धातोरेकाचो हलादेः क्रियासमभिहारे यङ्

3-1-22 धातोः एकाचः हलादेः क्रियासमभिहारे यङ् प्रत्ययः परः च आद्युदात्तः च इच्छायां वा क्यच्

Kashika

Up

index: 3.1.22 sutra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्


एकाज् यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद् यङ् प्रत्ययो भवति। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः।पुनः पुनः पचति पापच्यते। यायज्यते। भृशं ज्वलति जाज्वल्यते। देदीप्यते। धातोः इति किम्? सोपसर्गादुत्पत्तिर्मा भूत्, भृशं प्राटति। एकाचः इति किम्? भृशं जागर्ति। हलादेः इति किम्? भृशमीक्षते। सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहणं यङ्विधानवेकाजहलाद्यर्थम्। सोसूच्यते। सोसूत्र्यते। मोमूत्र्यते। अटाट्यते। अरार्यते। अशाश्यते। प्रोर्णोनूयते। भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात्।

Siddhanta Kaumudi

Up

index: 3.1.22 sutra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्


॥ अथ तिङन्तयङ्प्रकरणम् ॥

पौनः पुन्यं भृशार्थश्च क्रियासमभिहारस्तस्मिन् द्योत्ये यङ् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.22 sutra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्


पौनः पुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात् ॥

Padamanjari

Up

index: 3.1.22 sutra: धातोरेकाचो हलादेः क्रियासमभिहारे यङ्


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥'हलादेः' इति विशेषणादेकाचेति बहुव्रीहिः। क्रियासमभिहारे वर्तत इति। समभिह्रियमाणायां क्रियायां हि वर्तत इत्यर्तः। अनेन समभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। क्रिया हि धातुवाच्या। समभिहारविशिष्टापि क्रियैव भवति, अतः प्रकृतिविशेषणत्वमेव युक्तम्, यथा अतिशयेन शुक्लोऽपि शुक्ल एवेत्यतिशयानं प्रकृत्यर्थस्तद्वत्। तस्माद्यङ्प्रत्ययो भवतीति। क्व? अनिर्दिष्टार्याः प्रत्ययाः स्वार्थे भवन्तीति तत्रैव। समभिहारे द्योत्ये प्रकृत्यर्थसमभिह्रियमाणत्वद्योतनायेत्यर्थः, यथा प्रकृत्यर्थस्यातिशयद्योतनाय तरबादयस्तद्वत्। इह बिप्रकीर्णानं मूर्तानामेककालानामेकत्र राशीकरणं समुदायभावापतिर्मुख्यः समभिहारः, यथा - पूलादीनाम्। धातुवाच्या तु क्रियैकैव। यद्यपि'दिवु क्रीडाविजिगीषाव्यवहारद्यौतिस्तुतिकान्तिगतिषु' इत्यनेकार्थे दिविः पठ।ल्ते, तथापि न युगपदनेकार्थमाचष्टे, किं तर्हि? प्रयोगभेदेन। यद्यपि चाश्रयभेदाद्विषयभेदाच्च भिद्यते पाकः - अन्य एव हि देवदतकर्तृकः पाकः, अन्य एव चान्यकर्तृकः, अन्यश्चौदनस्य पाकोऽन्य एव तैलादीनाम्; तथापि धातुना निवृतभेदैव सा प्रत्याय्यते। अत एव भवद्भिरास्यत इत्यादौ बहुवचनं न भवति। न खलु कर्तृभेदः कर्तृ-भेदः क्रियाव्यक्तिभेदेन व्याप्तः, एकफलावच्छिन्नामेकामेव क्रियां कुर्वत्स्वपि बहुषु पचन्तीति दर्शनात्। तदेवं धातुवाच्या समूहरूपा प्रधानक्रियैकैवेति समभिहाराभावः। अधिश्रयणादीनां तु गुणक्रियाणां युगपदेकधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च कधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च समभिहाराभावः। तदेवं मुख्यस्य समभिहारस्य धात्वर्थविषयेऽसम्भवाद् गौणो गृह्यते, तद्दर्शयति, तद्दर्शयति - पौनः पुन्यं भृशार्थो वेति। द्रव्याणां द्रव्यान्तरैरव्यपेतानां समभिहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवति। तत्र प्रधानक्रियाणां पौनः युन्यं समभिहारः, पुनः पुनरनुष्ठीयमानविषयं हि तत्। प्रधानक्रियैव च पुनः पुनरनुष्ठीयते। अवयवक्रियाणां तु भृशार्थता समभिहारः, बुद्धिगोचरानेकसकलावयवक्रियाविषया हि सा। पापच्यत इति।'दीर्घो' कितःऽ इति दीर्घः। देदीप्यत इति।'गुणो यङ्लुकोः' यण्èóव समभिहारस्य द्योतितत्वात्।'क्रियासमभिहारे द्वे भवतः ' इति वा'नित्यवीप्सयएः' इति वा द्विर्वचनं न भवति। धातोरिति किमिति। अन्यस्य क्रियासमभिहारे वृत्त्यसंभवात्प्रश्नः। भृशं प्राटतीति। अत्र धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततो यङ्स्यात्, ततश्चोपसर्गस्य द्विर्वचनं स्यात्। यदि सोपसर्गसंघातस्यैव क्रियासमभिहारे वृत्तिः, प्रपापच्यत इत्यादौ यङ् न प्राप्नोति ? योऽत्र धातुः स न क्रियासमभिहारे, यश्च क्रियासमभिहारे न स धातुरिति। तस्माद्वातुरेव समभिहारविशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारकः। ततश्च संघातात्प्राप्त्यभावान्नार्थो धातुग्रहणेन। यत्र तर्हि संघातेनैव विशिष्टा क्रियोच्यते - प्रतेष्ठीयत इति, अत्र हि केवलस्तिष्ठतिर्गतिनिवृत्तिवचनः प्रपूर्वेण तु संघातेन गतिक्रियैवोच्यते, यथा - जङ्गम्यत इति? अत्राप्यनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतौ तन्निवृतौ च वर्तते, उपसर्गस्तु सन्निधिमात्रेणोपकारक इति धातोरुत्पत्तिरविरुद्धा, तस्मादार्धधातुकसंज्ञार्थमेव धातुग्रहणम्। तेन'ब्रुवो वचिः' इत्यादि भवति। आनुषङ्गिकी त्वथातुनिवृत्तिः। अथ कथं यङ्न्तादात्मनेपदं भवति? कथं च न स्यात्? इङितो धातोरात्भनेपदमुच्यते, यश्चात्र धातुर्न स ङ्त्, नि ह्ययं समुदायस्यानुबन्धः। यश्च ङ्त्प्रित्ययो नासौ धातुः। यत्र चावयवे कृतं लिङ्गमचरितार्थ तत्र समुदायस्य विशेषकं भवति, अयं ङ्कारस्तु बेभिद्यत इत्यादौ गुणनिषेधादौ चरितार्थः? कश्चिदाह - क्रियासमभिहारे यङ्त्यिकारोऽत्र प्रश्लिष्यते, स चानुदातोऽनुनासिकः प्रतिज्ञायते,तत्रानुदातत्वमवयवेऽचरितार्थ समुदायस्य विशेषकं भवति, ठनुदातेतश्च हलादेःऽ इत्येतच्च न भवति'जुचङ्क्रम्यदन्द्रम्य' इत्यत्र चङ्क्रम्यदन्द्रम्यग्रहणाल्लिङ्गदिति, स वक्तव्यः। अथ कथं ऋतेरोयङ्न्तादात्मनेपदं भवति, सोऽपि हि ङ्कारो गुणनिवृतौ चरितार्थ इति? स चेद् ब्रूयातस्याप्यादित इकार ईकारे वा अनुदातः प्रश्लिष्यत इति, प्रतिब्रूयादेनम् - इकारे नुम्प्रसज्येत, ईकरे'श्वीदितो निष्ठायाम्' निष्ठायाम्ऽ इतीण्निषेधः स्यादिति? नैष दोषः; नुम्विधौ'गौः पादान्ते' इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्ते इकार इत्सञ्ज्ञको येषां तेषां नुम्।'श्वीदितो निष्ठायाम्' इत्यत्राप्येकाचेति वर्तते? सत्यम; प्रतिविहितमायुष्मता, मुधा पुनरयं प्रयासः, तथा हि - ठनुदातङ्तिःऽ इत्यत्र न धातुग्रहणमस्ति, ततः किम? इदं ततो भवति - प्रत्ययमेव ङ्तिमाश्रित्यात्मनेपदं सिद्धं भवति। न चैवमशिश्रियद् अवोचदित्यादौ चङ्ङ्भ्यामपि प्रसङ्गः; प्रागेव विकरणेभ्यः ठनुदातङ्तिःऽ इत्येतत्प्रकरणं प्रवर्तते; अन्यथा'वर्तते' इत्यादौ विकरणव्यवधानान्नियमो न स्यात्। यथा च प्रागेव विकरणेभ्यो नियमः प्रवर्तते, प्रवृते तु नियमे विकरण इति तथा तत्रैव प्रतिपादितमित्यलमियता। सूचिसूत्रीत्यादि। सूच्यादिभ्यो यङ् वक्तव्यः, किमर्थम्? सूच्यादीनामनेकाजर्थम्, अशादीनामहलाद्यर्थम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थं च। सोसूच्यत इति।'सूच पैशुन्ये' , सूत्र अवमोचनेऽ, मूत्र प्रस्रवणेऽ चुरादिण्यन्ताः। अत्र णिलोपोऽपि यङ् आर्धधातुकत्वे प्रयोजनम्। अटाट।ल्ते। ठट पट गतौऽ, ठजादेर्द्वितीयस्यऽइति ट।ल्शब्दस्य द्विर्वचनम्। अशर्यते इति। 'ऋ गतौ' 'गुणो' तिसंयोगाद्योःऽ'यङ् चि' इति गुणः,' न न्द्राः संयोगादयः' इत्यत्र'यदा रपरस्य प्रतिषेधः' इति वचनाद्रेफस्य द्विर्वचनम्। अशाश्यते इति। अश्नोतेरशेश्च ग्रहणमित्यागमः। प्रोर्णोनूयते इति। ठूर्णुञ् आच्छादनेऽ नोपधोऽयम्, आष्टमिकं तु णत्वम्, तस्यासिद्धत्वान्नुशब्दस्य द्विर्वचनम्। ननु'पूर्वत्रासिद्धयिमद्विर्वचने? स्यादेतत् - आष्टमिकं तु द्विर्वचनमभिप्रेत्य तदुच्यते, यथा चौजढदित्यत्र ढत्वादीनामसिद्धत्वाद्धत इत्येतद् द्विरुच्यते इति? तन्न; एवं हि षुपिभूतो द्विरुच्यत इति वक्ष्यमाणं व्याहन्येत। एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इत्येतदनित्यम्, ठुभौ साभ्यासस्य' इति लिङ्गात्; अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वाण्णिशब्दस्य द्विर्वचने सति सिद्धं स्यात्प्राणिणिषतीति। इह कस्मान्न भवति - लुनीहि लुनीहित्येवायं लुनातीति? भवत्येव। लोलूयत इति लोट् तर्हि न प्रप्नोति यङ बाधितत्वात्, अन्तरङ्गो यङ् क्रियासमभिहारमात्रापेक्षत्वात्; लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु च विधानात्। सावकाशश्च लोट्, कोऽवकाशः? अनेकाजहलादिश्च - जागृहि जागृहीत्येवायं जागर्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षत इति। एवं तर्हि वेत्यनुवृतेः पक्षे पङ्, यदा न यङ् तदा लोड् भविष्यति। यङेऽकारोऽटाट।ल्ते इत्यादौ द्विर्वचनार्थः॥