स्त्रियां क्तिन्

3-3-94 स्त्रियां क्तिन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

भावेऽकर्तरि च कारक इति वर्तते। स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति। घञजपामपवादः। कृतिः। चितिः। मतिः॥ क्तिन्नाबादिभ्यश्च वक्तव्यः॥ आबादयः प्रयोगतोऽनुसर्तव्याः। आप्तिः। राद्धिः। दीप्तिः। स्रस्तिः। ध्वस्तिः। लब्धिः ॥ श्रुयजिस्तुभ्यः करणे॥ श्रूयतेऽनयेति श्रुतिः। इष्टिः स्तुतिः॥ ग्लाम्लाज्याहाभ्यो निः॥ ग्लानिः। म्लानिः। ज्यानिः। हानिः॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद् भवतीति वक्तव्यम्॥ कीर्णिः। गीर्णिः। जीर्णिः। शीर्णिः। लूनिः। धूनिः॥ संपदादिभ्यः क्विप्॥ संपत्। विपत्। प्रतिपत्॥ क्तिन्नपीष्यते॥ संपत्तिः। विपत्तिः॥

Siddhanta Kaumudi

Up

स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥<!श्रुयजीषिस्तुभ्यः करणे !> (वार्तिकम्) ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः ।<!ऋल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः !> (वार्तिकम्) ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः <{SK3073}> इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च <{SK3037}> चूर्तिः । फुलति ॥<!चायतेः क्तिनि चिभावो वाच्यः !> (वार्तिकम्) ॥ अपचितिः ॥<!सम्पदादिभ्यः क्विप् !> (वार्तिकम्) ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥

Laghu Siddhanta Kaumudi

Up

स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। <<ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः>> (वार्त्तिकम्)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। <<संपदादिभ्यः क्विप्>> (वार्त्तिकम्) । संपत्। विपत्। आपत्। <<क्तिन्नपीष्यते>> (वार्त्तिकम्)। संपत्तिः। विपत्तिः। आपत्तिः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

घञजपामपवाद इति । येन नाप्राप्तिन्यायेन घञोपवादः, अजपोस्तु परत्वादपवादो बाधक इत्यर्थः । उक्तं च ठजव्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनेऽ इति । अजपोरवकाशः -चयः, जयः, लव इति, क्तिनोऽवकाशः - कृतिः, दृतिः, चितिः, स्तुतिरित्यत्रोभयप्राप्तौ क्तिन् भवति विप्रनिपेधेन । लब्धिः । षित्वादङपि भवति - लभेति । ननु निष्ठायां वा सेटोऽकारवचनात्सिद्धमिति ब्रुवतो वातिककारस्य'गुरोश्च हलः' इत्यकारप्राप्तावेवाबादिभ्यश्चेति क्तिन्नभिमत इति गम्यते, तत्कथमङ्विषये क्तिन्नुदाहृतः ? सत्यम् ; प्रयोगबाहुल्यादिदमपि भवतीति मन्यते । एवं च युज्विपयेऽपि क्तिन्प्रयुज्यते - आस्तिरिति । अत एवाबादयः प्रयोगतोऽनुसर्तव्या इत्युक्तम् । श्रुयजिस्तुभ्यः करण इति । ल्युटि प्राप्ते वचनम्, श्रुतिः श्रोत्रम्, इज्यतेऽनया देवता इष्टिः । ऋकारल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन्निष्ठाकार्यं लभते - रदाभ्यां निष्ठातो नःऽ,'ल्वादिभ्यः' इति च; निष्टायां विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः । क्तिन्नपीष्यते इति । ठस्त्रियाम्ऽ इति प्रतिपेधाद्वासरूपविधेरभावादिदमुक्तम् ॥