सन्यङोः

6-1-9 सन्यङोः एकाचः द्वे प्रथमस्य अजादेः द्वितीयस्य धातोः अनभ्यासस्य

Sampurna sutra

Up

index: 6.1.9 sutra: सन्यङोः


धातोः अनभ्यासस्य सन्यङोः द्वे

Neelesh Sanskrit Brief

Up

index: 6.1.9 sutra: सन्यङोः


सन्-प्रत्यये परे यङ्-प्रत्यये वा परे यस्य धातोः द्वित्वम् न कृतमस्ति तस्य (यथानिर्दिष्टम्) द्वित्वं भवति ।

Neelesh English Brief

Up

index: 6.1.9 sutra: सन्यङोः


When followed by the सन्-प्रत्यय or the यङ्-प्रत्यय, a verb root that have not yet undergone द्वित्वम् undergoes द्वित्वम्.

Kashika

Up

index: 6.1.9 sutra: सन्यङोः


धातोरनभ्यासस्य इति वर्तते। सन्यङोः इति च षष्ठ्यन्तम् एतत्। सनन्तस्य यङन्तस्य च अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति। यङन्तस्य पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते। अनभ्यासस्य इत्येव जुगुप्सिषते। लोलूयिषते।

Siddhanta Kaumudi

Up

index: 6.1.9 sutra: सन्यङोः


सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते ।{$ {!974 रभ!} राभस्ये$} । आरभते । आरेभे । रब्धा । रप्स्यते ।{$ {!975 डुलभष्!} प्राप्तौ$} । लभते ।{$ {!976 स्वञ्ज!} परिष्वङ्गे$} ।

Laghu Siddhanta Kaumudi

Up

index: 6.1.9 sutra: सन्यङोः


सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम्? गमनेनेच्छति। समानकर्तृकात् किम्? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥

Neelesh Sanskrit Detailed

Up

index: 6.1.9 sutra: सन्यङोः


अस्मिन् सूत्रे 'अनभ्यासः धातुः' इति अनुवर्तितम् अस्ति । 'अनभ्यास' इत्युक्ते सः धातुः यः अभ्यासेन सह न आगच्छति । पूर्वोभ्यासः 6.1.4 इत्यनेन द्वित्वे कृते द्वयोः यः पूर्वः (प्रथमः), तस्य अभ्याससंज्ञा भवति । अतः यस्य धातोः द्वित्वं कृतं नास्ति, तादृशः धातुः अनभ्यासः धातुः इत्युच्यते । अस्य धातोः सन्-प्रत्यये परे, यङ्-प्रत्यये च परे द्वित्वं भवति । यथा -

  1. पठ्-धातोः सन्-प्रत्ययान्तः आतिदेशिकः धातुः एतादृशम् सिद्ध्यति -

पठ् + सन् [धातोः कर्मणः समानकर्तृकात् इच्छायां वा 3.1.7 इति सन्-प्रत्ययः]

→ पठ् पठ् + स [सन्यङोः 6.1.9 इति पठ्-इत्यस्य द्वित्वम्]

→ प पठ् + स [हलादि शेषः 7.4.60 इति ठकारलोपः]

→ पि पठ् + स [सन्यतः 7.4.79 इति अभ्यासस्य इकारादेशः]

→ पि पठ् इट् + स [आर्धधातुकस्य इड् वलादेः 7.2.35 इति इडागमः]

→ पिपठिष [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

  1. भू-धातोः यङ्-प्रत्ययान्तः आतिदेशिकधातुः एतादृशं सिद्ध्यति -

भू + यङ् [धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3.1.22 इति यङ्]

→ भू भू य [सन्यङोः 6.1.9 इति भू-इत्यस्य द्वित्वम्]

→ भु भू य [ ह्रस्वः 7.3.59 इति अभ्यासस्य ह्रस्वः]

→ भो भू य [गुणो यङ्लुकोः 7.4.82 इति यङ्-प्रत्यये परे अभ्यासस्य गुणः]

→ बोभूय [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम् ]

Balamanorama

Up

index: 6.1.9 sutra: सन्यङोः


सन्यङोः - सन्यङोः । अवयवषष्ठएषा । प्रत्ययत्वात्तदन्तग्रहणम् ।एकाचो द्वे प्रथमस्ये॑तिअजादेर्द्वितीयस्ये॑ति चाधिकृतं । तदाह — सन्नन्तस्येत्यादिना । 'सनि यङि च परे' इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाटते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः । अभ्यासकार्यमिति । हलादिशेषादिकमित्यर्थः । गुपिप्रभृतय इति । कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारोगुपेनिन्दाया॑मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः । कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः । दानशानौ त्विति । 'दान खण्डने' 'शान तेजने' इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः । एते नित्यं सन्नन्ता इति । एते गुप्तिजादयः सप्त धातवोगुपेर्निन्दाया॑मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः । निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः । अर्थान्तरेषु तविति । निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः । चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः । नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह — अनुबन्धकस्येति । गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः । नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये — गुपादिष्वनुबन्धकरणसामर्थ्यात्सन्नन्तादात्मनेपद॑मिति । अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम् । तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम् । अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः । धातोरितीति । 'आर्धधातुकं शेषः' इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नार्धधातुकत्वमित्यर्थः । तेनेति । सन आर्धधातुकत्वाऽभावेनेत्यर्थः । जुगुप्सते इति । निन्दतीत्यर्थः । गुपेः सनि अनार्धधातुकत्वादिड्गुणेयोरभावेसन्यङो॑रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः । जुगुप्सांचक्रे इति ।कास्प्रत्यया॑दित्याम् । जुगुप्सिता । जुगुप्सिष्यते । जुगुप्सताम् । अजुगुप्सत । जुगुप्सेत । जुगुप्सिषीष्ट । अजुगुप्सिष्ट । अजुगुप्सिष्यत । तितिक्षते इति । तिक्ष्णीकरोतीत्यर्थः । मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्रस्वे 'सन्यतः' इति इत्त्वे 'मान्बधे' त्यभ्यासदीर्घे,नश्चे॑त्यनुस्वारे, मीमांसधातोर्लडादीति भावः । बधधातोः सनि विशेषमाह — भष्भाव इति । बकारस्य भकार इत्यर्थः । चर्त्वमिति । धस्य तकार इत्यर्थः । तथा चभत्से॑ति सन्नन्तं संपन्नम् । बीभत्सते इति । भष्ट्वचर्त्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे 'सन्यतः' इति इत्त्वेमान्बधे॑ति दीर्घे बीभत्सधातोर्लडादिति भावः । तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाहृताः । कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते । रभ राभस्ये इति । अनिडयम् । राभस्यं — शीघ्रीभावः । आङ्पूर्वकस्तु प्रारम्भर्थकः । तदाह — आरभते इति । रब्धेति ।झषस्तथो॑रिति धत्वं, भस्य जश्त्वम् । रप्स्यत इति । रभताम् । अरभत । रभेत । रप्सीष्ट । अरब्ध । अरप्स्यत । डु लभषिति । डुरित् षकारश्च । 'ड्वितः क्रिः'षिद्भिदादिभ्यो॑ऽङिति प्रयोजनम् । अनिट् । रभधातुवद्रूपाणि । ष्वञ्ज परिष्वङ्गे इति । षोपदेशोऽयमनिट् ।

Padamanjari

Up

index: 6.1.9 sutra: सन्यङोः


षष्ठ।ल्न्तमेतदिति। तत्र प्रत्ययग्रहणपरिभाषाया तदन्तस्य द्विर्वचनम्, न तु सन्यङेरेव, यदाह -सनन्तस्य चेति। सप्तमीपक्षे तु सन्यङेः परतः पूर्वस्य धातोर्द्विर्वचनं भवतीत्ययमर्थः स्यात्, ततश्च सन्भक्तस्येटो द्विर्वचनं न स्यात् -अटिटिषति, अशिशिषतीत्यादौ; तथा प्रतीषिषतीत्यादौ सनो न स्यात्। एवमरार्यत इत्यादौ यङः, तथा सप्तम्यामिष्टायां पूर्वेणापरेण वा सहैकमेव योगं कुर्यात्। जुगुप्सिषत इति। गुपे'गुप्तिज्किद्भयः सन्' तत्र सनि द्विर्वचनम्, पुनरिच्छासन्, तत्राकृतत्वात्पुनर्द्विर्वचनप्रसङ्गः। लोलूयिषते इति। अत्रापि यङिद्विर्वचनम्, न तु सनीति द्विर्वचनप्रसङ्गः। भागवृत्तिकारस्तावाह -ठ्ठ्पूर्वसूत्रे'धातोरनभ्यासस्य' इति द्वयमपि प्रत्याख्याय भाष्यकारेणोक्तम् -'तिष्ठतु तावत्सांन्यासिकं धातुग्रहणम्' इति, उतरार्थमिति भावः। अनभ्यासग्रहणस्य तु न किञ्चित्प्रयोजनमुक्तम्, ततश्चोतरार्थमपि तन्न भवतीति भाष्यकारस्याभिप्रायो लक्ष्यते। तेनात्र भवितव्यमेव द्विर्वचनेनऽऽ इति ॥