6-4-101 हुझल्भ्योः हेः धिः असिद्धवत् अत्र आभात् क्ङिति हलि च
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हु-झल्भ्योः हेः धिः
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हु-धातोः परस्य तथा झलन्तात् परस्य 'हि' प्रत्ययस्य 'धि' आदेशः भवति ।
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
The 'हि' प्रत्यय that follows the verb root 'हु' or a झल् letter is converted to 'धि'.
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हु इत्येतस्माद् झलन्तेभ्यस् च उत्तरस्य हलादेः हेः स्थाने धिरादेशो भवति। जुहुधि। झलन्तेभ्यः भिन्धि। छिन्धि। हुझल्भ्यः इति किम्? क्रीणीहि। प्रीणीहि। हेः इति किम्? जुहुताम्। हलि इत्येव, रुदिहि। स्वपिहि। इह जुहुतात्, भिन्तात् त्वम् इति परत्वात् तातङि कृते सकृद्गतौ विप्रतिषेधेन यद् बधितं तद् बाधितमेव इति पुनः धिभावो न भवति। भिन्धकि, छिन्धकि इत्यत्र परत्वाद् धिभावे कृते पुनः प्रसङ्गविज्ञानादकच् क्रियते।
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
होर्झलन्तेभ्यश्च हेर्धिः स्यात्। अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव। अदाम॥
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हु (दानादानयोः) इत्यस्मात् परस्य, तथा झलन्तात् अङ्गात् परस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य 'हि'-प्रत्ययस्य 'धि'-आदेशः भवति । यथा -
1) हु + लोट् [लोट् च 3.3.162 इति लोट्]
→ हु + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ हु + शप् + सि [कर्तरि शप् 3.1.68 इति शप्]
→ हु + सि [जुहोत्यादिभ्यः श्लुः 2.4.75 इति विकरणस्य श्लुः (लोपः)]
→ हु हु + सि [श्लौ 6.1.10 इति द्वित्वम्]
→ झु हु + सि [कुहोश्चुः 7.4.62 इति संवार-नाद-घोष-महाप्राण-हकारस्य तादृश एव झकारः]
→ झु + हु + हि [सेह्यर्पिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः]
→ झु + हु + धि [हुझल्भ्यो हेर्धिः 6.4.101 इति हि-इत्यस्य धि-आदेशः]
→ जुहुधि [अभ्यासे चर्च्च 8.4.54 इति जश्त्वम्]
2) भिद् + लोट् [लोट् च 3.3.162 इति लोट्]
→ भिद् + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ भि श्नम् द् + सि [रुधादिभ्यः श्नम् 3.1.78 इति श्नम् । एतत् विकरणम् मित्वात् मिदचोऽन्त्यात्परः 1.1.47 इति अन्त्यात् अचः परः आगच्छति ]
→ भि न द् + सि [इत्संज्ञालोपः]
→ भि न द् + हि [सेह्यर्पिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः]
→ भि न् द् + हि [श्नसोरल्लोपः 6.4.111 इति श्नम्-इत्यस्य अकारस्य सार्वधातुके क्ङिति परतः लोपः]
→ भि न् द् + धि [हुझल्भ्यो हेर्धिः 6.4.101 इति हि-इत्यस्य धि-आदेशः]
→ भिं द् + धि [नश्चापदान्तस्य झलि 8.3.24 इति नकारस्य अनुस्वारः]
→ भि न् द् + धि [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति अनुस्वारस्य परसवर्णः नकारः]
→ भिन्द्धि, भिन्धि [झरो झरि सवर्णे 8.4.65 इति वैकल्पिकः दकारलोपः]
3) अस् + लोट् [लोट् च 3.3.162 इति लोट्]
→ अस् + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ अस् + शप् + सि [कर्तरि शप् 3.1.68 इति शप्]
→ अस् + सि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]
→ अस् + हि [सेह्यर्पिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । सार्वधातुकमपित् 1.2.4 इति ङित्वद्भावः]
→ अ ए + हि [घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इति अस्-धातोः सकारस्य एकारः]
→ ए + हि [श्नसोरल्लोपः 6.4.111 इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः]
→ ए + धि [असिद्धवदत्राभात् 6.4.22 इत्यस्मिन् अधिकारे घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन कृतः सकारलोपः हुझल्भ्यो हेर्धिः 6.4.101 इत्यनेन न दृश्यते । अतः हुझल्भ्यो हेर्धिः 6.4.101 इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।]
→ एधि
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हुझल्भ्यो हेर्धिः - हुझल्भ्यो हेर्धिः । झलन्तेभ्य इति । अङ्गविशेषणत्वात्तदन्तविधिरिति भावः । अनेकाल्त्वात्सर्वादेशः ।रुदिही॑त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम् । अत्तादिति । धित्वात्परत्वात्तातङ् । तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं,विप्रतिषेधे यद्बाधितं तद्बाधितमेवे॑ति न्यायात् । अत्तमत्त । अदानीति ।आडुत्तमस्ये॑त्याडागमः । एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः । अदाव अदाम । लहि आद् त् इति स्थिते —
index: 6.4.101 sutra: हुझल्भ्यो हेर्धिः
हलादेरिति । हुझल्भ्यः इति पञ्चम्या हलीति सप्तम्याः षष्ठी प्रकल्प्यते इति भावः । यद्येवम्, यस्मिन्विधिः त्यिस्याभावातदादिविधिर्न स्यात् हलीत्यनुवृत्तिसामर्थ्याद्धलन्तत्वाभावाच्च भविष्यति । भिन्धीति । श्नसोरलोपः । प्रीणीहीति । ई हल्यधोः । लोटो लङ्वत् । जुहुतामिति । तसस्ताम् । रुदिहीति । शब्दान्तरप्रात्या द्वयोरप्यनित्ययोः परत्वादिटि कृते पुनर्द्वित्वप्रसङ्गः । इहेत्यादि । धित्वस्यावकारशोऽनाशिषि - जुहुधीति, तातङेऽवकाशो हुझल्भ्योऽन्यः - जीवतात्वमिति, आशिषि हुझल्भ्यस्तूभयप्रसङ्गे परत्वातातङ् । अथ कृतेऽपि तस्मिन् स्थानिवद्भावाद्धित्वं कस्मान्न भवति तत्राह - तत्र कुते इति । भिन्धकि, च्छिन्धकीत्यत्रापि तर्हि परत्वेन धित्वे कृते अकज्न स्यात् इत्यत आह - भिन्धीकिति । अपर आह - स्थान्यादेशयोर्द्वयोरपीकार उच्चारणार्थः, तहकारस्य धकार आदेशः, हलीत्यपि नानुवर्त्यमम्, न क्वाप्यनिष्टप्रसङ्गः इति ॥