त्यदादिषु दृशोऽनालोचने कञ् च

3-2-60 त्यदादिषु दृशः अनालोचने कञ्च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् अनुपसर्गे सुपि क्विन्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्यदादिषूपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात् कञ् प्रत्ययो भवति, चकारात् क्विन् च। त्यादृशः। त्यादृक् । तादृशः। तादृक् । यादृशः। यादृक्। कञो ञकारो विशेषणार्थः। ठक्ठञ्कञ् ४.१.१५ इति। अनालोचन इति किम्? तं पश्यति तद्दर्शः। चादृगादयो हि रूढिशब्दप्रकारा नैवात्र दर्शनक्रिया विद्यते॥ समानान्ययोश्चेति वक्तव्यम्॥ सदृशः। सदृक्। अन्यादृशः। अन्यादृक्॥ दृशेः क्सश्च वक्तव्यः॥ तादृक्षः। यादृक्षः। सदृक्षः। अन्यादृक्षः। कीदृक्षः॥

Siddhanta Kaumudi

Up

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेर्धातोः कञ् स्याच्चात् क्विन् ॥

Laghu Siddhanta Kaumudi

Up

त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<त्यदादिषु दृशोऽनालोचने कञ् च>> - अथ शान्ताः । तादृक्शब्दं व्युत्पादयितुमाह — त्यदादिषु । चकारात्स्पृशोऽनुदके क्विन् इत्यतः 'क्विन्' इत्यनुकृष्यते । आलोचनमिह ज्ञानसामान्यं विवक्षितं, तदाह — त्यदादिष्वित्यादि । अनालोचने किम् । तं पश्यति तद्दर्शः । कर्मण्यण् । कञि तु कित्त्वाद्गुणो न स्यात् । तद् शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद्-दृश् इति स्थिते ।

Padamanjari

Up

त्यदादिषु द्दशोऽनालोचने कञ्च॥'पश्यार्थैश्च' इत्यत्र वक्ष्यति - आलोचनं चक्षुस्ताधनं विज्ञानमिति, इह तु ज्ञानमात्रप्रतिषेधं मन्यते। याद्दक् ताद्दगिति।'द्दग्द्दशवतुषु' इति वर्तमाने ठा सर्वनाम्नःऽ इत्यात्वम्। ञकारो विशेषणार्थ इति। आद्यौदातत्वस्य नकारेणापि सिद्धत्वात् ञकारोपधस्य प्रयोजनं विशेषणमेवेत्यर्थः, न तु स्वरो न प्रयोजनमित्युच्यते। तं पश्यति तद्दर्श इति चक्षुर्विज्ञानेऽणेव भवति। कथं पुनः प्रयुज्यमानस्यैव द्दशेरनालोचनार्थत्वमित्याह - ताद्दशादयो रूढिशब्दा इति। ततः किमित्याह - नैवात्रेति। रूढिशब्दा ह्यसताप्यवयवार्थेन व्युत्पाद्यन्ते, यथा - तैलपायिकादयः। एतदर्थमेवानालोचन इत्युक्तम्। द्दश्यर्थाभावेऽयं विधिः, सति तु द्दश्यर्थेऽणेव भवतीति। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता - तमिवेमं पश्यन्ति जनाः सोऽयं स इव द्दश्यमानस्तमिवात्मानं पश्यतीति। तत्र कर्मव्यापारमात्रे वा द्दशेर्वृत्तिः, कृत्स्नधात्वर्थाध्यारोपो वा सौकर्यादिशयप्रतिपादनायेति द्रष्टव्यम्। समानान्योश्चेति। समानस्य द्दग्द्दशवतुषु सभावविधानात्सिद्धम्। क्सश्चेति। त्यदादिषु समानान्योश्च। ताद्दक्षः, सद्दक्षः, अन्याद्दक्ष इति।'द्दक्षे चेति' वक्तव्यम्ऽ इति सभाव आत्वं च॥