8-3-60 शासिवसिघसीनां च पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
इण्कोः शासिवसिघसिनां च अपदान्तस्य सःमूर्धन्यः ।
इण्कोः परस्य शास्/वस्/घस्-धातूनामपदान्तसकारस्य षकारादेशः भवति ।
The सकार of the verb roots शास्/वस्/घस् is converted to षकार when it follows a letter from the इण्-प्रत्याहार or the कवर्ग.
शासि वसि घसि इत्येतेषां चेण्कोरुत्तरस्य सकारस्य मूर्धन्यो भवति। अन्वशिषत्, अन्वशिषताम्, अन्वशिषन्। शिष्टः। शिष्टवान्। वसि — उषितः। उषितवान्। उषित्वा। घसि — जक्षतुः, जक्षुः। <<घसिभसोः०>>६.४.१०० इत्युपधालोपः। अक्ष॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(मा०सं० १९.३६)। अनादेशार्थं वचनम्। घसिर्यद्यप्यादेशः सकारस्त्वादेशो न भवति। इण्कोरित्येव — शास्ति। वसति। जघास॥
इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके <{SK2342}> सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् ।{$ {!1006 वेञ्!} तन्तुसन्ताने$} । वयति । वयते ॥
इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥
शासुँ (अनुशिष्टौ) इति अदादिगणस्य धातुः । वसँ (निवासे) तथा घस्ऌ (अदने) एतौ भ्वादिगणस्य धातू । एतयोः इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । अद्-धातोः आर्धधातुके प्रत्यये परे <<लिट्यन्यतरस्याम्>> 2.4.40 इत्यनेन यः वैकल्पिकः घस्ऌ-आदेशः भवति तस्य अपि अनेन सूत्रेण ग्रहणं भवति, अतः तस्यापि इण्कोः उत्तरस्य सकारस्य षकारादेशः भवति । उदाहरणानि एतादृशानि - 1. शास्-धातोः क्त-प्रत्ययान्तरूपम् - शास् + क्त [<<निष्ठा>> 3.2.102 इति क्त-प्रत्ययः] → शिस् त [<<शास इदङ्हलोः>> 6.4.34 इति उपधायाः इकारादेशः] → शिष् त [<<शासिवसिघसीनां च>> 8.3.60 इति शास्-धातोः इण्कोः परस्य सकारस्य षत्वम् ] → शिष्ट [<<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वम्] 2. वस्-धातोः कर्मणि प्रयोगे लट्-लकारस्य प्रथमैकवचनस्य रूपसिद्धेः प्रक्रिया - वस् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट् ] → वस् + त [<<भावकर्मणोः>> 1.3.13 इति कर्मणि-प्रयोगस्य विवक्षायामात्मनेपदम् । <<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य त-प्रत्ययः] → वस् + यक् + त [<<सार्वधातुके यक्>> 3.1.67 इति विकरणप्रत्ययः 'यक्'] → उस् + यक् + त [<<वचिस्वपियजादीनां किति>> 6.1.15 इति वकारस्य सम्प्रसारणमुकारः] → उस् + य + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति प्रत्ययस्य टि-संज्ञकस्य एकारः] → उष्यते [<<शासिवसिघसीनां च>> 8.3.60 इति वस्-धातोः इण्कोः परस्य सकारस्य षत्वम्] 3. 'घस्' धातोः लिट्लकारस्य प्रथमपुरुषबहुवचनस्य प्रक्रिया इयम् - घस् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → घस् घस् + ल् [<<लिटि धातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → घ घस् + ल् [<<हलादि शेषः>> 7.4.60 इति सकारलोपः] → झ घस् + ल् [<<कुहोश्चुः>> 7.4.62 इति संवार-नाद-घोष-महाप्राण- घकारस्य तादृशः एव चवर्गीयः झकारः] → झ घस् + झि [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः ] → झ घस् + उस् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति झि-इत्यस्य उस्-आदेशः] → झ घ् स् + उस् [<<गमहनजनखनघसां लोपः क्ङित्यनङि>> 6.4.98 इत्यनेन उपधा-अकारस्य लोपः] → झ घ् स् + उरुँ [<<ससजुषोः रुँः>> 8.3.66 इति पदान्तसकारस्य रुँत्वम् ] → झ घ् स् + उः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य विसर्गः] → झ घ् ष् + उः [<<शासिवसिघसीनां च>> 8.3.60 इति घस्-धातोः सकारस्य षकारः] → ज घ् ष् + उः [<<अभ्यासे चर्च्च>>8.4.54 इति अभ्यासस्य जश्त्वम्] → ज क् ष् + उः [<<खरि च>> 8.4.55 इति चर्त्वम् ] → जक्षुः
<<शासिवसिघसीनां च>> - - शासिवसि । 'सहेः साडः सः' इत्यतः स इति षष्ठन्तमनुवर्तते ।इण्को॑रिति,अपदान्तस्य मूर्धन्यः॑ इति चाधिकृतम् । तदाह — इण्कवर्गाभ्यामिति । भारद्वाजनियमात्थलि वेडिति मत्वा आह — उवसिथ उवस्थेति । 'न शसददे' ति निषेधात्थलि च सेटी॑ति न भवति । ऊषथुः ऊष, उवास — उवस ऊषिव ऊषिम । क्रादिनियमादिट् । वस् स्य तीति स्थिते आह — सः स्यार्धधातुके इति । अनेन सकारस्य तकार इति भावः । वसतु । अवसत् । वसेत् । उष्यादिति । आशीर्लिङि यासुटः कित्त्वाद्वस्य संप्रसारणेसासिवसी॑ति षत्वमिति भावः । अवात्सीदिति । सिचि हलन्तलक्षणवृद्दौ सस्य तकारः । अवात्तामिति । अवस् स् तामिति स्थिते वृद्धौ 'झलो झली' ति सलोपे प्रत्ययलक्षममाश्रित्य सकाराद्याद्र्धदातुकपरत्वाद्धातुसकारस्य 'सः सि' इति तकारः । वस्तुतस्तु अवात्स्व अवास्म । अवत्स्यत् । वेञ्धातुरनिट् । ञित्त्वादुभयपदी । तन्तुसन्तानः — पटनिर्माणार्थं तन्तूनां तिर्यक्प्रसारमविशेषः । वयति वयते इति । शपि अयादेशः । वेञो वयिः । शेषपूरणेन सूत्रं व्याचष्टे — वा स्याल्लिटीति ।लिच्यन्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवृत्तेरिति भावः । उच्चारणार्थ इति । इकारस्य इत्संज्ञकत्वे तु नुम् स्यादिति भावः । उवायेति । णल#इ वयादेशे यजादित्वादकिति लिटि परेलिटभ्यासस्ये॑ति वकारस्य संप्रासरणे उपधावृद्धिरिति भावः । अत्र यकारस्य तु न संप्रसारणं,लिटि वयो यः॑इति तन्निषेधस्यानुपदमेव वक्ष्यमामत्वादिति भावः । यद्यपि णलि वयादेशाऽभावेऽपि द्वित्वे अभ्यासस्य संप्रसारमेअचो ञ्णिती॑ति वृद्धौ आयादेशे उवायेति सिध्यति, तथापि ऊयतुरित्याद्यर्थं वयादेशस्य आवश्यकत्वादिहापि वयादेशो न्याय्यत्वादुपन्यस्तः । वे — अतुस् इति स्थिते वयादेशे कृते —
अन्विशिषदिति ।'सर्तिशास्ति' इत्यादिना च्लेरङ्,'शास इदङ्हलोः' इतीत्वम् । उषित इति । यजादित्वात् सम्प्रसारणम्,'वसतिक्षुधौरिट्' । जक्षतुः, जक्षुरिति ।'लिट।ल्न्यतरस्याम्' इत्यदेर्घस्लादेशः,'गमहन' इत्युपधालोपः । अक्षन्निति । अदेर्लुड्'लुङ्सनोर्घस्लृ' ,'मन्त्रे घस' ठित्यादिना च्लेर्लुक् । तत्र युक्तं शासिवस्योरनादेशार्थं वचनमिति, घसेस्त्वयुक्तमादेशत्वात् ? इत्यत आह - घसिर्यद्यप्यादेश इति । आदेश इति । आदेशो यः सकारस्तत्र स्थितमिति भावः । यस्त्वनादेशो घसिस्तस्येह ग्रहणं न भवति; विरलप्रयोगत्वात् ॥