7-2-115 अचः ञ्णिति वृद्धिः
अचः अङ्गस्य ञ्णिति वृद्धिः
अजन्तस्य अङ्गस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।
An अजन्त अङ्ग undergoes वृद्धि when followed by a णित् or a ञित् प्रत्यय.
अजन्तस्याङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति। ञिति — एकस्तण्डुलनिश्चायः। द्वौ शूर्पनिष्पावौ। कारः। हारः। णिति — गौः, गावौ, गावः। सखायौ, सखायः। जैत्रम्। यौत्रम्। च्यौत्नः जयतेर्यौतेश्च <<उणादयो बहुलम्>> ३.३.१ इति ष्ट्रण् प्रत्ययः। च्यवतेरपि त्नण्॥
ञिति णिति च प्रत्यये परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायौ । सखायः । सखायम् । सखायौ । घिसंज्ञाऽभावान्न तत्कार्यम् । सख्या । सख्ये ॥
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
यदि अजन्तात् अङ्गात् परः णित् / ञित् प्रत्ययः आगच्छति, तर्हि तस्य अजन्तस्य अङ्गस्य (अन्तिमस्वरस्य) वृद्धि-आदेशः जायते । उदाहरणानि एतानि - 1. नी + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्-प्रत्ययः] → नै + वु [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ईकारस्य वृद्धिः ऐकारः] → नै + अक [<<युवोरनाकौ>> 7.1.1 इति वु-इत्यस्य अक-आदेशः] → नायक [<<एचोऽयवायावः>> 6.1.78 इति आय्-आदेशः] 2. भू + घञ् [<<भावे>> 3.3.18 इति घञ्-प्रत्ययः] → भौ + अ [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ऊकारस्य वृद्धिः औकारः] → भाव [<<एचोऽयवायावः>> 6.1.78 इति आव्-आदेशः] 3. कृ-धातोः णिच्-प्रत्ययं कृत्वा 'कारि' इति आतिदेशिकः धातुः जायते - कृ + णिच् [<<हेतुमति च>> 3.1.26 इति णिच्] → कार् + इ [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इत्यनेन अङ्गस्य गुणादेशे प्राप्ते अपवादत्वेन <<अचो ञ्णिति>> इति वृद्धि-आदेशः । ऋकारस्य वृद्धिः आकारः, <<उरण् रपरः>> 1.1.51 इति सः रपरः] → कारि [<<सनाद्यन्ताः धातवः>> 3.1.32 इति धातुसंज्ञा] विशेषः - <<इको गुणवृद्धी>> 1.1.3 इत्यनेन वस्तुतः इक्-वर्णस्यैव गुणः वृद्धिः वा भवेत्, परन्तु अस्मिन् सूत्रे 'अचः' इति निर्देशसामर्थ्यात् अत्र इक्-भिन्नस्य अच्-वर्णस्य वृद्धिः आदेशः भवितुमर्हति । यथा, 'गो'शब्दस्य प्रथमैकवचनस्य रूपम् - गो + सुँ [प्रथमैकवचनस्य प्रत्ययः] → गो + स् [<<गोतो णित्>> 7.1.90 इत्यनेन ओकारान्तप्रातिपदिकात् परस्य सर्वनामस्थानप्रत्ययस्य णिद्वद्भावः] → गौ + स् [णिति प्रत्यये परे अजन्तस्य अङ्गस्य <<अचो ञ्णिति>> 7.2.115 इति वृद्धिः] → गौः [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः]
<<अचो ञ्णिति>> - अचोञ्णिति । ञ् च ण् चञ्णौ, तौ इतौ यस्य तत् ञ्णित् । 'मृजेः' इत्यतोवृद्धि॑रित्यनुवर्तते ।अङ्गस्ये॑त्यधिकृतमचा विशेष्यते । ततस्तदन्तविधिः । तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः । तस्य आयादेश इत्यभिप्रेत्याह-सखायाविति । एवं-सखायः । सखायं सखायौ । सखीनिति शसि हरिवद्रूपम् । असर्वनामस्थानत्वाण्णित्त्वाऽभावान्न वृद्धिः । घिसंज्ञाऽभावादिति ।शेषो घ्यसखी॑त्यत्र असखीति पर्युदासादिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्यं नेत्यर्थः । सख्येति । सखि-आ इति स्थिते घित्वाऽभावादाङो नाऽस्त्रियामिति नाभावाऽभावे यणि रूपम् । सख्ये इति । सखि-ए इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि रूपम् । ङसिङसोः-सखि अस् इति स्थिते घित्वाऽभावात्घेर्ङिती॑ति गुणाऽभावे यणि सख्यस् इति स्थिते ।
तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् । गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि चेति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् - तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्उलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तैति वक्ष्यामि, अत्रोच्यते ञ्णितीति तावदुतरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ॥