न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु

1-1-58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु स्थानिवत् आदेशः अचः परस्मिन्पूर्वविधौ

Sampurna sutra

Up

पदान्त-द्विर्वचन-वरे-यलोप-स्वर-सवर्ण-अनुस्वार-दीर्घ-जश्-चर्-विधिषु अचः आदेशः परस्मिन् स्थानिवद् न

Neelesh Sanskrit Brief

Up

अच् वर्णस्य स्थाने क्रियमाणस्य आदेशस्य निमित्तम् परः अस्ति चेत् सः आदेशः - (1) पदान्तकार्यार्थम् (2) द्वित्वकार्यार्थम् (3) 'वरच्' प्रत्ययस्य कार्यार्थम् (4) यकारलोपार्थम् (5) स्वरविध्यर्थम् (6) सवर्णकार्यार्थम् (7) अनुस्वारविध्यर्थम् (8) दीर्घादेशकार्यार्थम् (9) जश्त्वकार्यार्थम् (10) चर्त्वकार्यार्थम् - स्थानिवत् कार्यम् न करोति ।

Neelesh English Brief

Up

An आदेश done in place of an अच् letter due to the परनिमित्त never acts like a स्थानी; even for the single-letter-कार्याणि done on an entity prior to the location of the स्थानी; in the context of - (1) पदान्तकार्य (2) द्वित्वकार्य (3) 'वरच्' प्रत्ययकार्य (4) यकारलोप (5) स्वरविधि (6) सवर्णकार्य (7) अनुस्वारविधि (8) दीर्घादेशकार्य (9) जश्त्वकार्य and (10) चर्त्वकार्य.

Kashika

Up

पूर्वेणातिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते। पदान्तविधिं प्रत्यजादेशो न स्थानिवद् भवति। कौ स्तः। यौ स्तः। तानि सन्ति। यानि सन्ति। <<श्नसोरल्लोपः>> ६.४.१११ क्ङिति सार्वधातुक इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत् स्यात्, अस्माद् वचनाद् न भवति। द्विर्वचनविधिं प्रति [अजादेशः] न स्थानिवद् भवति। दद्ध्यत्र। मद्ध्वत्र। यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावाद् <<अनचि च>> ८.४.४७ इति धकारस्य द्विर्वचनं न स्यादस्माद् वचनाद् भवति । वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद् भवति। अप्सु यायावरः प्रवपेत पिण्डान्। यातेर्यङन्ताद् <<यश्च यङः>> ३.२.१७६ इति वरचि कृते <<अतो लोपः>> ६.४.४८ परनिमित्तकः, तस्य स्थानिवत्त्वाद् <<आतो लोप इटि च>> ६.४.६४ इत्याकारलोपः स्याद्, अस्माद् वचनाद् न भवति। यलोप — यलोपविधिं प्रत्यजादेशो न स्थानिवद् भवति। कण्डूतिः। कण्डूयतेः क्तिचि कृते <<अतो लोपः>> ६.४.४८ परनिमित्तको <<लोपो व्योर्वलि>> ६.१.६६ इति यलोपे स्थानिवत् स्याद्, अस्माद् वचनाद् न भवति। स्वर — स्वरविधिं प्रत्यजादेशो न स्थानिवद् भवति। चि॒कीर्ष॑कः। जि॒हीष॑कः । ण्वुलि कृते <<अतो लोपः>> ६.४.४८ परनिमित्तको <<लिति>> ६.१.१९३ प्रत्ययात् पूर्वमुदात्तमिति स्वरे कर्तव्ये न स्थानिवद् भवतीति। सवर्ण — सवर्णविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिण्ढि। पिण्ढि। शिषेः पिषेश्च लोण्मध्यमपुरुषैकवचने <<रुधादिभ्यः श्नम्>> ३.१.७८ हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु <<श्नसोरल्लोपः>> ६.४.१११ क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे ८.४.५८ कर्तव्ये न स्थानिवद् भवति। अनुस्वार — अनुस्वारविधिं प्रत्यजादेशो न स्थानिवद् भवति। शिंषन्ति। पिंषन्ति। <<नश्चापदान्तस्य झलि>> ८.३.२४ इत्यनुस्वारे कर्तव्ये <<श्नसोरल्लोपः>> ६.४.१११ न स्थानिवद् भवति। दीर्घ — दीर्घविधिं प्रत्यजादेशो न स्थानिवद् भवति। प्रतिदीव्ना। प्रतिदीव्ने। प्रतिदिवन्नित्येतस्य <<भस्य>> ६.४.१२९ इत्यधिकृत्य तृतीयैकवचने चतुर्थ्येकवचने च <<अल्लोपोऽनः>> ६.४.१३४ इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाद् <<हलि च>> ८.२.७७ इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्पर इति, अस्माद् वचनाद् भवति। जश् — जश्विधिं प्रत्यजादेशो न स्थानिवद् भवति। सग्धि॑श्च मे॒ सपी॑तिश्च मे (मा०सं० १८.९)। ब॒ब्धां ते॒ हरी॑ धा॒नाः (नि० ५.१२)। अदेः क्तिनि <<बहुलं छन्दसि>> २.४.३९ इति घस्लादेशः,<<घसिभसोर्हलि च>> ६.४.१०० इत्युपधालोपः,<<झलो झलि>> ८.२.२६ इति सकारलोपः,<<झषस्तथोर्धोऽधः>> ८.२.४० इति धत्वम्, उपधालोपस्य स्थानिवत्त्वात् <<झलां जश् झशि>> ८.४.५३ इति घकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। समाना ग्धिः, समानस्य सभावः। सग्धिः। बब्धामिति। भसेर्लोड्द्विवचने शपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, <<घसिभसोर्हलि च>> ६.४.१००इत्युपधालोपः,<<झलो झलि>>८.२.२६इति सकारलोपः, <<झषस्तथोर्धोऽधः>>८.२.४०इति धत्वम्। उपधालोपस्य स्थानिवत्त्वात् <<झलां जश् झशि>> ८.४.५३ इति भकारस्य जश्त्वं न स्याद्, अस्माद् वचनाद् भवति। चर् — चर्विधिं प्रत्यजादेशो न स्थानिवद् भवति। जक्षतुः। जक्षुः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः॑ (मा०सं० १९.३६)। लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः, <<गमहनजनखनघसाम्०>> ६.४.९८ इत्युपधालोपः, द्विर्वचनम्, अभ्यासकार्यम्। तत्रोपधालोपस्य स्थानिवत्त्वात् <<खरि च>> ८.४.५५ इति घकारस्य चर्त्वं न स्याद्, अस्माद् वचनाद् भवति। <<शासिवसिघसीनां च>> ८.३.६० इति षत्वम्। अक्षन्नित्यदेर्लुङ्बहुवचने घस्लादेशः, च्लेरागतस्य <<मन्त्रे घसह्वर०>> २.४.८० इति लुक्। <<गमहनजनखनघसाम्०>> ६.४.९८ इत्युपधालोपः, तस्य स्थानिवत्त्वात् <<खरि च>> ८.४.५५ इति चर्त्वं न स्याद्, अस्माद् वचनाद् भवति॥ स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति॥ अन्यस्तु स्थानिवदेव। तेन ब॒हु॒ख॒ट्वकः॑, किर्योः, गिर्योः, वाय्वोरिति स्थानिवत्त्वात् स्वरदीर्घयलोपा न भवन्ति॥

Siddhanta Kaumudi

Up

पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् । इति स्थानिवद्भावनिषेधः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यत्र कस्यचन स्थानिनः कश्चन आदेशः विधीयते, तत्र —‌स्थानिनः गुणधर्माः आदेशे अपि अतिदिश्यन्ते वा ? — इति प्रश्ने जाते, अष्टाध्याय्याम् आहत्य चतुर्भिः सूत्रैः मिलित्वा अस्य उत्तरम् दीयते । <<स्थानिवदादेशोऽनल्विधौ>> 1.1.56 इत्यतः आरभ्य <<द्विर्वचनेऽचि>> 1.1.59 इति यावन्ति एतानि चत्वारि सूत्राणि स्थानिवद्भावप्रकरणम् नाम्ना ज्ञायन्ते । अस्य प्रकरणस्य इदं तृतीयम् सूत्रम् । <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन सूत्रेण उक्तः स्थानिवद्भावः आहत्य दशसु पूर्वविधिषु प्रकृतसूत्रेण निषिध्यते । इत्युक्ते, परनिमित्तकः अजादेशः पदान्तादिषु दशसु पूर्वविधिषु कर्तव्ये स्थानिवत् नैव भवति — इति प्रकृतसूत्रस्य अर्थः । क्रमेण विवरणम् एतादृशम् — 1. पूर्वपदस्य अन्ते जायमानस्य कार्यस्य कृते परनिमित्तकः अजादेशः स्थानिवद् न भवति । यत्र पदादौ विद्यमानस्य अच्-वर्णस्य लोपः क्रियते, तत्र सः लोपः तस्मात् पूर्वम् विद्यमानार्थम् पदान्तकार्यार्थम् स्थानिवत् न भवति । यथा, अस्-धातोः प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् <<श्नसोरल्लोपः>> 6.4.111 इत्यनेन अकारस्य कृतः लोपः पदान्ते जायमानस्य कार्यस्य कृते स्थानिवद् न भवति । यथा, फलानि सन्ति इत्यत्र वाक्यान्वाख्यानपक्षे प्रक्रिया इत्थं भवति — फल + जस् + अस् + लट् → फलानि + अस् + लट् [फलानि-शब्दस्य सिद्धिः अत्र नैव आवश्यकी, अतः सः शब्दः सिद्धः एव दर्शितः अस्ति ।] → फलानि + अस् + झि [<<तिप्तस्झि...>> 3.4.78 इत्यनेन प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → फलानि + अस् + अन्ति [<<झोऽन्तः>> 7.1.3 इति अन्ति-आदेशः । ततः शप्-विकरणप्रत्ययस्य विधानम्, तस्य च लुक् क्रियते ] → फलानि + स् + अन्ति [<<श्नसोरल्लोपः>> 6.4.111 इति अस्-धातोः अकारस्य लोपः भवति । अयम् अपित्-सार्वधातुकप्रत्ययनिमित्तकः लोपः अस्ति, अतः अयम् परनिमित्तकः लोपः अस्ति । अग्रे नकारोत्तस्य इकारस्य यणादेशे कर्तव्ये अयम् लुप्तः अकारः <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवत् भवितुम् अर्हति, परन्तु अयम् यणादेशः पदान्ते जायमानम् कार्यम् अस्ति, अतः अस्य कृते अकारस्य स्थानिवद्भावः प्रकृतसूत्रे पदान्त-शब्दस्य ग्रहणेन निषिध्यते । अतः अत्र यणादेशः अपि न सम्भवति ।] → फलानि सन्ति । 2. पूर्वस्य द्वित्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यदि 'पूर्वविधिः' द्वित्वकार्यम् इति अस्ति, तर्हि परनिमित्तकः अजादेशः एतादृशार्थम् द्वित्वकार्यार्थम् स्थानिवद् न भवति । यथा, मधु + अरि इत्यस्यां प्रक्रियायाम् उकारस्य यणादेशे वकारे प्राप्ते, धकारस्य द्वित्वे कर्तव्ये अयम् वकारः स्थानिवत् (उकारसदृशः) न भवति, अतएव अत्र <<अनचि च>> 8.4.47 इति द्वित्वम् अवश्यम् सम्भवति — मधु + अरि → मध् व् + अरि [<<इको यणचि>> 6.1.77 इति यणादेशः] → मध् ध् व् + अरि [<<अनचि च>> 8.4.47 इति द्वित्वम् । अत्र उकारस्य स्थाने जायमानः वकारादेशः यदि स्थानिवत् स्यात्, तर्हि अत्र धकारस्य द्वित्वम् नैव अभविष्यत् । परन्तु द्वित्वे कर्तव्ये अयम् वकारः स्थानिवद् न भवति अतः अत्र द्वित्वम् अवश्यं सम्भवति ।] → मद्ध्वरि [<<झलां जश् झशि>> 8.4.53 इति धकारस्य जश्त्वे दकारः] अत्र निर्दिष्टम् द्वित्वम् अष्टमाध्याये चतुर्थपादे पाठितम् द्वित्वम् अस्ति, न हि षष्ठाध्यायस्य द्वित्वम् । षष्ठाध्यायस्य द्वित्वस्य कृते स्थानिवद्भावस्य विधानम् <<द्विर्वचनेऽचि>> 1.1.59 इति अग्रिमसूत्रेण क्रियते । 3. वरच्-प्रत्ययान्तस्य रूपसिद्धौ पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । अच्-वर्णस्य स्थाने विहितः परनिमित्तकः आदेशः वरच्-प्रत्ययान्तरूपस्य प्रक्रियायाम् पूर्वविधौ कर्तव्ये स्थानिवद् न भवति । यथा, यायायइति यङन्तधातोः वरच्-प्रत्यये परे यकारोत्तरस्य अकारस्य <<अतो लोपः>> 6.4.48 इत्यनेन लोपे कृते <<आतो लोप इटि च>> 6.4.64 इत्यनेन आकारलोपे कर्तव्ये अयम् अकारलोपः स्थानिवद् न भवति, अतः आकारलोपः अपि न सम्भवति — या + यङ् [<<धातोरेकाचो हलादेः क्रियासमभिहारे यङ्>> 3.1.22 इति यङ्-प्रत्ययः] → या या + य [<<सन्यङोः>> 6.1.9 इति द्वित्वम्] →‌ यायाय [<<सनाद्यन्ता धातवः>> 3.1.32 इति धातुसंज्ञा] → यायाय + वरच् [<<यश्च यङः>> 3.2.176 इति यङ्-प्रत्ययः] → यायाय् + वर [<<अतो लोपः>> 6.4.48 इति यङ्-प्रत्ययस्य अकारस्य लोपः] → याया + वर [<<लोपो व्योर्वलि>> 6.1.66 इति यङ्-प्रत्ययस्य यकारस्य लोपः] → यायावर [यदि अत्र यङ्-प्रत्ययस्य लुप्तः अकारः <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवत् स्यात्, तर्हि अजादि-ङित्-प्रत्यये परे <<आतो लोप इटि च>> ६.४.६४ इत्यनेन आकारलोपः सम्भवेत् । परन्तु वरच्-प्रत्ययान्तस्य रूपसिद्धौ <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन निर्दिष्टः स्थानिवद्भावः नैव प्रवर्तते, अतः अत्र आकारलोपः अपि न सम्भवति ।]। 4. यकारलोपः पूर्वविधिः अस्ति चेत् परनिमित्तकः अजादेशः स्थानिवद् न भवति । यकारस्य लोपार्थम् परनिमित्तकः अजादेशः स्थानिवद् न गृह्यते । यथा, उपरिनिर्दिष्टायाम् यायावर-शब्दस्य प्रक्रियायाम् <<अतो लोपः>> 6.4.48 इत्यनेन अकारलोपे कृते, ततः <<लोपो व्योर्वलि>> 6.1.66 इति यङ्-प्रत्ययस्य यकारस्य लोपे कर्तव्ये लुप्तः अकारः स्थानिवद् नैव भवति, अन्यथा अकारस्य उपस्थितौ यकारलोपः नैव सम्भवेत् । अस्य अपरम् उदाहरणम् एतादृशम् — कण्डूय-धातोः <<क्तिच्क्तौ च संज्ञायाम्>> 3.3.174 इत्यनेन क्तिच्-प्रत्यये कृते प्रक्रियायाम् <<अतो लोपः>> 6.4.48 इत्यनेन अकारलोपे जाते, अयम् लुप्तः अकारः यकारस्य लोपार्थम् स्थानिवद् न भवति । प्रक्रिया इयम् — कण्डूय + क्तिच् [<<क्तिच्क्तौ च संज्ञायाम्>> 3.3.174 इति क्तिच्-प्रत्ययः] → कण्डूय् + ति [<<अतो लोपः>> 6.4.48 इति अकारलोपः] → कण्डूति [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः । अत्र यकारलोपार्थम् अज्लोपः स्थानिवद् न भवति, अतः अत्र वल्-वर्णम् (तकारम्) दृष्ट्वा अत्र यकारलोपः अवश्यं प्रवर्तते । काशिकायाम् अत्र 'क्तिन् प्रत्यये कृते' इति उच्यते, सः तु असाधु पाठः ज्ञेयः, यतः प्रत्ययान्तधातुभ्यः क्तिन्-प्रत्ययस्य अपवादरूपेण अ-प्रत्ययः विधीयते । पदमञ्जर्याम् <!क्तिन्नावादिभ्यः!> इति केनचित् वार्त्तिकेन अस्य समर्थनम् कृतम् अस्ति, परन्तु तत्र 'क्तिच् इति युक्तः पाठः' इति निर्देशः अपि लभ्यते । 5. स्वरविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यत्र पूर्वविधिना कश्चन स्वरः विधीयते, तत्र परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, चिकीर्ष-धातोः ण्वुल्-प्रत्यये कृते, प्रक्रियायाम् <<अतो लोपः>> 6.4.48 इति अकारलोपे कृते <<लिति>> 6.1.193 इत्यनेन प्रत्ययपूर्वस्वरस्य उदात्तत्वविधानार्थम् अजादेशः स्थानिवद् न भवति । प्रक्रिया इयम् — चिकीर्ष + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 इति ण्वुल्-प्रत्ययः] → चिकीर्ष + अक [<<युवोरनाकौ>> 7.1.1 इति अक-आदेशः] → चिकीर्ष् + अक [<<अतो लोपः>> 6.4.48 इति अकारलोपः] → चिकीर्ष् + अक [<<लिति>> 6.1.193 इत्यनेन प्रत्ययात् पूर्वम् विद्यमानः स्वरः उदात्तत्वं प्राप्नोति । अत्र स्वरविधौ कर्तव्ये यदि लुप्तः अकारः स्थानिवद् स्यात् तर्हि इदम् उदात्तत्वम् अकारस्य विषये प्रसज्येत । परन्तु अत्र प्रकृतसूत्रेण लुप्तः अकारः स्थानिवद् न भवति, अत; अत्र ककारोत्तस्य ईकारस्य एव उदात्तत्वं विधीयते ।] → चि॒कीर्ष॑क [अत्र ककारोत्तरः ईकारः उदात्तः अस्ति ।] 6. सवर्णसंज्ञया निर्दिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । परनिमित्तकः अजादेशः सवर्णविधानविशिष्टकार्यार्थम् स्थानिवद् न भवति । यथा, शिन्धि-शब्दस्य प्रक्रियायाम् <<श्नसोरल्लोपः>> 6.4.111 इत्यनेन अकारलोपे कृते अग्रे अनुस्वारस्य परसवर्णविधौ कर्तव्ये लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् — शिषॢँ (विश्लेषणे, रुधादिः, <{7.14}>) → शिष् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → शिष् + सिप् [<<तिप्तस्झि...>> 3.4.78 इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः] → शिष् + हि [<<सेर्ह्यपिच्च>> 3.4.87 इति हि-आदेशः] → शिष् + धि [<<हुझल्भ्यो हेर्धिः>> 6.4.101 इति धि-आदेशः] → शि श्नम् ष् + धि [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम्-प्रत्ययः] → शि न ष् + धि [इत्संज्ञालोपः] → शि न् ष् + धि [<<श्नसोरल्लोपः>> 6.4.111 इति नकारोत्तरस्य अकारस्य लोपः] → शिं ष् + धि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → शिं ष् + ढि [<<ष्टुना ष्टुः>> 8.4.41 इति धकारस्य ष्टुत्वे ढकारः] → शिं ड् + ढि [<<झलां जश् झशि>> 8.4.53 इति षकारस्य जश्त्वे डकारः] → शिण्ड् + ढि [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः णकारः । अत्र परसवर्णे कर्तव्ये अकारलोपः स्थानिवद् न भवति । यदि अत्र अकारलोपः स्थानिवत् स्यात्, तर्हि अनुस्वारात् परम् अकारं दृष्ट्वा अत्र परसवर्णः नैव सम्भवेत् ।] → शिण्ड्ढि →‌ शिण्ढि [<<झरो झरि सवर्णे>> 8.4.65 इति पाक्षिकः डकारलोपः] 7. अनुस्वारादेशरूपिणि पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । अनुस्वारनिर्माणार्थम् परनिमित्तकः अजादेशः स्थानिवद् न भवति । अतएव उपरि निर्दिष्टे शिण्ढि अस्मिन् उदाहरणे <<श्नसोरल्लोपः>> 6.4.111 इति नकारोत्तरस्य अकारस्य लोपे कृते, अग्रिमसोपाने विद्यमानस्य <<नश्चापदान्तस्य झलि>> 8.3.24 इत्यस्य कृते अयम् अकारः स्थानिवद् न भवति । यदि अत्र अकारः स्थानिवद् स्यात्, तर्हि अस्मिन् अकारे परे अपदान्तनकारस्य अनुस्वारः नैव सम्भवेत् । 8. दीर्घादेशविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । परनिमित्तकः अजादेशः दीर्घादेशार्थम् स्थानिवद् न भवति । यथा, दिवन्-शब्दस्य तृतीयैकवचने <<अल्लोपोऽनः>> 6.4.134 इत्यनेन वकारोत्तस्य अकारस्य लोपे कृते, दकारोत्तरस्य इकारस्य दीर्घादेशे कर्तव्ये अयम् लुप्तः अकारः स्थानिवद् न भवति । प्रक्रिया इयम् — दिवन् + टा [<<स्वौजस्..>> 4.1.2 इति तृतीयैकवचनस्य टा-प्रत्ययः] → दिव् न् + आ [<<अल्लोऽपो नः>> 6.4.134 इति अकारलोपः] → दीव्ना [<<हलि च>> 8.2.77 इति वकारात् पूर्वस्य इकारस्य दीर्घः । अस्मिन् दीर्घे कर्तव्ये वकारोत्तरः लुप्तः अकारः स्थानिवत् न भवति । यदि अयं स्थानिवद् स्यात्, तर्हि हल्-वर्णस्य अनुपस्थितौ दीर्घः अपि नैव सम्भवेत् ।] 9. जश्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । जश्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः क्तिन्-प्रत्यये कृते वेदेषु 'ग्धिः' इति यद् रूपं दृश्यते, तस्य सिद्धौ <<घसिभसोर्हलि च>> 6.4.100 इत्यनेन अकारलोपे कृते, अग्रे जश्त्वकार्यार्थम् अयम् स्थानिवद् न भवति । प्रक्रिया इयम् — अदँ (भक्षणे, अदादिः, <{2.1}>) → अद् + क्तिन् [<<स्त्रियां क्तिन्>> 3.3.94 इति क्तिन्-प्रत्ययः] → घसॢ + ति [<<बहुलं छन्दसि>> 2.4.39 इति घसॢँ-आदेशः] → घस् + ति [इत्संज्ञालोपः] → घ् स् + ति [घकारोत्तरस्य अकारस्य <<घसिभसोर्हलि च>> 6.4.100 इति लोपः] → घ् + ति [<<झलो झलि>> 8.2.26 इति सकारलोपः] → घ् + धि [<<झषस्तथोर्धोऽधः>> 8.2.40 इति तकारस्य धकारः] → ग् + धि [<<झलां जश् झशि>> 8.4.53 इति घकारस्य जश्त्वे गकारः । अत्र धकारे परे जश्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इति स्थानिवद्भावे प्राप्ते; प्रकृतसूत्रे जश्-ग्रहणेन तत् निषिध्यते ।] →‌ग्धि 10. चर्त्वविशिष्टे पूर्वविधौ कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । चर्त्वे कर्तव्ये परनिमित्तकः अजादेशः स्थानिवद् न भवति । यथा, अद्-धातोः लिट्-लकारस्य जक्षुः इति रूपस्य सिद्धौ << गमहनजनखनघसां लोपः क्ङित्यनङि>> 6.4.98 इत्यनेन कृतः अकारलोपः घकारस्य चर्त्वे कर्तव्ये स्थानिवद् न भवति । प्रक्रिया इयम् — अदँ (भक्षणे, अदादिः, <{2.1}>) → घसॢँ [<<लिट्यन्यतरस्याम्>> 2.4.40 इति लिट्लकारस्य विवक्षायाम् अद्-धातोः विकल्पेन घसॢँ-आदेशः] → घस् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट् । <<असंयोगाल्लिट् कित्>> 1.2.5 इत्यनेन अयम् किद्वत् भवति ] → घस् + झि [<<तिप्तस्झि..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य झि-प्रत्ययः] → घस् + उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति झि-प्रत्ययस्य उस्-आदेशः] → घस् घस् + उस् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → घ घस् + उस् [<<हलादिः शेषः>> 7.4.60 इति अभ्यासस्य हलादिः लुप्यते ] → झ घस् + उस् [<<कुहोश्चुः>> 7.4.62 इति चुत्वम्] → झ घ् स् + उस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> 6.4.98 इति घकारोत्तरस्य अकारस्य लोपः] → झ् घ् स् + उः [<<ससजुषो रुः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → झ घ् ष् + उः [<<शासिवसिघसीनां च>> 8.3.60 इति षत्वम्] → ज् घ् ष् + उः [<<अभ्यासे चर्च>> 8.4.54 इति अभ्यासस्य जश्त्वम्] → ज् क् ष् + उः [<<खरि च>> 8.4.55 इति घकारस्य चर्त्वे ककारः । अत्र चर्त्वे कर्तव्ये घकारोत्तरस्य लुप्त-अकारस्य स्थानिवद्भावः प्रकृतसूत्रेण निषिध्यते ।] → जक्षुः अनेन प्रकारेण एतेषु दशसु पूर्वविधिषु परनिमित्तकः अजादेशः स्थानिवद् न भवति । वार्त्तिकम् — <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव!> प्रकृतसूत्रेण उक्तस्य स्थानिवद्भावनिषेधस्य नियमनम् अनेन वार्त्तिकेन क्रियते । यकारलोपार्थम्, स्वरविध्यर्थम्, तथा च दीर्घादेशकार्यार्थम् प्रकृतसूत्रेण उक्तः अजादेशस्य स्थानिवद्भावनिषेधः तदा एव प्रवर्तते यदा सः अजादेशः वस्तुतः अज्लोपः अस्ति — इति अस्य वार्त्तिकस्य आशयः । इत्युक्ते, एतेषु विधिषु स्वरस्य लोपभिन्नः कश्चन आदेशः भवति चेत् तत्र <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तस्य स्थानिवद्भावस्य निषेधः प्रकृतसूत्रेण न सम्भवति; अतश्च एतेषु स्थलेषु स्थानिवद्भावः अवश्यं सम्भवति — इति । क्रमेण विवरणम् एतादृशम् — 1. स्वरविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न । स्वरविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अस्य प्रयोजनम् बहुखट्वक इति शब्दस्य सिद्धौ दृश्यते — बह्व्यः खट्वाः यस्मिन् सः [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः] → बह्वी + खट्वा + क [<<शेषाद्विभाषा>> 5.4.154 इति कप्] →बहु + खट्वा + क [<<स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु>> 6.3.34 इति पुंवद्भावः] → बहु + खट्व + क [<<गोस्त्रियोरुपसर्जनस्य>> 1.2.48 इति ह्रस्वादेशः । अत्र आकारस्य स्थाने अकारः आदेशरूपेण विधीयते । अत्र निर्मितं ह्रस्वस्वरम् (अकारं) निमित्तरूपेण स्वीकृत्य <<ह्रस्वान्तेऽन्त्यात् पूर्वम्>> 6.2.174 इति सूत्रेण खकारोत्तरस्य अकारस्य अनिष्टम् उदात्तत्वं प्राप्नोति । तत् बाधितुम् <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन ह्रस्वः अकारः स्थानिवद् (इत्युक्ते, आकारसदृशः) भवितुम् अर्हति; तादृशं क्रियते चेत् ह्रस्व-स्वरस्य अभावात् अनिष्टम् उदात्तत्वम् अपि निवार्यते । परन्तु स्वरविधौ कर्तव्ये अजादेशः नैव स्थानिवद् भवति इति <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> 1.1.58 इत्यनेन उच्यते ।अस्यां स्थितौ, स्थानिवद्भावस्य अनुपस्थितौ, अनिष्टस्य स्वरस्य अपि न कश्चन बाधः सम्भवति । अतएव अत्र वार्त्तिककारेण <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव!> इदं वार्त्तिकं दीयते । स्वरविधौ कर्तव्ये केवलं लोपरूपस्य अजादेशस्य एव स्थानिवद्भावः निषेद्धुं शक्यः, अन्यस्वरूपस्य अजादेशस्य न — इति अस्य वार्त्तिकस्य आशयः । अतः प्रकृतस्थले आकारस्य स्थाने आदेशरूपेण विहितस्य अकारस्य विषये स्थानिवद्भावः अवश्यं सम्भवति, तस्य निषेधः <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> 1.1.58 इत्यनेन न क्रियते । स्थानिवद्भावे सिद्धे ह्रस्वस्वरस्य अभावात् अनिष्टः उदात्तस्वरः अपि न भवति ।] → बहुखट्वक लोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि चिकीर्षक इत्यस्य प्रक्रियायां दत्तम् अस्ति । 2. दीर्घविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न । दीर्घविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव गिर्योः इत्यत्र <<हलि च>> 8.2.77 इति इकारस्य दीर्घः न सम्भवति — गृ + इ + ओस् [व्युत्पत्तिपक्षे <<कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च>> (उणादिः ४.१४२) इति उणादिसूत्रेण गृ-धातोः इ-प्रत्यये कृते 'गिरि' इति शब्दः सिद्ध्यति । ततः <<स्वौजस्..>> 4.1.2 इति षष्ठीद्विवचनस्य ओस्-प्रत्ययः क्रियते] → गिरि + ओस् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः, <<उरण् रपरः>> 1.1.51 इति सः रपरः] → गिर् + य् + ओस् [<<इको यणचि>> 6.1.77 इति यणादेशः । एतादृशे यणादेशे कृते धातोः अन्ते विद्यमानात् रेफात् पूर्वम् विद्यमास्य इकारस्य <<हलि च>> 8.2.77 इत्यनेन दीर्घादेशः सम्भवति । वस्तुतः अत्र <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन अच्-वर्णः अवश्यं स्थानिवद् भवति; अतः हल्-परत्व-अभावात् अयं दीर्घादेशः निषेद्धुं शक्यः ; परन्तु <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> 1.1.58 इति प्रकृतसूत्रेण दीर्घविधौ स्थानिवद्भावस्य निषेधः उच्यते । एतादृशे निषेधे प्राप्ते स्थानिवद्भावस्य अभावात् अनिष्टः दीर्घादेशः प्राप्नोति । तस्य बाधनार्थम् <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव!> इति वार्त्तिकं प्रयुज्यते । स्थानिवद्भावस्य प्राप्तः निषेधः केवलं स्वरलोपस्य विषये एव भवति (स्वरादेशस्य विषये न) इति अनेन वार्त्तिकेन स्पष्टी भवति । इकारस्य दीर्घादेशे कर्तव्ये स्थानिवद्भावस्य निषेधः न स्वीकर्तव्यः — इति अस्य आशयः । अतएव अत्र स्थानिवद्भावसामर्थ्यात् यकारस्य स्थाने इकारस्य ग्रहणं कृत्वा हल्परत्वाभावात् दीर्घः अपि न भवति ।] → गिर्योः [ <<ससजुषो रुः>> 8.2.66, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 लोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि दीव्ना इत्यस्य प्रक्रियायां दत्तम् अस्ति । 3. यलोपविधौ लोपरूपस्य अजादेशस्य एव प्रकृतसूत्रेण स्थानिवद्भावनिषेधः उच्यते; अन्यरूपस्य अजादेशस्य न । यलोपविधौ लोपभिन्नस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः प्रकृतसूत्रेण नैव निषिध्यते । अतएव वाय्वोः इत्यत्र <<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः न सम्भवति — वायु + ओस् [<<स्वौजस्..>> 4.1.2 इत्यनेन षष्ठीद्विवचनस्य ओस्-प्रत्ययः] → वाय् व् + ओस् [<<इको यणचि>> 6.1.77 इति यणादेशः । अत्र उकारस्य स्थाने (अच्-वर्णस्य स्थाने) वकारादेशः कृतः अस्ति । अतः अयम् लोपभिन्नः अजादेशः अस्ति । अस्यां स्थितौ <<लोपो व्योर्वलि>> 6.1.66 इत्यनेन प्राप्तस्य यकारलोपस्य कृते अयम् <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन स्थानिवद् भवति । तत्र <<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु>> 1.1.58 इत्यनेन तस्य निषेधे प्राप्ते <!स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवति, अन्यत्र तु स्थानिवदेव!> इति वार्त्तिकेन सः नियम्यते, अतः लोपभिन्नस्थलेषु स्थानिवद्भावनिषेधः न प्रवर्तते । अतः अत्र उकारस्य स्थानिवद्भावात्, तत्र वल्-वर्णस्य अभावे, <<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः नैव सम्भवति ।] → वाय्वोः [<<ससजुषो रुः>> 8.2.66, <<खरवसानयोर्विसर्जनीयः>> 8.3.15 ] लोपरूपस्य अजादेशस्य <<अचः परस्मिन् पूर्वविधौ>> 1.1.57 इत्यनेन प्राप्तः स्थानिवद्भावः तु प्रकृतसूत्रेण अवश्यं निषिध्यते । अस्य उदाहरणम् उपरि कण्डूति इत्यस्य प्रक्रियायां दत्तम् अस्ति ।

Balamanorama

Up

<<न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घ- जश्चर्विधिषु>> - न पदान्तद्विर्वचन । स्थानिवदादेश॑ इतिअचः परस्मि॑न्निति चानुवर्तते । परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः । पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनुस्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः । तेषां विधयः=विधानानि । कर्मणि षष्ठआ समासः । ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशः स विवक्षितः । आर्षो द्वन्द्वः । सप्तम्या अलुक्च । विधिशब्दः प्रत्येकमन्वेति — पदान्तविधौ द्विर्वचनविधावित्यादि । पदस्यान्तः=चरमावयवः । पदान्तस्य विधाने=पदान्तकर्मके विधाने । पदस्य चरमावयवे कार्ये द्विर्वचनादौ च कार्ये इति यावत् । तदाह — पदस्य चरमेत्यादिना । पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः । तथाहि — एषः यन् इति छेदः । इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण् । अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात्, इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाऽच्त्वात् । नच न पदान्तेति निषेधः शङ्ख्यः, यो विधीयमानः पदस्य चरमावयवः संपद्यते तत्रैव तन्निषेधात्, इह च विधेयस्य सुलोपस्य पदानवयवत्वात् ।पदान्तस्य स्थाने विधा॑विति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत्, लोपस्य पदान्तसकारस्य स्थाने विधानात् । अत्र हशि चेत्युत्वे तु कर्तव्ये यकारो न स्थानिवद्भवति, उकारस्य विधीयमानस्य पदचरमावयवत्वात् । एवं च पदान्तविधावित्यस्य एषो यनित्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम् । बाष्यप्रदीपोद्द्योते स्पश्टतरमेतत् । पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विर्वचने सुध् य् इतयुदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्याऽनैमित्तिकतयातद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयथ्र्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः । वरे यथा — यायावरः । 'यश्च यङ' इति याधातोर्यङन्ताद्वरच् ।सन्यङो॑रिति द्वित्वम् । यायाय वर इति स्थि अतो लोप इति यङोऽकारस्य लोपः ।लोपो व्यो॑रिति यकारलोपः । अत्र अजाद्यार्धधातुकमाश्रित्य 'अतो लोप इटि च' इत्याकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यता — यातिः । याध#आतोर्यङि द्वित्वं । क्तिच् । यायाय तीति स्थिते-अतो लोपः ।लोपो व्यो॑रिति यलोपः । अल्लोपस्य स्थानिवत्त्वादातो लोपः । लोपो व्योरिति यलोपः । यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यं, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात्, इह च वकारस्य लोपरूपत्वाऽभावात् । स्वरविधौ यथा — चिकीर्षकः । चिकीर्ष इति सन्नन्तात् ण्वुल् । अकादेशः । सनोऽकारस्य अतो लोपः । अत्र ईकारस्य वितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत् । यद्यपि ईकारोऽल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति, तथाप्यस्मादेव ज्ञापकात् पूर्वसूत्रे पूर्वत्वं व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम् ।सवर्णविधो यथा — शिण्ड्ढि । शिष् इति धातो रौधादिकाल्लोण्मध्यमपुरुषैकवचनम् । सिप् श्नम् । शिनष् सि । हित्वम् । धित्वम् । ष्टुत्वम् । षस्य जश्त्वं डकारः । शिनड्ढि । श्नसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णो णकारः । शिण्ड्ढि इति रूपम् । अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्नमकारस्य लोपोऽत्र अजादेशः । तत्स्थानीभूतः श्नमकार एव । तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति । तथा चानुस्वारस्य स्थानीबूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यलोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन । यत्तु तत्वबोधिन्याम — अनुस्वारस्य स्थानिभूतो नकारः श्नमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं, स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्युक्तम् । एवं सति तितौमाचष्टे तितापयतीत्यत्र पुगागमो न स्यात् । 'तत्करोति तदाचष्टे' इति णिच् । इष्ठवद्भावादुकारस्य टेरिति लोपः । अचो ञ्णितीति तकारादकारस्य वृद्धिराकारः । पुगागमः । तितापीत्यस्मात् लट् तिप् शप् । गुणः । अयादेश#ः । तितापयतीति रूपम् । अत्र अचो ञ्णितीति वृद्ध्या लब्धस्य आकारस्य पुगागमे कर्तव्ये उकारलोपस्य स्थानिवद्भावे सति उकारेण व्यवधाने णिपरकत्वाऽबावात्पुगागमो न स्यात् । आकारस्य लोपस्थानिभूतादुकारात्पूर्वत्वस्य स्वतोऽभावेऽपि स्थानिद्वारा सत्त्वादिति सिद्धान्तरत्नाकरे दूषितम् । प्रौढमनोरमाव्याख्याने तु शब्दरत्ने पादमाचष्टे पादयति, ततः क्विप् पात् हसतीत्यादौ 'झयो हः' इति पूर्वसवर्णे कर्तव्ये पूर्वस्मात्परस्य विधिरिति पञ्चमीसमासप्राप्तस्थानिवद्भावनिषेधार्थमिह सूत्रे सवर्णग्रहणिति प्रपञ्चितम् । अनुस्वारविधौ यथा — शिंषन्ति । शिष्धातोर्लटि झिः । झोऽन्तः । श्नसोरल्लोपः । नस्चापदान्तस्येत्यनुस्वारः । शिंषन्ति । इह तु न परसवर्णः, षकारस्य यय्त्वाभावात् । अत्र अनुस्वारे कर्तव्ये अल्लोपो न स्थानिवत् । अत्र दीर्घविधौ यथा-प्रतिदीव्ना । हलि चेति दकारादिकारस्य दीर्घे कर्तव्ये अल्लोपो न स्थानिवत् । जइआधौ यथा — ॒सग्धिश्च मे॑ । अद भक्षणे क्तिन् । बहुलं छन्दसीति घस्लादेशः । 'घसिभसोर्हलि च' इत्युपधालोपः ।झलो झली॑ति सलोपः । झषस्तथोरिति तकारस्य धत्वम् । 'झलाञ्जश् झशि' इति जश्त्वेन घकारस्य गकारः । समाना ग्धिः=अदनं-सग्धिः । समानस्य छन्दसीति संभावः । अत्र जश्त्वे कर्तव्ये उपधालोपो न स्थानिवत् । चर्विधौ यथा — जक्षतुः । घसेर्लिटि अतुस् । द्वित्वम् । 'हलादिश्शेषः'अभ्यासे चर्चे॑ति जश्त्वम् । 'कुहोश्चुः' इति जकारः ।गमहने॑त्युपधालोपः । 'खरि च' इति चर्त्वं ककारः ।शासिवसी॑ति षः । अत्र चर्त्वे कार्ये उपधालोपो न स्थानिवत् । भाष्ये तुपूर्वत्रासिद्धे न श्थानिव॑दित्यवष्टभ्य द्विर्वचनसवर्णानुसारदीर्घजश्चरः प्रत्याख्याताः । किञ्चदीर्घा दाचार्याणा॑मित्युत्तरम् — ॒अनुस्वारस्य ययि परसवर्णः॑ 'वा पदान्तस्य' 'खरि च' 'वावसाने'अणोऽप्रगृह्रस्यानुनासिकः॑ इति पञ्चसूत्रीपाठ इति 'हलो यमां यमि' इति सूत्रस्थबाष्यसंमतः सूत्रक्रमः ।एवं चशिण्ड्ढी॑त्यत्र न परसवर्णप्रसक्तिः । परसवर्णे कर्तव्ये षकारस्थानिकस्य जश्त्वस्यासिद्धत्वेन यय्परकत्वाऽभावादिति सर्वथापि सवर्णविधौ शिण्ड्ढीति नोदाहसरणमित्यास्तां तावत् । इति स्थानीति । अनेन सूत्रेण सुध् य् इत्यत्र द्वित्वनिषेधे कर्तव्ये यकारस्य स्थानिवत्त्वनिषेध इत्यर्थः । एवं चाच्परकत्वाभावेन अनचि चेति निषेधाभावाद्धकारस्य द्वित्वं निर्बाधमिति भावः । तथाच सुध् ध् यिति स्थितम् ।

Padamanjari

Up

द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः । एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति स्थानिवत्वप्रसङ्ग इति भावः । दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् 'असिद्धं बहिरङ्गमन्तरङ्गे' इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव 'वर' इति निपातनादलुक् । यायावर इति । ङित्यं कौटिल्ये गतौ' इति यङ् । अतो लोपः परनिमितक इति । ' आर्द्धधातुके' इति परसप्तमीपक्ष इति भावः । तथा च 'अनुदातेतश्च हलादेः' इत्यत्रादिग्रहणम् । असति हि तस्मिन् हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् । यतु 'अचो यत्' इत्यत्र वक्ष्यति - 'अज्ग्रहणं किम्, यावता हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्, धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् । कण्डूअयतेः क्तिनि कृत इति । 'क्तिन्नावादिभ्यो वक्तव्यः' इत्यनेनेति भावः । 'क्तिचि' इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ' इत्यूट् भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत एवोठः पुनरुवङ् न भवति । परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् । शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्, तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय केवलानुस्वारोदाहरणं दर्शितम् । प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः 'कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः' इति कनिन्प्रत्ययः भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः । किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति, उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र वक्ष्यति-प्रतिदीव्नेत्यत्र 'हलि च' इति दीर्घत्वमिति । अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्' इति तु प्रतिषेधो रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते । झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते, तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः । बहुखट्वक इति । अत्र स्थानिवद्भावद् 'ह्रस्वान्तेऽन्त्यात्पूर्वम्' इति खकारा कारस्योदातत्वं न भवति,'कपि पूर्वम्' इत्येतदेव तु भवति । किर्योः, गिर्योरिति । 'कृग्रोरिच्च' इति व्युत्पत्तिपक्ष एतदुदाहृतम् । 'उपाधायाञ्च' 8.2.78 इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य वक्ष्यति - 'उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति किर्योगिर्योरित्यादिषु दीर्घो न भवति' इति । 'क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न स्थानिवद्भवति' इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि 'च्छवोः शूठ' इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न स्थानिवद्भवतीति 'एत्येधत्यूठसु' इति वृद्धिः । ये तु 'क्वौ लुप्तं न स्थानिवत्' इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्, क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति, पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः' इति दीर्घत्वं न भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः' इति मयटः 'फले लुक्' 'लुक्तद्धितलुकि' इति ङीपो लुक् परिनिमितकः यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति । उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके णिकृते पारिखे भवः पारिखीय इति 'वृद्धादकेकान्तखोपधात्' इति छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति । प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति । चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति - वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा, यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम् - पाचयतेः क्तिचि पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः, याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥