावान्निपातनाश्रयणमनर्थकं स्यात् । नलोपस्य सिद्धये विधिरेवाश्रयणीयः, अनेकप्रयोजनसिद्धये हि निपातनाश्रयणम् । अनल्लोपेति । अनन्तस्य योऽल्लोपः सोऽनल्लोपः; शौ दीर्घत्वम्, शिदीर्घत्वम् - तयोर्द्वन्द्वः, अनल्लोपशिदीर्घत्वे विध्यपेक्षे न सिद्ध्यतः । यदि च षष्ठीनिर्द्देशेऽपि विधानं विशेष्येत, अल्लोपो राज्ञ इत्यादावेव स्यात्; अस्थ्ना, अस्थ्ने, दध्ना, दध्ने - इत्यादौ न स्यात् । शौ दीर्घत्वं च सामानि इत्यादावेव स्यात्, कुण्डानीत्यादौ तु न स्यात् । तस्मात्षष्ठीनिर्देशेषु विहितविशेषणग्रहणे दोषप्रसङ्गाद् गुणो भेतुर्न सिद्ध्यतीति । एवं तर्हि ज्ञापकात्सिद्धम्, यदयम्'नाभ्यस्तस्याचि' इत्यज्ग्रहणं करोति, तज्ज्ञापयति - भवत्येवञ्जातीयके विषये गुण इति । तस्य हि प्रयोजनम् - नेनक्तीत्यादौ हलादौ गुणप्रतिषेधो मा भूदिति । यदि च हलादावलघूपधत्वाद् गुणो न स्यात्, तदा गुणस्य प्राप्त्यभावात्किं तन्निवारणार्थेनाज्ग्रहणेन ! नैतदस्ति ज्ञापकम्; अभ्यस्तस्य यदाहाचि लर्ङ्थं तत्कृतं भवेत् । अभ्यस्तस्याजादौ प्रतिषेधमाहेति यत् तल्लर्ङ्थं कृतं भवेत्, यत्र हलादिर्लुप्यते - अनेनेगिति, तस्मान्न ज्ञापकम् । एवं तर्हि - क्नुसनोर्यत्कृतं कित्वं ज्ञापकं स्याल्लघोर्गुणे । व्याख्यातमेतत् ॥