स्त्रीभ्यो ढक्

4-1-120 स्त्रीभ्यः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) स्त्रीभ्यः ढक्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

To indicate the meaning of 'his/her offspring', the स्त्रीप्रत्ययान्त words get the 'ढक्' प्रत्यय.

Kashika

Up

इह स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्योऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहण इह न भवति — इडबिडोऽपत्यं दरदोऽपत्यम्, ऐडबिडः, दारद इति॥ वडवाया वृषे वाच्ये॥ वाडवेयो वृषः स्मृतः॥ अपत्ये प्राप्तस्ततोऽपकृष्य विधीयते, तेनापत्ये वाडव इति भवति॥ अण् क्रुञ्चाकोकिलात् स्मृतः॥ क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः॥

Siddhanta Kaumudi

Up

स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥

Laghu Siddhanta Kaumudi

Up

स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥

Neelesh Sanskrit Detailed

Up

षष्ठीसमर्थेभ्यः स्त्रीप्रत्ययान्तशब्देभ्यः अपत्यार्थम् ढक्-प्रत्ययः भवति । प्रत्ययाधिकारे आहत्य अष्ट स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन्, ऊङ्, ति । एतेषां सर्वेषामुदाहरणानि अधः दत्तानि सन्ति । अत्र आदौ एकः विशेषः स्मर्तव्यः - <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादत्वेन आगच्छति । अतः ये स्त्री-प्रत्ययान्तशब्दाः वृद्धसंज्ञकाः न सन्ति, तथा नद्याः मानुष्याः वा नामरूपेण प्रयुज्यन्ते, तेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अधः दत्तेषु उदाहरणेषु प्रयुक्ताः अवृद्धाः स्त्री-प्रत्ययान्तशब्दाः नद्याः मानुष्याः नामरूपेण न प्रयुक्ताः सन्तीति स्मर्तव्यम् । 1. [टाप्-प्रत्ययान्तः] - विनतायाः अपत्यम् = विनता + ढक् → वैनतेय । 2. [चाप्-प्रत्ययान्तः] - कौसल्यायाः अपत्यम् = कौसल्या + ढक् → कौसल्येय । 3. [डाप्-प्रत्ययान्तः] - बहुराजायाः अपत्यम् = बहुराजा + ढक् → बाहुराजेय । 4. [ङीप्-प्रत्ययान्तः] - प्रमात्र्याः अपत्यम् = प्रमात्री + ढक् → प्रामात्रेय । 5. [ङीष्-प्रत्ययान्तः] - पावन्याः अपत्यम् = पावनी + ढक् → पावनेय । 6. [ङीन्-प्रत्ययान्तः] - शार्ङ्गरव्याः अपत्यम् = शार्ङ्गरवी + ढक् → शार्ङ्गरवेय । 7. [ऊङ्-प्रत्ययान्तः] - मद्रबाह्वाः अपत्यम् = मद्रबाहू + ढक् → माद्रबाहेय । 8. [ति-प्रत्ययान्तः] - युवतेः अपत्यम् = युवति + ढक् → यौवतेय । प्रक्रियाः - 1. टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन् - एतेषां सर्वेषाम् विषये प्रक्रिया समाना एव अस्ति । यथा, विनतायाः अपत्यम् इत्यस्मिन् अर्थे 'विनतायाः' इति षष्ठीसमर्थात् ढक्-प्रत्ययः भवति - विनतायाः + ढक् → विनता + ढक् [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लुक्] → विनता + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → वैनता + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → वैनत् + एय [<<यस्येति च>> 6.4.148 इति आकारलोपः] → वैनतेय 2. 'ऊङ्' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते - मद्रबाहू + ढक् → मद्रबाहू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः । <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → माद्रबाहू + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → माद्रबाहू + एय [<<ओर्गुणः>> 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः] → माद्रबाहेय 3. 'ति' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते - युवतेः + ढक् → युवति + ढक् [<<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति ङस्-प्रत्ययस्य लुक्] → युवति + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः] → यौवति + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → यौवत् + एय [<<यस्येति च>> 6.4.148 इति आकारलोपः] → यौवतेय ज्ञातव्यम् - 1. सर्वे स्त्रीप्रत्ययान्तशब्दाः <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापिग्रहणम्>> अनया परिभाषया प्रातिपदिकसंज्ञां प्राप्नुवन्ति । अतएव प्रातिपदिकाधिकारे पाठिताः तद्धितप्रत्ययाः तेभ्यः भवितुमर्हन्ति । 2. अनेन सूत्रेण केवलं 'स्त्रीप्रत्ययान्त'शब्दानां विषये एव ढक्-प्रत्ययः भवति, 'स्त्रीलिङ्ग'शब्दानां न । अतः ये स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययान्ताः न सन्ति, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - मातृ, दुहितृ, मति, भक्ति, गति, श्री - आदयः । उदाहरणानि एतानि - अ). मातुः अपत्यम् = मातृ + अण् → मात्र । आ) भक्तेः अपत्यम् = भक्ति + ढक् → भाक्तेय । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, परन्तु <<इतश्चानिञः>> 4.1.122 इत्यनेन ढक्-प्रत्ययः एव विधीयते । इ) श्रियः अपत्यम् = श्री + अण् → श्रैयः । प्रक्रिया इयम् - श्री + अण् → श् र् इयङ् + अण् [श्री-शब्दः धातुजः अस्ति, अतः <<अचि श्नुधातुभ्रुवाम् य्वोः इयङ्-उवङौ>> 6.4.77 इति इयङ्-आदेशः] → श्रैय् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → श्रैय 3. शिवादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - ककुभा, जटिलिका , सपत्नी - आदयः) - तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन <<शिवादिभ्योऽण्>> 4.1.112 इत्यनेन अण्-प्रत्ययः एव विधीयते । तथा च, अयं अण्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 अस्यापि अपवादरूपेण आगच्छति । 4. बाह्वादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - वृषली, सुमित्रा, चुडा - आदयः) तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन <<बाह्वादिभ्यश्च>> 4.1.96 इत्यनेन इञ्-प्रत्ययः एव विधीयते । तथा च, अयं इञ्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 अस्यापि अपवादरूपेण आगच्छति । 5. शुभ्रादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - किशोरिका, अम्बिका - आदयः) तेषां विषये अपत्यार्थे <<शुभ्रादिभ्यः ढक्>> 4.1.123 इत्यनेन ढक्-प्रत्ययः विधीयते । अयं ढक्-प्रत्ययः <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 अस्यापि अपवादरूपेण आगच्छति । अत्र वार्त्तिकद्वयं ज्ञातव्यम् - 1. <!वडवायाः वृषे वाच्ये!> - 'वृषभ' अर्थे अभिधेये 'वडवा' शब्दात् ढक्-प्रत्ययः भवति । इत्युक्ते, 'वडवा + ढक् → वाडवेय' अयं शब्दः 'वृषः' अस्मिन् अर्थे प्रयुज्यते । अस्य वार्त्तिकस्य विषये काशिकाकारः वदति - 'अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति भवति' । इत्युक्ते, अपत्यार्थे 'वडवा'शब्दात् अण् प्रत्ययः भवति । वडवायाः अपत्यं वाडवः । 2. <!अण् क्रुञ्चा-कोकिलात् स्मृतः!> - 'क्रुञ्चा' तथा 'कोकिला' शब्दाभ्यामपत्यार्थे अण्-प्रत्ययः भवति । क्रुञ्चायाः अपत्यम् = क्रुञ्चा + अण् → क्रौञ्च । कोकिलायाः अपत्यम् = कोकिल + अण् → कौकिल ।

Balamanorama

Up

<<स्त्रीभ्यो ढक्>> - स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह — स्त्रीप्रत्ययान्तेभ्य इति । विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत् ।द्व्यञ्मगधे॑त्यण् ।अतश्चे॑ति तस्य लुक् । तस्या अपत्यं-दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह — बाह्वादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् ।

Padamanjari

Up

स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च - स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात्'जनपदशब्दात्क्षत्रियादञ्' , दरच्छब्दाद्'द्व्यञ्मगध' इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥