3-4-87 सेः हि अपित् च प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः
index: 3.4.87 sutra: सेर्ह्यपिच्च
लोटः लस्य सेः हि अपित् च
index: 3.4.87 sutra: सेर्ह्यपिच्च
लोट्-लकारस्य सिप्-प्रत्ययस्य अपित् 'हि' आदेशः भवति ।
index: 3.4.87 sutra: सेर्ह्यपिच्च
The सिप्-प्रत्यय of the लोट्-लकार is converted to 'हि'.
index: 3.4.87 sutra: सेर्ह्यपिच्च
लोटः इत्येव। लोडादेशस्य सेः हि इत्ययमादेशो भवति, अपिच् च भवति। स्थानिवद्भावात् पित्त्वं प्राप्तं प्रतिषिध्यते। लुनीहि। पुनीहि। राध्नुहि। तक्ष्णुहि।
index: 3.4.87 sutra: सेर्ह्यपिच्च
लोटः सेर्हिः स्यात्सोऽपिच्च ॥
index: 3.4.87 sutra: सेर्ह्यपिच्च
लोटः सेर्हिः सोऽपिच्च॥
index: 3.4.87 sutra: सेर्ह्यपिच्च
मध्यमपुरुषैकवचनस्य यः सिप्-प्रत्ययः, तस्य लोट्-लकारस्य विषये 'हि' आदेशः भवति, स च अपित् अस्ति । यथा -
ज्ञा + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]
→ ज्ञा + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ ज्ञा + श्ना + सिप् [क्र्यादिभ्यः श्ना 3.1.73 इति विकरणप्रत्ययः श्ना]
→ जा + ना + सिप् [ज्ञाजनोर्जा 7.3.79 इति अङ्गस्य जा-आदेशः]
→ जा + ना + हि [सेर्ह्यपिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित्-'हि' आदेशः]
→ जानीहि [ई हल्यघोः 6.4.113 इति हलादि-अपित्-प्रत्यये परे विकरणस्य आकारस्य ईकारादेशः]
पठ् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]
→ पठ् + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]
→ पठ् + शप् + सिप् [कर्तरि शप् 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ]
→ पठ् + अ + हि [सेर्ह्यपिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित्-'हि' आदेशः]
→ पठ् + अ [अतो हेः 6.4.105 इति हि-प्रत्ययस्य लोपः]
→ पठ
ज्ञातव्यम् -
सिप्-प्रत्ययः पित्-अस्ति, अतः अस्मिन् सूत्रे हि-इत्यस्य अपित्-गुणधर्मः निर्दिष्टः अस्ति । केवलम् 'सेर्हिः' वदामश्चेत् हि-प्रत्ययः अपि पित्-भवेत्, येन अङ्गस्य गुणादेशस्य प्रसक्तिः स्यात् । तत् मा भूत् अतः अत्र हि-प्रत्ययः अपित्-निर्दिष्टः अस्ति । अपित्-त्वात् सार्वधातुकमपित् 1.2.4 इत्यनेन अयम् प्रत्ययः ङित्वत् भवति, अतः क्ङिति च 1.1.5 इत्यनेन अङ्गस्य गुणादेशः निषिध्यते ।
अतो हेः 6.4.105 इत्यनेन अदन्तात् अङ्गात् परस्य हि-प्रत्ययस्य लोपः भवति ।
index: 3.4.87 sutra: सेर्ह्यपिच्च
सेर्ह्यपिच्च - सेह्र्रपिच्च । 'हि' इति लुप्तप्रथमाकम् ।लोटो लङ्व॑दित्यतो 'लोट' इत्यनुवर्तते । तदाह — लोटः सेरिति । स्तुहीत्यादौ सिप्स्थानिकस्य हेः पित्त्वात्सार्वधातुकमपिदिति ङिद्वात्त्वाऽभावाद्गुणे प्राप्ते अपिद्वचनम् । एवञ्च ङिद्वत्त्वात् 'क्क्ङिति च' इति गुणो न । सेर्हर्हिङिच्चे॑त्येव तु न सूत्रितम्, पितस्सिपोऽनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि स्थिते —
index: 3.4.87 sutra: सेर्ह्यपिच्च
लुनीहीति । पित्वाभावान्डित्वे सति ठी हल्यघोःऽ इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङ्च्चेइति वक्तव्यम् । नन्वेवं ङ्त्वानिङित्कार्यं भवतु, स्थानिवद्भावेन पित्वमप्यस्तीत्यनुदातत्वमपि प्राप्नोति ?'ङ्च्चि पिन्न भवति' इति वचनान्न भविष्यति, यथा - अपि स्तुयाद्राजानमिति, अत्र ठुतो वृद्धिर्लुकि हलिऽ इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्वे ङ्त्विमारभ्यमाणं तद्वाधिष्यते ॥