3-2-115 परोक्षे लिट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने
परोक्षे अनद्यतने भूते धातोः परः लिट् प्रत्ययः
अनद्यतन-परोक्ष-भूतकालं द्योतयितुम् लिट्-लकारस्य प्रयोगः भवति ।
लिट्-लकार is used to indicate an action which was done yesterday or before and which was not seen by the speaker of the sentence.
भूतानद्यतन इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद् धातोर्लिट् प्रत्ययो भवति। ननु च धात्वर्थः सर्वः परोक्ष एव? सत्यमेतत्। अस्ति तु लोके धात्वर्थेनापि कारकेषु प्रत्यक्षाभिमानः। स यत्र नास्ति, तत् परोक्षमित्युच्यते। चकार। जहार। उत्तमविषयेऽपि चित्तव्याक्षेपात् परोक्षता संभवत्येव। तद्यथा — सुप्तोऽहं किल विललाप॥ अत्यन्तापह्नवे च लिड् वक्तव्यः॥ कलिङ्गेषु प्रस्थितोऽसि? नाहं कलिङ्गान् जगाम। दक्षिणापथं प्रविष्टोऽसि? नाहं दक्षिणापथं प्रविवेश॥
भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥
भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात्। लस्य तिबादयः॥
'अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । 'परोक्ष' इत्युक्ते अक्ष्णः परः । अतः या अनद्यतने भूते जाता क्रिया वाक्यस्य वक्त्रा न दृष्टा, तां दर्शयितुम् लिट्-लकारस्य प्रयोगः क्रियते । यथा - रामः वनम् जगाम । कृष्णः कंसम् जहान । त्वं ह्यः गीतां पेठिथ । ज्ञातव्यम् - लिट्-लकारस्य प्रयोगः उत्तमपुरुषे अपि भवितुम् अर्हति । यत्र कर्ता स्वस्य ज्ञानं विना एव (सुप्तावस्थायाम् / संमोहन-अवस्थायाम् /मादकद्रव्यसेवनानन्तरं वा) किञ्चित् कार्यम् करोति, तत्र अनन्तरम् तस्य कार्यस्य निर्देशं कर्तुम् कर्ता लिट्-लकारस्य प्रयोगः कर्तुम् अर्हति । यथा - 'सुप्तो ऽहं किल विललाप' । इत्युक्ते - 'यदा अहं सुप्तः आसम् तदा निद्रायां स्थितौ एव किञ्चित् उक्तवान् वा' इति ।
<<परोक्षे लिट्>> - परोक्षे लिट् । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह — भूतानद्यतनेत्यादिना । अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्सूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः ।
परोक्षे लिट्॥ परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, ठच्प्रत्यन्ववपूर्वात्ऽ इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति ठक्ष्णोऽदर्शनात्ऽ इत्येवाच् समासान्तोऽस्तु। अन्ये तु'प्रतिपरसमनुभ्यो' क्ष्णःऽ इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु'क्रियायां परोक्षायाम्' इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुतरस्याक्षिशब्दस्यादेरुत्वं वा। ननु चेत्यादि। एकफलोद्देशेन प्रवृतत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह - अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्ट्ंअ संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानःउमिथ्याज्ञानम्, तद्व्यावृतये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उतमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव।'परस्मैपदानाम्' इति तु णलादेशवचनं'णलुतमो वा' इति च,'च्छन्दसि लुङ्लङ्लिटः' ,ठत्यन्तापह्नवेऽ इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह - उतमविषयेऽपि चितव्याक्षेपादिति। मदस्वप्नादिभिश्चिते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते - सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवःउअलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह - नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह - नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृतावेव पठ।ल्ते, तत्र प्रविश्येदं कृतवानित्यर्थः॥