6-4-101 हुझल्भ्योः हेः धिः असिद्धवत् अत्र आभात् क्ङिति हलि च
हु-झल्भ्योः हेः धिः
हु-धातोः परस्य तथा झलन्तात् परस्य 'हि' प्रत्ययस्य 'धि' आदेशः भवति ।
The 'हि' प्रत्यय that follows the verb root 'हु' or a झल् letter is converted to 'धि'.
हु इत्येतस्माद् झलन्तेभ्यश्चोत्तरस्य हलादेर्हेः स्थाने धिरादेशो भवति। जुहुधि। झलन्तेभ्यः — भिन्द्धि। छिन्द्धि। हुझल्भ्य इति किम्? क्रीणीहि। प्रीणीहि। हेरिति किम्? जुहुताम्। हलीत्येव — रुदिहि। स्वपिहि। इह जुहुतात्, भिन्तात् त्वमिति परत्वात् तातङि कृते <<सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव>> इति पुनर्धिभावो न भवति। भिन्द्धकि छिन्द्धकीत्यत्र परत्वाद् धिभावे कृते <<पुनः प्रसङ्गविज्ञानाद्>> अकच् क्रियते॥
होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥
होर्झलन्तेभ्यश्च हेर्धिः स्यात्। अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव। अदाम॥
हु (दानादानयोः) इत्यस्मात् परस्य, तथा झलन्तात् अङ्गात् परस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य 'हि'-प्रत्ययस्य 'धि'-आदेशः भवति । यथा - 1) हु + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → हु + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → हु + शप् + सि [<<कर्तरि शप्>> 3.1.68 इति शप्] → हु + सि [<<जुहोत्यादिभ्यः श्लुः>> 2.4.75 इति विकरणस्य श्लुः (लोपः)] → हु हु + सि [<<श्लौ>> 6.1.10 इति द्वित्वम्] → झु हु + सि [<<कुहोश्चुः>> 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृश एव झकारः] → झु + हु + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः] → झु + हु + धि [<<हुझल्भ्यो हेर्धिः>> 6.4.101 इति हि-इत्यस्य धि-आदेशः] → जुहुधि [<<अभ्यासे चर्च्च>> 8.4.54 इति जश्त्वम्] 2) भिद् + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → भिद् + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → भि श्नम् द् + सि [<<रुधादिभ्यः श्नम्>> 3.1.78 इति श्नम् । एतत् विकरणम् मित्वात् <<मिदचोऽन्त्यात्परः>> 1.1.47 इति अन्त्यात् अचः परः आगच्छति ] → भि न द् + सि [इत्संज्ञालोपः] → भि न द् + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> 1.2.4 इति ङिद्वद्भावः । ] → भि न् द् + हि [<<श्नसोरल्लोपः>> 6.4.111 इति श्नम्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परतः लोपः] → भि न् द् + धि [<<हुझल्भ्यो हेर्धिः>> 6.4.101 इति हि-इत्यस्य धि-आदेशः] → भिं द् + धि [<<नश्चापदान्तस्य झलि>> 8.3.24 इति नकारस्य अनुस्वारः] → भि न् द् + धि [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति अनुस्वारस्य परसवर्णः नकारः] → भिन्द्धि, भिन्धि [<<झरो झरि सवर्णे>> 8.4.65 इति वैकल्पिकः दकारलोपः] 3) अस् + लोट् [<<लोट् च>> 3.3.162 इति लोट्] → अस् + सिप् [<<तिप्तस्..>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → अस् + शप् + सि [<<कर्तरि शप्>> 3.1.68 इति शप्] → अस् + सि [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शपः लुक्] → अस् + हि [<<सेह्यर्पिच्च>> 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । <<सार्वधातुकमपित्>> 1.2.4 इति ङित्वद्भावः] → अ ए + हि [<<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इति अस्-धातोः सकारस्य एकारः] → ए + हि [<<श्नसोरल्लोपः>> 6.4.111 इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः] → ए + धि [<<असिद्धवदत्राभात्>> 6.4.22 इत्यस्मिन् अधिकारे <<घ्वसोरेद्धावभ्यासलोपश्च>> 6.4.119 इत्यनेन कृतः एकारादेशः <<हुझल्भ्यो हेर्धिः>> 6.4.101 इत्यनेन न दृश्यते । अतः <<हुझल्भ्यो हेर्धिः>> 6.4.101 इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।] → एधि
<<हुझल्भ्यो हेर्धिः>> - हुझल्भ्यो हेर्धिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात्तदन्तविधिरिति भावः । अनेकाल्त्वात्सर्वादेशः ।रुदिही॑त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात्परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायात् । अत्तमत्त । अदानीति ।आडुत्तमस्ये॑त्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लहि आद् त् इति स्थिते —
हलादेरिति । हुझल्भ्यः इति पञ्चम्या हलीति सप्तम्याः षष्ठी प्रकल्प्यते इति भावः । यद्येवम्, यस्मिन्विधिः त्यिस्याभावातदादिविधिर्न स्यात् हलीत्यनुवृत्तिसामर्थ्याद्धलन्तत्वाभावाच्च भविष्यति । भिन्धीति । श्नसोरलोपः । प्रीणीहीति । ई हल्यधोः । लोटो लङ्वत् । जुहुतामिति । तसस्ताम् । रुदिहीति । शब्दान्तरप्रात्या द्वयोरप्यनित्ययोः परत्वादिटि कृते पुनर्द्वित्वप्रसङ्गः । इहेत्यादि । धित्वस्यावकारशोऽनाशिषि - जुहुधीति, तातङेऽवकाशो हुझल्भ्योऽन्यः - जीवतात्वमिति, आशिषि हुझल्भ्यस्तूभयप्रसङ्गे परत्वातातङ् । अथ कृतेऽपि तस्मिन् स्थानिवद्भावाद्धित्वं कस्मान्न भवति तत्राह - तत्र कुते इति । भिन्धकि, च्छिन्धकीत्यत्रापि तर्हि परत्वेन धित्वे कृते अकज्न स्यात् इत्यत आह - भिन्धीकिति । अपर आह - स्थान्यादेशयोर्द्वयोरपीकार उच्चारणार्थः, तहकारस्य धकार आदेशः, हलीत्यपि नानुवर्त्यमम्, न क्वाप्यनिष्टप्रसङ्गः इति ॥