लिति

6-1-193 लिति उदात्तः प्रत्ययात्पूर्वं पिति

Sampurna sutra

Up

index: 6.1.193 sutra: लिति


लिति प्रत्ययात् पूर्वमुदात्तः

Neelesh Sanskrit Brief

Up

index: 6.1.193 sutra: लिति


लित्-प्रत्यये परे प्रत्ययात् पूर्वमुपस्थितः स्वरः उदात्तः भवति ।

Neelesh English Brief

Up

index: 6.1.193 sutra: लिति


For the प्रकृति-प्रत्यय-समुदाय that ends in a लित्-प्रत्यय, the स्वर that comes before the प्रत्यय becomes उदात्त.

Kashika

Up

index: 6.1.193 sutra: लिति


लिति प्रत्ययात् पूर्वमुदात्तं भवति। चिकीर्षकः। जिहीर्षकः। भौरिकिविधम्। भौलिकिविधम्। ऐषुकारिभक्तम्।

Siddhanta Kaumudi

Up

index: 6.1.193 sutra: लिति


प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ।

Neelesh Sanskrit Detailed

Up

index: 6.1.193 sutra: लिति


यस्मिन् प्रत्यये लकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'लित्' प्रत्ययः नाम्ना ज्ञायते । एतादृशः लित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य समुदायस्य प्रत्ययात् पूर्वः स्वरः अनेन सूत्रेण उदात्तः भवति । यथा -

  1. भौरिकि + विधल् → भौ॒रि॒किवि॑ध । अत्र 'विधल्' इति प्रत्ययः अस्ति, अतः अस्मात प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, ककारोत्तरः इकारः) अनेन सूत्रेण उदात्तः जायते ।

  2. पठ् + ण्वुल् → पाठ॑क । अत्र 'ण्वुल्' इति प्रत्ययः अस्ति । अस्मात् प्रत्ययात् पूर्वम् विद्यमानः स्वरः (इत्युक्ते, पकारोत्तरः आकारः) अनेन सूत्रेण उदात्तः जायते ।

ज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य अन्तिमः स्वरः' इति प्रोक्तम् नास्ति, अपितु 'प्रत्ययात् पूर्वः स्वरः' इति उक्तमस्ति । किम् अस्य कारणम् ? एकमुदाहरणम् पश्यामः । कृ-धातोः सन्-प्रत्ययं कृत्वा अग्रे ण्वुल्-प्रत्ययः क्रियते चेत् 'कृ + सन् + ण्वुल्' अस्याम् स्थितौ अङ्गस्य अन्तिमः स्वरः अस्ति सकारोत्तरः अकारः । परन्तु अस्य अकारस्य उदात्तत्वमनेन सूत्रेण न विधीयते, अपितु प्रकृति-प्रत्यय समुदाये ण्वुल्-प्रत्ययात् पूर्वम् यः स्वरः श्रूयते, तस्य (इत्युक्ते इकारस्य) उदात्तत्वमनेन सूत्रेण विधीयते । प्रक्रियां पश्यामश्चेत् प्रायः स्पष्टं भवेत् -

कृ + सन् + ण्वुल्

→ कृ + स + वु [इत्संज्ञालोपः]

→ कृ + स + अक [युवोरनाकौ 7.2.1 इति वु-इत्यस्य अक-आदेशः]

→ कॄ + स + अक [अज्झनगमां सनि 6.4.16 इति दीर्घादेशः]

→ किर् + स + अक [ऋत इद्धातोः 7.1.100 इति ॠकारस्य इकारादेशः । उरण् रपरः 1.1.51 इति सः रपरः]

→ किर् स् किर् स + अक [सन्यङोः 6.1.9 इति द्वित्वम्]

→ चिर् स् किर् स + अक [कुहोश्चुः 7.4.62 इति चकारः]

→ चि किर् स + अक [हलादि शेषः 7.4.60 इति रेफसकारयोः लोपः]

→ चि किर् स् + अक [अतो लोपः 6.4.48 इत्यनेन आर्धधातुके प्रत्यये परे अङ्गस्य अन्तिम-अकारस्य लोपः]

इदानीम् प्रत्ययात् पूर्वः स्वरः अस्ति ककारोत्तरः इकारः । अतः अस्य इकारस्य वर्तमानसूत्रेण उदात्तत्वं विधीयते । अग्रे -

→ चिकीर् सक [हलि च 8.2.77 इति उपधा-इकारस्य दीर्घः]

→ चिकीर्षक [आदेशप्रत्यययोः 8.3.59 इति षत्वम्]

अङ्गस्य अन्तिमः स्वरः यः, स एव सर्वदा प्रत्ययात् पूर्वः स्वरः नास्ति - एतत् अनेन उदाहरणेन स्पष्टं भवेत् ।

Padamanjari

Up

index: 6.1.193 sutra: लिति


प्परत्ययात्पूर्वमिति वर्तते, तेन लिदन्ते स्वरप्रसङ्गो न चोदनीयः ॥