4-4-59 शक्तियष्ट्योः ईकक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य प्रहरणम्
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
'तदस्य प्रहरणम्' (इति) शक्ति-यष्ट्योः ईकक्
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'शक्ति'शब्दात् 'यष्टि'शब्दात् च ईकक् प्रत्ययः भवति ।
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
शक्तियष्टिशब्दाभ्याम् ईकक् प्रत्ययो भवति तदस्य प्रहरणम् इत्येतस्मिन् विषये। ठकोऽपवादः। शक्तिः प्रहरणमस्य शाक्तीकः। याष्टीकः।
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
शाक्तीकः । याष्टीकः ॥
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
'प्रहरणम्' इत्युक्ते शस्त्रम् । प्रहरणम् 4.4.57 अस्मिन् अर्थे प्राग्वहतेष्ठक् 4.4.1 इत्यनेन औत्सर्गकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा 'शक्ति'शब्दस्य विषये तथा 'यष्टि'शब्दस्य विषये 'ईकक्' प्रत्ययः भवति । यथा -
शक्तिः (= 'शूल'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = शक्ति + ईकक् → शाक्तीक ।
यष्टिः (- 'दण्ड'सादृशं किञ्चन शस्त्रम्) प्रहरणमस्य सः = यष्टि + ईकक् → याष्टीक ।
ज्ञातव्यम् - अत्र तद्धितान्तरूपे दीर्घ-ईकारः इष्यते, अतः आचार्येण ठक् (= इकक्) इत्यस्य स्थाने 'ईकक्' इति विधानं कृतमस्ति ।
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
शक्तियष्ट्योरीकक् - शक्तियष्टओरीकक् । शक्तियष्टिशब्दाभ्यां प्रथमान्ताभ्यां प्रहरणवाचिभ्यामस्येत्यर्थे ईकक् स्यादित्यर्थः ।
index: 4.4.59 sutra: शक्तियष्ट्योरीकक्
शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ?'के' णःऽ इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृतेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट।लेरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानातुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमितमेव ॥